________________
अनियतसंशयसमर्थनम् ]
द्वादशारनयचक्रम्
प्रतीतिवत् पार्थिवद्रव्यसत्त्वानि प्रतीयन्ते, तैर्विना तस्यैवादर्शनादिति, यदपि च वृक्षशब्दात् पार्थिवद्रव्यसत्त्वत्र्यर्थगतिः, पार्थिवशब्दात् द्रव्यसत्त्वद्व्यर्थ गतिः, द्रव्यशब्दात् सत्त्वगतिः आनुलोम्येन, सदादिप्रातिलोम्येन चोत्तरेषु पूर्वस्मात् संशय इति तदपि विधिरूपेण दर्शनसामर्थ्येनैव च वृक्षपार्थिवद्रव्यसच्छब्दा आनुलोम्येनेत्यादि तत्प्रदर्शनं गतार्थं यावत् संशयहेतव इति दर्शनस्यैव निश्चयसंशयहेतुत्वात्, एवं गम्यतामित्यादिरुक्तोपसंहारः तदर्थप्रकरणादिसहिताद्वृक्षशब्दात् शिशपा[ याः ] वृक्षत्वतत्त्वाद्भवादिभ्योऽर्थे- 5 भ्योऽन्य॑स्याः शिंशपादिशब्दाद्विशेषात्मकादिव [ गतिः ] विशेषदर्शनादेवेति ।
यदप्यनियतसंशयं ब्रवीषि सोऽपि विशेषाविशेषदर्शनेनैव यथाऽविभातैकदेशधूमदर्शनादग्निसंशयो बद्धमूलत्वादिविशिष्टधूमदर्शनात्तु तन्निर्णयस्तथा वृक्षशब्दाद्विशेषदर्शनान्निर्णयोऽविशेषदर्शनाच्च संशयः, तद्भावदर्शनन्यायवत्, एवं वृक्षत्वस्य शिंशपादिविशेषेषु पृथिव्यादिसामान्येषु चानेकत्र वृत्तेस्तुल्यत्वेऽपि स्वार्थेन सहैव वृत्तेः पृथिवीत्वादिभिर्वृक्षादेरा - 10 नुलोम्येन तथादर्शनात् प्रातिलोम्येन दर्शनाच्च निर्णयसंशयौ ।
www
यदप्यनियतसंशयमित्यादि, योऽयं वृक्षशब्दोच्चारणे कदाचिच्छिशपाया गतिः कदाचित्तद्गतिरित्यनियमः, अविशेषदर्शनाद्गतिर्विशेषदर्शनाद्गतिः, तत्र निदर्शनं - यथाऽविभातैकदेशेत्यादि धूमविषयं प्राग्वर्णनं दर्शनं संशयाय विशिष्टन्तु निश्चयायेति दृष्टान्तः, दाष्टन्तिकोऽर्थस्तथा वृक्षशब्दादित्यादि यावत्संशयः, केन पुनर्न्यायेन तदेवमिति तद्व्याचष्टे - तद्भावदर्शनन्यायवत् - यथोपवर्णितं प्राक् देशो वाऽग्निधूमात्मकस्तद्भावेन 15 दृष्टो विधिनाऽऽत्मानमेवाऽऽत्मना साधयतीत्यादिः स एवात्रापीति, एवं वृक्षत्वस्येत्यादि प्रकृतोपसंहारः, शिंशपादिविशेषेषु पृथिव्यादिसामान्येषु च तुल्यमप्यनेकत्र वृत्तं स्वार्थेन सहैव वृत्तेः [ वृक्षः ] पृथिवीत्वादिभिः गम्यते त्रिभिरानुलोम्येन पृथिवीद्रव्यसत्त्वैः, पृथिवी द्रव्यसत्त्वाभ्यां [द्वाभ्याम् ] द्रव्यं सत्त्वेनेत्येकमेवाऽऽनुलोम्येन तथा दर्शनात्, सत्त्वाद्युत्तरोत्तरसंशयस्तु प्रातिलोम्येन, दर्शनादेव तथेति यावन्निर्णयसंशयाविति गतार्थः ।
९७७
यदपि चेति। विधिबलेनाभिधायकत्वेऽप्यानुलोम्यप्रातिलोम्याभ्यां निश्चयसंशयौ भवत इत्याह-विधिरूपेणेति, यथा शिंशपा- 20 दिविशेषशब्दाच्छिशपादिविशेषार्थस्यावगतिस्तथैवार्थप्रकरणादिसामर्थ्यात् वृक्षशब्दादपि वृक्षभूतधवादिभिन्नायाः शिंशपाया अवगतिस्तथादर्शनादेव भवतीत्याह - तदर्थेति । अथ संशयस्य यदनैयत्यमुदितं तदपि विशेषा विशेषयो दर्शनादेव भवेन्नान्यथेति निरूपयति— यदपीति । संशयानियममेव दृष्टान्तेनाचष्टे - योऽयमिति विशेषदर्शन | वृक्षशब्देन शिंशपाया गतिर विशेषदर्शनाच तस्या अगतिरिति भावः । विशिष्टो धूमोऽग्निनिश्चायकः तदेकदेशविशेषणानामविभाते धूमोऽग्निसंशयहेतुरिति प्रदर्शयति-यथाऽविभातेति । पर्वतादिदेशेन्धनादिसामग्रीसन्निधानेऽग्निर्धूमरूपेण परिणमन् दृष्टो न त्वयोऽग्निरबादिवैति तद्भावदर्शनेन यथा साध्यसाधनयोर्गम्यगमकता 25 व्याख्याता तद्वत्रापीति दर्शयति-तद्भावदर्शनेति धूमस्याग्निभवनदर्शनेत्यर्थः । तमेव न्यायं सूचयति यथोपवर्णितमिति । पृथिवीत्वादिसामान्यधर्माव्यभिचारितया शिंशपात्वादिविशेषसमानाधिकरणतया चानेकत्र दृष्टं वृक्षत्वं तस्माद्वृक्षशब्दः सद्द्रव्यपृथिवीवृक्षशिंशपादिरूपस्वार्थेन सहैव वृत्तेर्दर्शनात् त्रिभिः सद्द्रव्यपृथिवीत्वैर्ऋतं शिंशपादिवृक्षं गमयति, पृथिवीशब्दश्च सद्द्रव्यत्वावच्छिन्नां घटादिपृथिवीं द्रव्यशब्दोऽपि सत्त्वावच्छिन्नं पृथिव्यादिद्रव्यं गमयति तथैव दर्शनात्, सदभिधायिसच्छब्देन तु तत्सत् किं द्रव्यं गुणादि वा पृथिवी जलादि वा वृक्षो घटादिवैति संशयो जायते तथैव दर्शनात, तथा द्रव्यशब्देन किं पृथिवी जलादि वा तत्, वृक्षो घटादिर्वेति 30 संशयः पृथिवीशब्देन किं वृक्षो घटादि वा सेति संशयो जायत इति वर्णयति एवं वृक्षत्वस्येति । दर्शनतः निश्चय संशयव्यव
१ सि. क्ष. छा. डे. भातिलोम्येन सदाद्यानुलोम्येन
२ सि. क्ष. न्यस्मात् । ३ सि. क्ष. छा. नाद० ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org