________________
सर्वानन्यता] न्यायागमानुसारिणीव्याख्यासमेतम्
३६३ तत्प्रतिवादिनो मम तु सर्वानन्यत्वापादनमभिमतमेव, भावपक्षवत् , यथा भावविधिविधिनयमतेऽनन्तरातीते सर्वानन्यत्वमिष्टम् , एतस्योदाहरणमात्रत्वादुत्क्रमेण स्वभावकालनियतिपुरुषपक्षवञ्च वक्ष्यमाणविधिनियमवञ्च यथास्वम् , अत एव, एवं तावत् परवाद्यभिप्रायवशात्त्वन्मते दोषासक्तिरिष्टा ।
न केवलं पराभिमते एव किं तर्हि ?* अपि च स्वमतेऽपि सर्वानन्यत्वं सुखाद्यन्वयमात्रत्वात् सर्वस्य, मृदि घटः कट इव 5 त्रिगुणोऽपि नास्तीति चेत्ततश्च सत्कार्यवादत्यागो वा तत्राभावात् , समुदयक्षणिकशून्यवादापत्तेश्च ।
(अपि चेति) अपि च स्वमतेऽपि सर्वानन्यत्वं सुखाद्यन्वयमात्रत्वात् सर्वस्य, न तु कटो घटादन्यः, सुखदुःखमोहान्वितमेतद्वाह्याध्यात्मिकभेदरूपं जगदिच्छतस्ते त्रैगुण्यजात्यनुच्छेदेन सर्व सर्वात्मकमेव, त्रैगुण्यान्वयानतिरेकात् को हि सत्त्वाद्यतिरिक्तः ? यदि सत्त्वरजस्तमोऽतिरिक्तं किञ्चित् 10 स्यात् सर्वसर्वात्मकत्ववादेऽदोषः स्यात्, न त्वस्ति, तस्मात्तवैव दोषः, स्यान्मतं[मृदि]घटः कर्ट इव त्रिगुणोऽपि नास्तीति, ततश्च सत्कार्यवादत्यागो वा तत्राभावात् , यदि सत्त्वादिगुणे मृदादौ कटादिर्न स्यात् त्रिगुणोऽपि तथा घटोऽपि मा भूत् , अतोऽसन् घटः पश्चादुत्पन्नस्तत्र प्रागभूत इत्यसत्कार्यवादः सत्कार्यवादत्यागश्च प्राप्तः । किश्चान्यत् प्रकाशादिविविक्तस्वरूपगुणसमुदयाभ्युपगमाद्रूपादिस्कन्धसमुदयवाद एवायमपि देशभिन्नयुगपद्भाव्यनिर्देश्यगुणसमुदयमानत्वात् , क्षणिकवादश्चायुगपद्धाविपि- 16 ण्डशिवकाद्यनिर्देश्यनिर्विकल्पार्थमात्रत्वात् , अत एव च शून्यवादापत्तिः अनिर्देश्यस्वभावत्वात् खपुष्पवत् ।
सर्वेषामनन्यत्वमपि तु तव मतेऽपि सर्वानन्यत्वमभिप्रेतमित्याह-अपि चेति, सर्व हि सुखदुःखमोहान्वितत्वात्तव्यतिरिक्तस्य कस्यचिदभावात् सर्वात्मकमतो न घटकटयोरन्यतेति भावः, इदमेवोपपादयति-सुखदुःखेति । त्रैगुण्यजात्यनुच्छेदेनेति, जलभूम्योः पारिणामिकं रसादिवैश्वरूप्यं स्थावरेषु दृष्टं, तथा स्थावराणां जगमेषु जङ्गमानां स्थावरेष्वित्यादिप्रन्थेन सर्वेषु वस्तुषु 20 सर्वविकारजननशक्तिसिद्धया सुखत्वदुःखत्वमोहत्वजात्यनुच्छेदेन सर्व सर्वजातीयशक्तिमदिति तेऽभीष्टमेवेति भावः । सर्वत्र गुणत्रयान्वयदर्शनात् कार्यकारणयोरभेदाच्च न कोऽपि सत्त्वाद्यतिरिक्तोऽस्तीत्याह-त्रैगुण्येति । सत्त्वाद्यतिरिक्तस्य तु कस्यचित् वस्तुनः सद्भावे तस्य भिन्नत्वेन सर्वानन्यत्वासिद्धौ प्रसिद्धिविरोधदोषस्ते न स्यात् , तञ्च नास्तीत्याशयेनाह-यदीति । सर्वस्य सर्वात्मकत्वानभ्युपगमे दोषमादर्शयति स्यान्मतमिति । समुदयक्षणिकशून्यवादापत्तश्चेत्यनेन बौद्धवादत्वं मूले यदापादित तदेव व्याख्यास्यमानः प्रथम समुदयवादं बौद्धवादविशेषं व्याचष्टे-प्रकाशादीति सर्वविकाराणामेव गुणात्मकत्वान्महदादि- 25 घटपटादयः परमार्थतो गुणात्मानः, त्रैगुण्यान्वयानतिरेकात् , ते च परस्परभिन्नास्त्रयो गुणा युगपद्भाविनोऽव्यक्तत्वादनिर्देश्यइति रूपादिपञ्चस्कन्धसमुदयवादतुल्य एवायं गुणत्रयसमुदयवाद इति भावः । अथवा सुखदुःखमोहानां सत्त्वरजस्तमआत्मना क्रमभावित्वेन निर्विकल्पत्वेन च क्रमभाविक्षणपरम्परावाद एवायमित्याह-क्षणिकवादश्चेति । ननु विचारकैर्भावस्खभावे विचार्यमाणे सर्व एव भावा निःस्वभावा एव परमार्थतः, अविद्यातिमिरोपहतमतिनयनानां भासमानाः कर्तृकर्मगन्तृगम्यकारणकार्यद्रष्ट्रदृश्यादिभावाः परस्परसापेक्षतामात्रेण प्रसिद्धिमुपागता गन्धर्वनगरायन्ते, सोऽयं परमार्थः भावोऽनमिलप्योऽपरिनेयोऽ- 30 विक्रियोऽकारणो न लाभो नालाभो न सुखं न दुःखं न यशो नायशो न रूपं नारूपमिति शून्यमेवेति वादवदयमपि वाद इत्याह-अत एव चेति, अनिर्देश्यनिर्विकल्पार्थमात्रत्वादेवेत्यर्थः। तदेवं सुखादनन्यदेव दुःखम् , अनात्मत्वेऽवरणाद्यात्मकत्वा
सि. क. 'नन्यथा। २ सि. क. ननु घटः कटादनन्यः। ३ सि. तवैवादोषः । ४ सि. क.कटे त्रि।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org