________________
स्वार्थाभावशङ्कानिरासः] द्वादशारनयचक्रम्
९७९ संशयहेतुः, शकुनिनिलयनं स्थाणुरेवेति निश्चयहेतुः, विशिष्टत्वात् , वस्त्रसंयमनं वा पुरुष एवेति, तथैव वृक्षशिंशपादिष्वपि दर्शनादेव ।
अत्राह
ननूक्तं वृक्षादेरभावो ह्यवृक्षादिस्तत्रैवादर्शनम्, ततो व्यवच्छेद्यमानं यदवृक्षादि न भवतीति तदेव स्वार्थाभिधानमिति, एवञ्च सति क्व दर्शनं यत्त्वयेष्टम् ? वयं ह्यानन्त्यव्यभिचारादि- 5 दोषादर्शनपक्षेऽसपक्षादर्शनसाधनार्थमवृक्षाद्यभावो वृक्षादिशब्दार्थ इति कल्पयामः, दर्शनस्यैवाभावात्तदोषासंस्पर्शात् , अदर्शनमात्रस्याभिन्नत्वादित्यत्रोच्यते नन्वदर्शनादिति दर्शनस्यैव सिद्धिरेवम्, अदर्शनस्यादर्शनात् , यदि दर्शनमन्वयो नाभ्युपगम्यते न वृक्षो नाम कश्चित् स्यात् तत इदमदर्शनमेवाभावमात्रं खपुष्पादिवन्न किञ्चिदुक्तं स्यात् , अवृक्षस्यैव चाभावो वृक्षीभूतत्वात् सर्वस्य कुतस्तदर्शनम् , वृक्षदर्शनबलादेव वाऽवृक्षदर्शनसिद्धिः, वृक्षावृक्षदर्शना- 10 च्चायं वृक्षोऽयं घटादिरवृक्ष इति सिद्धिनादृष्ट इति दर्शनमेवैवं सिद्ध्यति । ___ ननूक्तमित्यादि, वृक्षादेरभावो ह्यवृक्षादिः, तत्रैवादर्शनम् , ततो व्यवच्छेद्यमानं यत् तदवृक्षादि न भवतीति तदेव स्वार्थाभिधानमिति, एवञ्च सति व दर्शनं यत्त्वयेष्टं यतो दर्शनोत्सर्गापवादाभ्यां वस्तुनोऽतुल्यत्वात् संशयनिश्चयाविष्येयाताम् , तत्तु नास्ति दर्शनम् , वयं ह्यानन्त्यव्यभिचारादिदोषात् दर्शनपक्षेऽ[स]पक्षादर्शनसाधनार्थं[अ]वृक्षाद्यभावो वृक्षादिशब्दार्थ इति कल्पयामः, दर्शनस्यैवाभावात्त-15 होषासंस्पर्शाददर्शनमात्रस्याभिन्नत्वादिति, अत्रोच्यते-नन्व[दर्श]नादित्यादि, ननु दर्शनस्यैव सिद्धिरेवम् , अदर्शनस्यादर्शनात्, तद्व्याचष्टे-यदि दर्शनमन्वयो विधिर्नाभ्युपगम्यते वृक्ष इत्यत्रावृक्षस्याभाव एवोक्तः स्यात् , न वृक्षो नाम कश्चित् स्यात् , ततः किं ? तत इदमदर्शनमेव--अवृक्षव्यतिरेक एवेत्यर्थः, ततश्चाभावमात्रमेव खपुष्पादिवदित्यादिप्रागुक्तवन्न किश्चिदुक्तं स्यात् , अवृक्षाभावो वृक्ष इत्यभावमात्रत्वात् , तथाऽवृक्षस्यैवाभावो वृक्षीभूतत्वात् सर्वस्यावृक्षाभावस्य, कुतस्तद्दर्शनं, अवृक्षस्य वृक्षदर्शनेनैव व्याप्तत्वात् , 20
निश्चायकमिति भावः । ननु गुणसमुदायमात्रत्वाद्धटादेर्दर्शनासम्भवात् स्वार्थस्य तदन्यस्य चादर्शनात् केवलं स्वार्थाभाव एव स्थितो न तु स्वार्थाभाववान् घटपटादिः, तस्मात् सामान्यमात्रस्यावृक्षादेर्व्यवच्छेदो भवति अवृक्षादि न भवतीति, तदेव च वृक्षशब्दात् स्वार्थाभिधानम् , न तु स्वार्थो नाम कश्चिदभिधीयते येन दर्शनं त्वदिष्टं तद्भावदर्शनरूपं भवेत् , येन चोत्सर्गापवादाभ्यां निर्णयसंशयौ भवेतामित्याशङ्कते-ननूक्तमिति । तदेव व्याचष्टे-वृक्षादेरभाव इति, गुणसमुदायमात्रत्वादृक्षादेरदर्शनम् , तथा तदन्यस्यापि घटपटादेः, केवलमपोह्यतया वृक्षादिशब्दादवृक्षादिमात्रमभिधीयते न घटपटादिविशेषाः, अभावस्य विशेषाभावात्, तस्मात् 25 सामान्येन वृक्षभवनदर्शनस्य विशेषभवननियतवृक्षभवनदर्शनस्य चाभाव एवेति भावः। तत्र कारणमाह-वयं हीति, वृक्षाणामानन्त्यादेकाभिधानेऽपरानभिधानतो व्यभिचाराच्च शब्दादभिधानासम्भवात् दर्शनपक्षे वृक्षशब्दादसपक्षस्य दर्शनं नास्तीति प्रतिपादनायावृक्षाद्यभावस्य वृक्षादिशब्दार्थत्वं ब्रूमः, तस्माद्दर्शनपक्षीयानन्त्यव्यभिचारादिदोषा न सन्ति, अदर्शनस्याभावसामान्यस्य विशेषासंस्पर्शनाभिन्नत्वादिति भावः । नन्ववृक्षादि त्वयाऽदर्शनमुच्यतेऽसपक्षे वृक्षशब्दादर्शनात् तद्व्यवच्छेदेनादर्शनस्यादर्शनं जातम् , स्वार्थस्याप्यदर्शनात् , एवञ्चादर्शनस्यादर्शनं दर्शनमेव भवेदिति समाधत्ते-ननु दर्शनस्यैवेति । प्रोक्तमर्थ स्फुटीकरोति-यदि दर्शनमिति 30 दर्शनं हि विधिरुच्यते तस्यानभ्युपगमे वृक्षशब्दादवृक्षाभावमात्रमुक्तं भवेत् , न त्वन्वयरूपो विध्यात्मा वृक्षः, एवञ्चासपक्षादर्शन
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org