________________
३६४
द्वादशारनयचक्रम्
रूपरसगन्धस्पर्शसंख्यासंस्थानादीनां घटादिषु दृष्टानामन्यत्वाद्विपक्षोऽस्तीत्याशङ्केथास्तत्रापिरूपादीनाञ्चानेन न्यायेनान्यत्वेऽपक्षिप्ते प्रत्युदाहरणाभाव एव ।
रूपादीनाञ्चानेनेत्यादि यावत् प्रत्युदाहरणाभाव एव न रूपं रसादन्यत्, अगन्धाद्यात्मकत्वात् रूपस्वरूपवदित्यादि प्रसिद्धिविरुद्ध सिद्ध्यतिप्रसङ्गोऽपि ते तत्प्रतिवादिनो दोषासक्तिरभिम5 तैवेति तदेव यावद्भावपक्षवदिति, पुनश्च स्वमतेऽपि सुखाद्यन्वयमात्रत्वादित्यादि यावत् समुदयक्षणिकशून्यवादापत्तेरिति, समानश्चार्थः, एवं सुखादनन्यदुःखमित्येतद्भावितम् ।
तमोऽनन्यदिति भाव्यं तदपि -
[ विध्युभयारे
यथाच प्रकाशादभिन्ना प्रवृत्तिस्तथा नियमोऽप्यभिन्नः प्रकाशात्, प्रकाशस्वात्मत्वप्रतिलम्भ एव हि तन्नियमः, प्रकाशानन्यत्वात्, एतन्नियमलक्षणेन निरुद्ध्यतेऽन्यः प्रकाशा10 नियम इति, तत्र दोषदर्शनात् ।
( यथा चेति) यथा च प्रकाशादभिन्ना प्रवृत्तिस्तथा नियमोऽप्यभिन्नः प्रकाशात्, प्रकाशानतिरिकता प्रदर्शनार्थं नियमलक्षणमाह - प्रकाशस्वात्म [त्व ] प्रतिलम्भ एव हि तन्नियमः, प्रकाशस्य स्वात्मा - प्रकाशनमेव तद्भावः प्रकाशस्वात्मत्वं तत्प्रतिलम्भ एव हि - तदात्मलाभ एव हि तन्नियमः रूपस्य रसस्य वा प्रकाश्यस्य स्वरूपव्यक्तिर्नियमः, नहि छिन्नाभ्रनभसीव निराश्रयः कश्चिन्नियमोऽस्ति 15 तत्पर्यायः कथं नियमः ? प्रकाशानन्यत्वात् - प्रकाशस्वरूपमात्रम्, एतन्नियमलक्षणेन निरुद्ध्यते अन्यःप्रकाशाद्भिन्नो नियम इति, तत्र दोषदर्शनात् ।
को दोष इति चेदुच्यते
भिन्नात्मकतायां प्रकाशात्तन्नियमस्य सत्त्वं न स्यात् प्रकाशो वा, तथाऽनियतत्वात् गुणान्तररूपापत्तिरहितस्य सत्त्वस्य प्रकाशस्य चान्यथाप्रकाशनाभावात्, रजोवत्, प्रवृत्तिवत् 20 मूलत एव सत्त्वमेवं प्रकाश इति न स्यादनियतत्वाद्वन्ध्यापुत्रवत्, न च तत्प्रकाशात्मकं पुरुषवत् पूर्ववद्वानग्निप्रकाशवद्वा ।
( भिन्नात्मकतायामिति ) भिन्नात्मकतायां प्रकाशत्तन्नियमस्य सत्त्वात्तमसश्च सत्त्वंसत्त्वमेव न स्यात्, प्रकाशो वा - प्रकाश एव न स्यादिति वर्त्तते, तथाऽनियतत्वात् गुणान्तररूपापत्ति
दिति माने विपक्षाभावे साधितेऽपि पुनर्विपक्षसद्भावमाशंक्य परिहरति-रूपादीनाञ्चेति, अनेन न्यायेन-अर्थान्तरधर्मनिवृत्त्या 25 तदात्मत्वापादनन्यायेनेत्यर्थः । तमेव न्यायं दर्शयति--न रूपमिति प्रकाश एव प्रवृत्तिः प्रवृत्तिस्वात्मैव प्रकाश इत्यन्योऽन्यानन्यत्वं प्रतिपाद्येदानीं प्रकाशनियमयोरनन्यत्वं पूर्वोपदर्शितदिशा प्रसाधयति - यथा चेति, प्रकाशस्वात्मत्वेति प्रवृत्तिनियमौ ह्याश्रित्य प्रकाश आत्मलाभं लभते नान्यथा तस्मान्नियमस्य प्रकाशजनकत्वात् कार्यकारणयोरभेदान्न नियमः प्रकाशादन्यः गुणानाञ्च परस्पराश्रयेण वृत्तेर्न प्रकाशव्यतिरेकेण नियमस्य वृत्तित्वमिति नियमस्वरूपमेव प्रकाशादन्यत्वं निवारयतीति भावः । प्रकाशनियमयोर्भेदे दोषमाह - भिन्नात्मकतायामिति, सत्त्वतमसोः प्रकाशनियमयोश्च परस्परमन्यत्वे सत्त्वप्रकाश योर्निय• 30 मानात्मकत्वान्नियतपरिणामासम्भवेन गुणान्तरापत्तिरहितत्वात् सत्त्वं सत्त्वमेव न स्यात् प्रकाशः प्रकाश एक न स्यादिति भावः । हेतुमाह - तथाऽनियतत्वात् गुणान्तरापत्तिरूपेण नियतत्वाभावादित्यर्थः, साम्यावस्थायां हि सत्त्वं प्रकाशश्च १ सि. क. मन्यद्दा वि० । २ सि. क. 'नन्यता । ३ सि. क. नान्यः । ४ सि. शानिय० ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org