________________
द्वादशारनयचक्रम्
३६६
[विध्युभयारे नीयो भेदो नियम्यनियामकयोः, तस्मादन्यो नियमः प्रकाशादित्यत्रोच्यते यद्यनियतोऽसावसंस्तर्हियदि स्वयमेवानियतः प्रकाशोऽसंस्तपसावनियतत्वाद्वान्ध्येयवत् ।
एवं हि कार्य कारणेऽस्तीति घटते यदि तत्तत्र नियतमनन्यथावृत्तिकार्यमिति, तत्र सन्निधिवर्त्ततेः सत्तार्थत्वात् सन्नियतो वर्त्तत इति ।
एवं हीत्यादि, एतस्यैव व्याख्यानमनिष्टापादनद्वारेण कार्य कारणेऽस्तीति एतद्दर्शनमेवमेव घटते यदि तत्तत्र नियतमिति, किमुक्तं भवति ? अनन्यथावृत्तीत्युक्तं भवति यथा वर्तितव्यं तथैव वर्तते, नान्यस्वात्मनैव च वर्त्तते नान्येन केनचिद्वय॑ते तच्चानन्यथावृत्तिरस्य तदिदमनन्यथावृत्ति कार्य कारणे सदिति शक्यमभ्युपगन्तुम् , किं कारणं ? तत्र सन्निधिवर्ततेः सत्तार्थत्वात्-तत्र कारणे सन्निध्यर्थो वर्ततिः
सत्तार्थः सन्नियतो वर्तत इति, अस्तिभवतिपद्यतिविद्यतिवर्त्ततयः सन्निपातषष्ठाः सत्तार्था इत्यत्र 10 वर्ततेः सन्निधिभवनार्थवाचित्वात् , वर्त्तते नियतः सन्निहितोऽस्तीत्यर्थः ।
इतर आह
न, आधिक्येन यतत्वादधिको यमो नियमः, तमोऽनुग्रहाद्यः स चानन्यथावृत्तिरूपता, तस्मात् सत्त्वं तमोऽनुगृहीतं तथाप्रकाशते न स्वत एवेत्येतच्चासत्, तमसोऽपि सत्त्ववत्
पृथगपरिसमाप्तरूपत्वात् , तमोनियमनापेक्षप्रकाशात्मकसत्त्ववत् , तमसोऽपि हि स्वरूपव्यक्ति15 रसमाप्तरूपैव, तस्य तथाव्यक्तेः सत्त्वप्रकाशनप्रतिलभ्यत्वादिति तथाप्रकाशनं व्यक्तिः प्रकाशात्मकसत्त्वानुग्रहाद्भवति, अनियतञ्च कथमन्यनियमने प्रवर्त्ततेत्यादिः यावन्न परिणामस्य तत्रैवोक्तत्वादिति ।
(नेति) न आधिक्येन यतत्वात् , निशब्दस्याधिकार्थत्वादधिको यमो नियमः सोऽत्र विवक्षितो न सन्निधिमात्रवृत्तिः, कोऽसावधिको यमः ? तमोऽनुग्रहाद्यः, स चानन्यथावृत्तिरूपता,
20 तत्वाद्वन्ध्यापुत्रवत् प्रकाशोऽसन्नेव स्यात् अपरिणामित्वादित्युत्तरयति-यदीति, प्रकाशस्य खयमनियतत्वे तमसः सन्निधानादपि नियतत्वासम्भवः प्रधानावस्थायामिवेति भावः । ननु प्रकाशो यदि खयमनियतस्तमसा नियतो भवति तत्र तहसत उद्भवप्र. सङ्गादसत्कार्यवादः स्यान्न चैषस्तेऽमिमतः, तस्मात्तत्र तस्य सद्भाव आवश्यक इत्याह-एवंहीति । कारणे कार्यस्य नियतत्वमित्यस्य कोऽभिप्राय इत्यत्राह-किमुक्तं भवतीति कारणे कार्येण येन प्रकारेण वर्तितव्यं तेनैव प्रकारेण तत्र तस्य वर्तनमेवा
नन्यथावृत्तिरूपं तत्र नियतत्वमिति भावः । केन प्रकारेण वर्तितव्यमित्यत्राह-नान्येति, स्वस्वात्मनैव वर्तितव्यं नान्यस्खा25 त्मना, खेनैव वय॑ते कार्य नान्येन केनचित्तमआदिना, यदि नियमोऽन्यखात्मा सन्नन्येनान्यत्र वय॑ते तर्हि न सत्कार्यवादः
सेत्स्यतीति भावः । तथा च प्रकाशखरूपान्तर्गत एव नियम इति वृत्त्यर्थवर्णनद्वारेणाह-तत्रेति । फलितार्थमाह-वर्त्तत इति । ननूकरीत्या वृत्तिनियमयोः पर्यायतयाऽविशेषेण साम्यावस्थायां सन्निधिमात्रेण वृत्त्यपि तमो न नियमकारि, तथा च न प्रकाशनियमः न वाऽसत्कार्यवादः वृत्तिमात्रेण कारणे कार्यस्य सत्त्वात् नियतप्रकाशस्तु आधिक्येन यतत्वे एव, तादृशो नियमश्च तमोऽनुग्रहादेवेति सत्त्वं प्रकाशात्मापि तमोऽनुगृहीतमेव तथाप्रकाशत इत्याशङ्कते-आधिक्येनेति तमसाऽऽतशक्ति रजः 30 सत्त्वं क्वचिदेव महदादिकार्यकरणे प्रवर्त्तयति यद्वा रजःप्रवर्तितसर्वकार्यप्रकाशनशक्तिं सत्त्वस्य तम आवृणोति, अत एव किञ्चिदेव प्रकाशयति, एवमेते प्रवर्तितव्ये नातोऽन्यथेति तमसोऽनन्यथावृत्तिरूपता नियम इत्ययमेवानुग्रह इति भावः ।
सि.क. व्यक्ति।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org