________________
mammmmmm
३६२ द्वादशारनयचक्रम्
[विध्युभयारे मोहो वरणविलक्षणसदनापध्वंसनबैभत्स्यदैन्यगौरवधर्मापि वरणात्मक एव [कार्य]कारणयोरभेदादाच, अभ्यथा पौनरुक्त्यानर्थक्यौ ग्रन्थदोषौ व्यपदेश्यव्यपदेशाभावदोषश्च स्युः नेष्यन्ते च तथा, तस्मादरणाद्यात्मकत्वं मोहस्य सदनादीनां चैषितव्यम् , यथा चैतत्तथा सुखदुःखप्रसादशोषादयश्च वरणाद्यात्मकाः स्युः, तस्मात् सुखदुःखयोरैनन्यत्वहेतुव्यभिचारप्रदर्शनाय नासपक्षोऽस्तीति ।
किश्चान्यत्वक्ष्यमाणवञ्च वरणाद्यात्मकत्वेऽप्यनन्यत्वादवरणाद्यात्मकत्वस्य प्रापितत्वात् ।
(वक्ष्यमाणवच्चेति) वक्ष्यमाणवच्च वरणाद्यात्मकत्वेऽपि अनन्यत्वादवरणाद्यात्मकत्वस्य प्रापितत्वात् , वक्ष्यति हि सुखादनन्यत्तमः प्रकाशादनन्यो नियम इति च, तत्र तमसो वरणाद्यात्मकत्वे प्रसादशोषादिकार्यादेकस्मादेव सुखादनन्यत्वं साधयिष्यते तमसोऽप्यतस्तस्मादनन्यत्वावरणाद्यात्मक10 मप्यवरणात्मकं तमः सत्वरजोवत् । (किश्चान्यत् अवरणाद्यात्मकत्वस्य वरणात्मके सत्येवानन्तरं प्रापितत्वात् तथा वक्ष्यमाणत्वादिति ।)
इतर आह
असाधनमिदं सर्वतुल्यत्वात् प्रसिद्धिविरुद्धसिद्ध्यतिप्रसङ्गात् , शक्यते हि वक्तुं कटः घटादनन्यः, तन्त्वनात्मकत्वात्, यथा घटस्वात्मा वैधयेण पटवदिति । 15 (असाधनमिति) असाधनमिदं सर्वतुल्यत्वात् प्रसिद्धिविरुद्धसिद्ध्यतिप्रसङ्गात् , प्रसिद्धिविरुद्धानामप्यर्थानां सिद्धिरेवमतिप्रसज्यते, अर्थान्तरधर्मनिवृत्त्या तदात्मत्वापादनात् , तद्यथा शक्यते हि वक्तुं कटः घटादनन्यः, तन्त्वनात्मकत्वात् , यस्तन्त्वनात्मकः स घटादनन्यः यथा घटस्वात्मा, यः घटादन्यः स तन्त्वनात्मको न भवति यथा पट इति वैध\ण पटवदित्युक्तम् ।
आचार्य आह20 अथ सर्वतुल्यता कथं दोषः ? स्वमतेन परमतेन वा, यदि स्वस्मिन्नेव मते ततस्तव प्रसिद्धिविरोधदोषासक्तिर्ममाभिमतैव, भावपक्षवत् ।
(अथेति) अथ सर्वतुल्यता कथं दोषः ? स्वमतेन परमतेन [वा]इति प्रश्नः, उभयथाप्यदोष इति मन्यमानस्य । यदि ते स्वस्मिन्नेव मते दोषस्ततस्तव प्रसिद्धिविरोधदोषासक्तिर्ममाभिमतैव
न स्यात्, ततः कथमुभयात्मकतेत्यत्र हेतुमाह-कार्यकारणयोरिति कारणात्मनाऽभेदाद्वरणात्मकत्वं कार्यात्मना च मेदा25 दवरणात्मकत्वमिति भावः । भेदानङ्गीकारे दण्डमाह-अन्यथेति । सुखदुःखयोः वरणावरणाद्यात्मकत्वं यथोक्तं तथैव मोहस्याप्यु
भयात्मक वमित्याह-वक्ष्यमाणवञ्चेति । नन्वेवं सुखदुःखमोहानामनन्यत्वसाधनमसाधनमेव, सर्वेषामेवमेव तुल्ययुक्त्या लोकप्रसिद्धानां विरुद्धानामनन्यत्वप्रसक्त्यापत्तिरित्याशङ्कते-असाधनमिदमिति, कथमनन्यत्वस्यातिप्रसञ्जन मित्यत्र हेतुमाह-अर्थान्तरेति,घटादर्थान्तरस्य पटादेर्योधर्मस्तन्त्वात्मकत्वं तन्निवृत्तिरूपहेतुना घटात्मत्वापादनादित्यर्थः । तथैव प्रयोगमाह-तद्यथेति।
अन्वयव्यतिरेकव्याप्तिं ग्राहयति-यस्तन्त्वनात्मक इति । पुरुषकालनियतिखभावभावपक्षेषु यथा सर्वानन्यत्वमिष्टं तथैव 30 भवन्मतेऽपि सर्वानन्यत्वाल्लोकप्रसिद्धिविरोधदोषो भवदुक्तो ममेष्ट एवेत्याह-यदि त इति । न ममाभिप्रायादेव
सि.क. रन्यत्व०।२ क. सपक्षोऽ० । ३ सि.क. धर्म्यनिवृत्त्या। ४ सि.क. घटः कटा एवमप्रेऽपि। () सि.क. नास्ति ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org