________________
न्यायागमानुसारिणीव्याख्यासमेतम् [उभयनियमारे अथ मन्येत तावेतौ न युक्तौ दर्शनादुभयतोऽपि, वृक्षदर्शनस्य धवशिंशपयोरविशेषो निश्चय एव वा स्यात् , मन्मते पुनः तौ युज्येते, अतुल्यत्वात् स्वार्थाभावे वृत्त्यवृत्त्योः, ते हि संशयनिश्चयहेतू, संशयहेतवस्तावत् वृक्षादिशब्दाः शिंशपादिस्वार्थाभावेऽपि पलाशादौ वृत्तः, निश्चयहेतवस्तु वृक्षावयवान् तदनुबन्धिनश्च पार्थिवादीन् व्यामुवन्ति स्वार्थस्याभावे न 5 वर्त्तन्त इति ते व्यावृत्तिबलेनैवेति ।
अथ मन्येतेत्यादि, परमतमाशङ्कते-तावेतौ-निश्चयसंशयौ न युक्तौ दर्शनात् , उभयतोऽपि वृक्षदर्शनस्य धवशिंशपयोरविशेषो निश्चय एव वा स्यात् , मन्मते पुनरन्यापोहे स्वार्थाभावे[वृत्तेः]संशयो युज्येत, अवृत्तेश्च निश्चयः, कस्मात् ? अतुल्यत्वात् स्वार्थाभावे वृत्त्यवृत्त्योः, ते हि-स्वार्थाभाववृत्त्यवृत्ती
यथासंख्यं संशयनिश्चयहेतू, तद्व्याचष्टे-संशयहेतवस्ताववृक्षादिशब्दाः शिंशपादिस्वार्थाभावेऽपि पलाशादौ 10 वृत्तेः, सदादिशब्दाश्च द्रव्यादिस्वार्थाभावेऽपि गुणादौ वृत्तेः संशयहेतवः, निश्चयहेतवस्तु वृक्षावयवान्
शाखादीन् व्याप्नुवन्ति पार्थिवमृद्रव्यादींश्चानुबन्धिनोऽर्थान, स्वार्थाभावे न वर्तन्ते ततस्ते व्यावृत्तिबलेनैव निश्चयहेतव इति ।
एतच्च
न, दर्शनोत्सर्गापवादाभ्यां वस्तुनोऽतुल्यत्वात् संशयनिश्चयौ, स्थाणुपुरुषविषयशकुनि15 निलयनवस्त्रसंयमननियतोत्सर्गापवादभूतोर्द्धत्वसामान्यदर्शनवत् ।
(नेति) न, दर्शनस्यैवोत्सर्गापवादभूतत्वात् , वृक्षभवनदर्शनमेव हि पलाशशिंशपादिषूत्सर्गेण प्रवृत्तं शिंशपाभवननियतमपवादभूतं निश्चयाय, कस्मात् ? वस्तुनोऽतुल्यत्वात्-वस्त्वेव हि विशिष्टमतुल्यं शिंशपापलाशाख्यं परस्परतस्तदुपकारित्वात् सामान्यवृक्षभवनस्य, सामान्यादुपसर्जनादित्युक्तन्यायत्वात् , किमिव ? स्थाणुपुरुषेत्यादि दृष्टान्तो यावद्दर्शनवदिति, यथोर्द्धत्वं सामान्यं स्थाणुः स्यात् पुरुषः स्यादिति
20 स्थापनमयुक्तम् , धवशिंशपयोर विशेषेण वृक्षदर्शनसद्भावादित्याशङ्कते-अथ मन्येतेति। व्याचष्टे-परमतमिति, अविशेषत उभयत्र
वृक्षदर्शनादेव संशयो वा निश्चय एव वा स्यादिति भावः। स्वमतेन तो व्यवस्थापयति-मन्मत इति, अन्यापोहद्वारेण शब्दानामभिधायकत्वे यत्र पलाशादौ वृक्षशब्दार्थशिंशपाभाववति वृक्षशब्दस्य वृत्तेः संशयो भवति, एवं सदादिशब्दा अपि खवाच्यद्रव्याद्यभाववति गुणादौ वृत्तेः संशायकाः, अवृक्षाद्यपोहस्य च वृक्षत दवयवतदनुबन्धिषु व्याप्तत्वेन स्वार्थभूतैतदभावे वृक्षादिशब्दस्यावृत्तेस्त निश्चायका इत्यवृक्षाद्यपोहस्य सर्वत्रातुल्यत्वात् स्वार्थाभाववद्वृत्त्यवृत्ती संशयनिश्चयविधायिन्याविति भावः । संशयनिश्चयविधायित्वमेव प्रकटयति-संशयहेतव इति । दर्शनमेव संशयनिश्चयहेतुः, उत्सर्गभूतं तत् संशयहेतुः, अपवादभूतञ्च निश्चयहेतुरिति समाधत्ते-नदर्शनेति, दर्शनस्योत्सर्गापवादतायां वस्तुनोऽतुल्यत्वमेव बीजमिति मत्त्वा व्याकरोति-वृक्षभवनेति, वृक्ष एव शिंशपापलाशादिरूपेण भवन् दृष्ट इति तेषु वृक्षभवनदर्शनमुत्सर्गेण प्रवृत्तं संशायकं भवति, शिंशपाभवननियतन्तु वृक्षभवनदर्शनं तन्निश्चयाय भवतीति भावः। तत्र हेतुमाह-वस्तुन इति, सामान्यभवनस्य विशेषभवनमुपकारि भवतीति
सामान्यविशेषौ वस्तुनी न तुल्ये, तस्माच्छिशपापलाशादिवस्तु विशिष्टं सामान्यस्य वृक्षभवनस्योपकारि भवतीति भावः। दृष्टान्त30 मत्राह-स्थाणुपुरुषेति, अत्रोत्सर्गभूतं सामान्यमूर्द्धत्वदर्शनं संशयहेतुर्भवति, शकुनिनिलयननियतन्तु स्थाणुनिश्चायकम् , तथा
वस्त्रसंयमननियतं पुरुषनिश्चायकं भवति, शकुनिनिलयनवस्त्रसंयमनादिवस्तूनां विशिष्टत्वात् तन्नियतमूर्द्धत्वसामान्यदर्शनमपवादभूतं
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org