________________
अन्यत्वशङ्का]
न्यायागमानुसारिणीव्याख्यासमेतम् रहितस्य सत्त्वस्य प्रकाशस्य च, गुणान्तरात्मनो गुणान्तरात्मापत्तिरहितत्वादित्यर्थः, शब्दो हि शब्दतया प्रकाशमानो रूपाद्यात्मव्यावृत्तस्वरूपेण नियत एव प्रकाशते, अन्यथा प्रकाशनाभावात् , व्यक्त्यभावादित्यर्थः, दृष्टान्तौ यथासंख्यं रजोवत् प्रवृत्तिवत् , यथा प्रकाशात्मनाऽनियतत्वाद्रजः सत्त्वं न भवति प्रवृत्तिश्च प्रकाशो न भवति तथा सत्त्वं सत्त्वं न स्यात् प्रकाशः प्रकाशो न स्यादिति, न केवलं गुणान्तररूपापत्तिरहितस्य स्वात्माप्रतिलम्भ एव, किं तर्हि ? मूलत एव सत्त्वमेवं-तथा प्रकाश इति न । स्यादित्यस्तित्वमेव निराक्रियते, अनियतत्वात्, यदि तत्स्वत एव नियतं ततो नास्ति तत्सत्त्वं वन्ध्यापुत्रवत्, न च तत्प्रकाशात्मकं पुरुषवदिति पूर्ववद्यथासंख्यं दृष्टान्तौ ।।
इतर आह
ननु प्रकाशात्मकत्वादेव प्रदीपवत् सत्त्वस्य सर्वतो नियतानियतप्रकाशस्य पूर्वोत्तरव्यत्यभिमुखतायां मति नियामके कुड्यादावग्नेरिव तमसा नियम्यत्वं तच्चानन्यथाप्रवृत्ततेति 10 दृष्टत्वाच्चानपह्नवनीयो भेदो नियम्यनियामकयोरित्यत्रोच्यते, यद्यनियतोऽसावसंस्तर्हि, अनियतत्वाद्वान्ध्येयवत् ।
नन्वित्यादि यावदनन्यथाप्रवृत्तता, नन्वित्यनुज्ञापने, प्रकाशात्मकत्वादेव प्रदीपवत् सत्त्वस्य सर्वतो नियतानियतप्रकाशस्य महदहङ्कारादिस्पर्शरूपादिपिण्डशिवकपूर्वोत्तरव्यक्त्यभिमुखतायां सत्यां प्रकाशनस्य सति नियामके कुड्यादौ अग्नेरिव-कुड्यादिनाऽऽवरणेन नियम्यत्वं नाव इव वा सर्वदि-15 ग्गमनरोधिना लम्बनपाषाणेन गुरुणा च द्विधापि प्रदेशान्तरप्राप्तिरोधिना तमसा प्रकाशस्य दृष्टिनियम्यत्ववनियम्यत्वम् , तच्चानन्यथाप्रवृत्तता,-एवमेते प्रवर्तितव्ये नातोऽन्यथेति दृष्टत्वाचानपह्नव
mmam गुणान्तरापत्तिरहित एव, ततश्च तयोर्नियमानात्मकत्वे कस्यापि परिणामस्यासम्भवादन्यप्रकारेण व्यक्तिनैव भवेदिति तत् सत्त्वमेव न स्यात् प्रकाशः प्रकाश एव न स्यादिति भावः । कथं प्रकाशनं स्यादित्यत्राह-शब्दो हीति, कथं नियत एव प्रकाशत इत्यत्राह-अन्यथेति । सत्त्वांशे रजः प्रकाशांशे प्रवृत्तिदृष्टान्त इत्याह-दृष्टान्ताविति । दोषान्तरमप्यत्र दर्श-20 यति-न केवलमिति । यथा प्रधानावस्थायामनियतत्वात् सत्त्वं न प्रकाशते तथोत्तरकालमपि, एवं यथाऽग्निरनियमलब्धात्मा अनग्निरनग्निश्च न प्रकाशते एवं सत्त्वमपि अलब्धनियमोऽनियतत्वान्न प्रकाशेतेत्याशयेनाह पूर्ववदिति । ननु सत्त्वं प्रकाशक खभावत एव, न तस्यान्येन प्रतिलम्भः तथा च तत् सर्वस्यैव सर्वदा प्रकाशकं भवेत् यदि नियामकेन केनचिन्न नियम्येत, तस्मानियममात्रकारी नियम इति न सत्त्वस्याभावो न वाऽप्रकाशात्मकत्वमित्याशङ्कते नन्विति । ननु नियतानियतवस्तुप्रकाशात्मक सत्त्वं भवेन्नाम, खयन्त्वक्रियतया खकार्ये प्रकाशने खकीयप्रवृत्तिजननायाशक्तं कथं सर्व प्रकाशयेदित्यत्राह-25 महदहङ्कारादीति रजसा खकार्यजननाय प्रवर्तितं हि तत् , अत एव महदहङ्कारादि पूर्वोत्तरवस्तुप्रकाशनेऽभिमुखमास्ते, तथा च सर्व सकृदेव प्रकाशयेन्नियमकारिणोऽन्यस्याभावे इति भावः । अग्नेज्वलनं प्रकाशो वा लघुभूतसत्त्वनिमित्तः, नाव: तियेग्गमनखभाववायुसम्बन्धजन्यं सर्वदिग्गमनमपि लघुभूतसत्त्वनिमित्तम् , तत्र ज्वलनं गमनमपि प्रदेशान्तरप्राप्तिरूपं आवरणखभावेन कुड्यादिना गुरुखभावेन लम्बनपाषाणेन यथा प्रतिरुध्यते तथा गुरुवरणखभावेन तमसा सत्त्वस्य नियतानियतविषयप्रकाशनोन्मुखः प्रकाशो नियम्यत इत्याह-कुड्यादिनेति । सत्त्वरजसोस्तमसा नियम्यत्वञ्च सार्वत्रिकसार्वदिकप्रवृत्तिप्रति-30 बन्धेन नियत विषये प्रवृत्तत्वमित्याह-तच्चति । एवे-सत्त्वरजसी। तथा च सत्त्वरजसोरग्निनावोरिव नियम्यत्वं तमसः कुड्यलम्बनपाषाणयोरिव नियामकत्वमत एव च नियम्यनियामकयोभदो भिन्नलक्षणत्वादिति भावः। एवं प्रकाशनियमयोर्भेदे स्वयमनिय
क. थावृत्तता । २ सि.क. नियमत्वं ।३ सि.क. गुरुणेव ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org