________________
३५९
सुखाद्यनन्यता] न्यायागमानुसारिणीव्याख्यासमेतम् (सां० का० १७) तथापि च तस्य कारणस्य चेतनादन्यत्वे सत्येवैतानि स्वरूपाणि स्थितानि, चेतनस्य परस्यार्थे प्रवृत्तेः चेतनस्य भोक्तत्वात् रूपादिपरिणामिनोऽचेतनत्वाच्च तेनैवाचेतनत्वेनैकत्वं स्थितम् , न ह्यचेतनस्य भेदोऽस्ति, परिणामित्वश्चास्य तत एव स्थितम् , आपत्तिभवनस्य रूपादिरूपस्य परिणामाख्यत्वात्तस्य च सन्निधिभवनाद्भिन्नत्वात् , यथोक्तम्-'जेचेव पोग्गला सुब्भिगंधत्ताए परिणमंति ते चेव पोग्गला दुब्भिगंधत्ताए परिणमंति' (एतत्समानार्थकपाठः ज्ञाताधर्मे सू. ९२) इति, ततस्तस्य सङ्घातपा- 5 रार्थ्यादिभिश्चेतनान्यत्वे स्थिता[न्य] चैतन्यैकत्वपरिणामित्वानि वृत्तयोऽस्य तदिदं कारणं स्थिताचैतन्यैकत्वपरिणामित्ववृत्ति तच्च सुखमिति वा दुःखमिति वा मोह इति वा परमाणव इति वा कारणमित्येव वा उक्तवत्-उक्तेन तुल्यमुक्तवत्, यथोक्तं भिन्नात्मकतायान्तु सत्त्वं न प्रकाशेताप्रवृत्तित्वादित्यतः प्रभृति यावदेषोऽवधिस्तद्वदुक्तवदेव, स्थापितात्मस्वतत्त्वप्रवृत्तित्वात्-आत्मस्वतत्त्वेन स्थापिताऽस्य प्रवृत्तिरित्यतः किमिति न गम्यते त्वया वक्ष्यमाणसाधनवदनन्ये सुखदुःखे इति ? किं स्वपक्षरागान्मोहाद्वा 10 मायाया वा, किमिति नोच्यते तत्त्वं कथायां प्रस्तुतायां ? किमनुवृत्त्या, मतिलोपायशोभयादितो वेति ।
किं पुनस्तत्साधनमिति चेत् सुखादनन्यदेव दुःखम् अनात्मत्वेऽवरणाद्यात्मकत्वात्, सुखस्वात्मवत् , अवधारणेन च वक्ष्यमाणसाधनान्तरापक्षिप्तान्यत्वो विपक्षाभावः सूच्यते । सुखादनन्यत्वेन दुःखे साध्येऽनात्मत्वविशेषणेनात्मनि निरस्ते साधनान्तरनिरस्ते तमसोऽन्यत्वे न किश्चित्सुखादन्यदस्ति तस्मादन्यः कश्चिद्विपक्ष एव नास्ति, मोहेऽन्यत्वमिति चेत्तन्निवर्त- 15 यिष्यते।
(किं पुनरिति) किं पुनस्तत्साधनमिति चेत् सुखादनन्यदेव दुःखम् , अनात्मत्वेऽवरणाद्यात्मकत्वात् , वरणसदनापध्वंसनबैभत्स्यदैन्यगौरवाणि वरणादीन्यस्यात्मा कार्य तद्वरणाद्यात्मकं तमः, न वरणाद्यात्मकमवरणाद्यात्मकं किं तत् ? दुःखं तस्यानात्मत्वे सत्यवरणाद्यात्मकत्वात् सुखादनन्यत्वमेव किमर्थं पुनरनन्यदेवेत्यवधार्यते ? उच्यते-अवधारणेन च-सुखादनन्यदेवेत्यनेन वक्ष्यमाणसाधनान्त- 20 रापक्षिप्तान्यत्वो विपक्षाभावः सूच्यते, वक्ष्यमाणं साधनं सुखादनन्य एव मोह इति, तेनापक्षिप्तं अन्यत्वं तमसोऽपीति विपक्षाभावः सोऽनेनावधारणेन सूच्यते, पुरुषस्तु स्यात् सुखादन्यत्वाद्विपक्षः ततो व्यावर्तनार्थमनात्मत्वे सतीति विशेषणम् , सुखस्वात्मवदिति दृष्टान्तः, यथाऽवरणाद्यात्मकत्वात् सुखखात्मा सुखादनन्य एवं दुःखमवरणाद्यात्मकत्वात् सुखादनन्यदिति, अस्य हेतोरव्यभिचारव्याख्यानम्-सुखादनन्यत्वेन दुःखे साध्येऽनात्मत्वविशेषणेनात्मनि निरस्ते साधनान्तरनिरस्ते तमसोऽन्यत्वे 25 वस्थाप्रसङ्गेन न भवेयुः, तस्मात् प्रधानमचेतनमेव, अचेतनञ्च कारणमेकमेव सन्नानारूपेण परिणमते इत्येककारणवाद एव स्यात् न तु त्रिगुणकारणवाद इत्याशयेनाह-तथापि चेति । तच्च कारणं सुखं वा दुःखं वा मोहो वा परमाणुर्वा कारणमात्रमेव वा भवतु किं तेन परन्तु तत् प्रवृत्तिखतत्त्वमेव, यैव च प्रवृत्तिः स एव प्रकाशो नान्यः कश्चिदर्थः, तथा प्रवृत्तत्वादिति कुतः सुखदुःखाद्योरनन्यत्वं नाङ्गीक्रियत इत्याह तच्चेति, वक्ष्यमाणसाधनवदनन्ये सुखदुःखे इत्युक्तमधुनैव, तदेव साधनं व्यावर्णयति-किं पुनरिति, वरणसदनादयस्तमोऽनन्यमोहकार्याणि कार्यकारयोस्तादात्म्यावरणाद्यात्मकं तमो मोहश्च तद्भिन्नं दुःखमित्यर्थः, सुखा-30 दन्यत् किञ्चिदनात्मत्वे सत्यवरणाद्यात्मकं नास्तीति दर्शयत्येवकार इत्याह-अवधारणेन चेति, अपक्षिप्तं निरस्तम् । ननु
१ सि. क. प्रवृत्तेर० २ सि. क. अन्यस्मादिति ।
___Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org