________________
३६१
अवरणात्मकत्यासिद्धिः] न्यायागमानुसारिणीव्याख्यासमेतम्
स्यान्मतम्
वैषम्याददृष्टान्तोऽयम्, सम्बन्धिनः सुटः सर्वनामस्थानसंज्ञाविधाने नपुंसकानपुंसकविषयत्वाविरोधात्, विरोधाद्वरणाद्यात्मकत्वानुपपत्तिरित्येतदपि न, वैषम्यस्यात्रापि तुल्यत्वात् , तटस्तदं तटीति स्त्रीपुंनपुंसकवदेतत्स्यात् , एकस्मिन्नेव लिङ्गत्रयदर्शनात् ।।
(वैषम्यादिति) वैषम्याददृष्टान्तोऽयम्, सम्बन्धिनः सुटः सर्वनामस्थानसंज्ञाविधाने । नपुंसकानपुंसकविषयत्वाविरोधायुज्येत सर्वनामस्थानसंज्ञाविषयस्य नपुंसकानपुंसकत्वम् , विरोधात्] वरणाद्यात्मकत्वानुपपत्तिरित्येतदपि च न, वैषम्यस्यात्रापि तुल्यत्वात् , तटस्तटं तटीति स्त्रीपुंनपुंसकत्ववदेतत् स्यात् , एकस्मिन्नेव लिङ्गत्रयदर्शनात्-दृष्टं हि तटे लिङ्गत्रयम् , तटस्तटी तटमित्येकस्मिन्नेव, यदा च नपुंसकलिङ्गं तदा न बैणं न पौंस्नम् , पुंस्त्वे न स्त्रीता न नपुंसकता, स्त्रीत्वे नेतरद्वयतेत्यपुनपुंसकत्वं तथा वरणाद्यात्मकत्वमस्तु को दोषः ? सरूपैकशेषाकरणमनुकरणत्वाल्लिङ्गत्रयव्यक्त्यर्थ- 10 मित्यदोषः।
___ एवं तर्हि सुखदुःखयोरपि वरणाद्यात्मकत्वादवरणाद्यात्मकत्वासिद्धिरेव, वरणाद्यात्मकत्वसिद्धौ वाऽनन्यत्वासिद्धिरिति चेन्न, अवरणाद्यात्मकत्वेऽप्यनन्यत्वाद्धरणाद्यात्मकत्वस्य, वरणसदनमोहात्मकत्ववत् ।
(एवं तहीति) एवं तर्हि सुखदुःखयोरपि वरणाद्यात्मकत्वावरणाद्यात्मकत्वासिद्धिरेव, 15 वरणाद्यात्मकत्वसिद्धौ वाऽनन्यत्वासिद्धिरिति चेन्नेत्युच्यते, अवरणाद्यात्मकत्वेऽप्यनन्यत्वावरणाद्यात्मकत्वस्य-अवरणाद्यात्मके अपि सुखदुःखे वरणाद्यात्मकत्वतो न द्वे, तस्मादभिन्ने वरणाद्यात्मके एव प्रसादशोषादिकार्यभेदेऽपि कारणत्वात्मत्वपरिणामित्वादिभ्यः, किमिव ? वरणसदनमोहात्मकत्ववत् यथा मोहात्मकानि वरणादन्यानि सदनादीनि वरणाद्यात्मकमोहात्मकानि अवरणात्मकानि[]यथा वा
णायात्मकत्वं न सम्भवति विरोधादिति न दृष्टान्तस्य समतेत्याशङ्कते-वैषम्यादिति, नपुंसकत्वमनपुंसकत्वञ्चैकदैकस्य न 20 सम्भवति त्रिलिङ्गस्यापि तटशब्दस्यैकलिङ्गतादशायामपरलिङ्गयोर्विरोधेनासम्भवान्न दृष्टान्तं विषममित्युत्तरयति-वैषम्यस्यात्रापीति विरोधलक्षणवैषम्यस्य सर्वनामस्थानसंज्ञाविषयेऽपि तुल्यत्वादित्यर्थः । तटस्तटी तटमित्यत्र 'सरूपाणामेकशेष एकविभक्तो (पा. १-२-६४) इति सूत्रेण यद्यप्येकशेषः प्राप्नोति तथापि तस्यानुकरणत्वादेकस्यैव पदस्य लिङ्गत्रयं जातमिति स्फुटतया प्रदर्शयितुं न स कृत इत्याह-सरूपेति । अवरणाद्यात्मकत्वादिति हेतोरसिद्धत्वमाशङ्कते-एवं तहीति यदि एकदै. कस्य न लिङ्गत्रयं विरोधादिति दृष्टान्तसाम्यमुच्यते तीत्यर्थः, सुखदुःखयोर्वरणाद्यात्मकत्वस्याविधानादप्रतिषेधनाच्च वरणात्म-25 कत्वादवरणात्मकत्वमसिद्धमेवेति भावः । अवरणाद्यात्मकस्य वरणाद्यात्मकस्य चामेदं प्रदर्शयन्नसिद्धिं निराकरोति-अवरणा. द्यात्मकत्व इति, सुखदुःखयोः प्रसादशोषादिकार्यभेदेऽपि अभेद एव, कारणत्वात् तदात्मत्वात् तत्परिणामित्वादित्यादिहेतुभ्यः, अत एव तयोरवरणाद्यात्मकत्वं वरणाद्यात्मकत्वञ्चेति भावः । तत्र दृष्टान्तमाह-वरणसदनेति वरणसदनयोमोहात्मकत्ववत् मोहस्य वा वरणात्मकत्वसदनात्मकत्ववदित्यर्थः, सदनं हि वरणादन्यत्वादवरणात्मकं तथा वरणात्मकमोहात्मकत्वाद्वरणात्मकञ्च तदात्मकात्मकस्य तदात्मकत्वनियमात्, एवं मोहो वरणादन्यसदनाद्यात्मकत्वादवरणात्मकः तथा 30 वरणात्मकञ्चेति भावः। ननु सदनादीनां मोहात्मकत्वे वरणात्मकत्वमेव स्यान्न त्ववरणास्मकत्वं, अवरणात्मकत्वे वा वरणात्मकत्वं
१ सि. क. स्मकत्वयोः । २ सि. क. दुःखयोः । ३ सि. क. किमिति वा । ४ सि. क. अपवरणात्मकानि ।
द्वा० न० ८ (४६) Jain Education International 2010_04 For Private & Personal Use Only
www.jainelibrary.org