________________
३६०
द्वादशारनयचक्रम्
[विध्युभया न किंचित् सुखादन्यदस्ति, तस्मादन्यः कश्चिद्विपक्ष एव नास्तीति विपक्षाभावादेवावृत्तिरसपक्षेऽस्य हेतोरित्यव्यभिचारी हेतुः मोहेऽन्यत्वमिति चेत्तन्निवर्तयिष्यते, व्याख्यातार्थस्फुटीक्रिया चादौ चोद्योत्तरपक्षौ गतार्थो न वित्रियेते।
अवरणाद्यात्मकत्वात् कुतोऽन्यत्वनिवृत्तिरिति चेन्न, अवरणाद्यात्मकत्वादिति विधिप्र5 धानपर्युदासात्मकत्वात्, अनपुंसकवचनादप्रतिषेधेऽनपुंसकसुटः सर्वनामस्थानत्ववत् ।
(अवरणादीति) अवरणाद्यात्मकत्वात् कुतोऽन्यत्वनिवृत्तिरिति चेत् स्यान्मतं वरणाद्यात्मकमोहप्रतिषेधादेवावरणाद्यात्मकाभ्यां सत्त्वरजोभ्यां मोहस्य प्रतिषेध्यस्यान्यत्वं सिद्धम् , तस्मान्न तदन्यत्वनिवृत्तिरित्येतच न, अवरणाद्यात्मकत्वादिति-अवरणाद्यात्मकशब्दस्य विधिप्रधानपर्युदासात्मकत्वात्
नबो हि द्वयी गतिः प्रसज्यप्रतिषेधः पर्युदासश्च, यथा ब्राह्मणो न भवत्यब्राह्मण इति ब्राह्मणस्य निवृ10 त्तिप्रधानः प्रसज्यप्रतिषेधः, ब्राह्मणादन्योऽब्राह्मणः क्षत्रियादिरिति क्षत्रियादिविधिप्रधानः पर्युदासः, तथेहाप्यवरणाद्यात्मकत्वादिति वरणाद्यात्मकान्मोहादन्यदवरणात्मकशोषादिप्रसादाद्यात्मक[त्वं] विधीयते वरणाद्यात्मकत्वस्य तु नै विधिर्न प्रतिषेधः पर्युदासात्मकत्वात्, न तु प्रसज्यप्रतिषेध इति, तदर्थसमर्थनार्थ दृष्टान्तमाह-अनपुंसकवचनादप्रतिषेधेऽनपुंसकसुटः सर्वनामस्थानत्ववत्, यथा नपुंस
कादन्यत्र सुद् सर्वनामस्थानसंज्ञं भवतीति स्त्रीपुंसयोः सुटः सर्वनामस्थानसंज्ञा विधीयते, नपुंसके तु 10 'शि सर्वनामस्थानम्' (पा० १ अ.१ पा. ४२ सू.) इति विध्यन्तरविहिता, सुटः सर्वनामस्थानता न विहिता न निषिद्धा तथेहापि वरणाद्यामकत्वस्य नै विधिर्न प्रतिषेधः, शोषप्रसादाद्यात्मकत्वविधानादिति ।
mamM
विपक्ष एव नास्तीत्ययुक्तं मोहस्य सुखादन्यत्वादित्याशक्य तस्याग्रेऽन्यत्वं निवर्तयिष्यत इत्याह-मोह इति। ननु वरणाद्यात्मकं
न भवतीति वरणाद्यात्मकमोहनिषेधादेव मोहस्यान्यत्वसिद्ध्या कुतोऽन्यत्वं निवर्तयिष्यत इत्याशङ्कते-अवरणाद्यात्मकत्वादिति। 20 वरणाद्यात्मकं न भवतीति प्रसज्यप्रतिषेधपक्षे समस्यमानपदयोर्वरणाद्यात्मकपदनपदयोः सामर्थ्याभावान्नमो भवतिनैव सामर्थ्यादसमर्थसमासः, असूर्यपश्यानि मुखानीतिवत् । प्रसज्यप्रतिषेधे यदा नपदोपादानोऽसदर्थः क्रियासम्बन्धितया प्रक्रान्तः तदोत्तरपदार्थेन ब्राह्मणेनावच्छिन्नः प्रतीयमानो नअर्थः प्रधानं भवतीति ब्राह्मणनिवृत्तिप्रधानः प्रसज्यप्रतिषेधो भवतीत्याह-यथा ब्राह्मण इति । यदा च नोत्तरपदार्थसदृशोऽर्थः प्रतीयते पर्युदासरूपस्तदाऽब्राह्मणशब्दो क्षत्रियवृत्तिरव
धार्यते विधिप्रधानः इत्याह-ब्राह्मणादन्य इति । अत्रार्थे व्याकरणसिद्धं दृष्टान्तमाह-अनपुंसकेति, सुडनपुंसकस्य 25 (पा. १-१-४२) इत्यनेन स्त्रीपुंसयोः सुटः सु औ जस् अम् औट् इत्येवंरूपस्य सर्वनामस्थानसंज्ञा विधीयते, अत्रानपुंसक
युदासात्मको नपुंसकान्यलिङ्गबोधको न प्रतिषेधपरः, तस्मादिदं वचनं नपुंसकविषये मौनमेव, नपुंसकसुटः सामान्यस्य सटो वा सर्वनामसंज्ञाया अविधानादप्रतिषेधाच, नपुंसकजसशससम्बन्धिनः शेस्तु 'शि सर्वनामस्थानं' इति पूर्वसूत्रेण सा विधीयते, एवं सुखदुःखयोरप्यवरणाद्यात्मकत्वमेव विधीयते वरणाद्यात्मकत्वस्य त्वत्र न विधानं न वा प्रतिषेधनं क्रियत इति
भावः।शोषप्रसादादीति शोषतापमेदस्तम्भोद्वेगापद्वेगाः रजसः कार्य रजश्च दुःखम् , प्रसादलाघवाभिष्वङ्गोषप्रीतयः सत्त्वस्य 30 कार्य सत्त्वश्च सुखम् , एतदात्मकत्वमेव अवरणाद्यात्मकत्वपदेन विधीयत इति भावः । नन्वेकस्यैव सुटः सर्वनामस्थानसंज्ञा
विषयस्य नपुंसकत्वमनपुंसकत्वमपि सम्भवत्यविरोधात् , सुखदुःखयोस्तु वरणाद्यात्मकत्वेऽवरणाद्यात्मकत्वमवरणाद्यात्मकत्वे वर
शब्द
१ सि. क. दन्यस्य कस्यचिद्वि०। २ सि. क. आवरणा० अग्रेऽप्येवं बोध्यम् । ३ सि. क. विधे० ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org