________________
३५८ द्वादशारनयचक्रम्
[विध्युभयारे एव प्रधानम् , अवश्यमन्ये तेऽस्मात् तेभ्यश्चेदमन्यत्तद्रूपापत्त्यनिष्टत्वाद्गुणान्तरवत् , यतो गुणस्वात्मत्वमस्य नेष्यते प्रधानातिदेशात्तु पुनः स्वपरविषयकृतभेदद्वारानभ्युपगमे कस्यचित् कथश्चिदप्यन्यस्यानुपपत्तौ तेऽप्यन्यत्वापत्तिवत् पृथक् पृथक प्रधानम् , अथ प्रधानलक्षणापि प्रवृत्तिनें [प्रधानम् ,]प्रधानमपि तर्हि न प्रधानं प्रधानलक्षणत्वात् प्रवृत्तिवदेवं शेषावपीति प्रधानाभाव एव कुतोऽस्य सर्वगतता ? 6 त्वदभिप्राय एवैवम् तदात्मत्वाभिमतनिरसनात्, उष्णत्वनिरसनेनाम्यभावप्रतिपादनवत् [इति] कृतं भङ्गचक्रावर्तनम् ।
आपादितश्चैकैकपूर्वकमिदं नानेकैकपूर्वकमित्येतदापन्नमित्याहएवञ्चैकैकपूर्वकवादापत्तेरेव किमनेकात्मकैककल्पनया ?
एवञ्चैकैकपूर्वकवादापत्तेरेवेति, अवधारणार्थत्वादेवकारस्य ततश्च त्रिगुणप्रधानकारण10 कल्पनानर्थक्यमित्यत आह-किमनेकात्मकैककल्पनया यदि प्रवृत्तिलक्षणप्रधानमेवैकं प्रकाशनियमप्रवृत्ति
रूपेण प्रवर्तते प्रवृत्तिरेवैका त्रिगुणरूपा ततश्चोभयथाप्येकैककारणवाद एवेति पृथगात्मकत्रिगुणकारणकल्पनाव्याख्यानमायासमात्रम् , तस्मादेकात्मकैकमेव व्यक्त्यन्तरसहकारेणानेकाकारं भवति यथा प्रागुपवर्णितपुरुषादिकारणपूर्वकानन्तप्रभेदजगत्सृष्टिसमर्थ यत्तदेवास्त्वनेकाकारं किं त्रिगुणमित्येतावतेति ।
किश्चान्यत्15 तथापि च सङ्घातपारार्थ्यादिभिश्चेतनान्यत्वे स्थिताचैतन्यैकत्वपरिणामित्ववृत्ति कारणं · सुखमिति वा दुःखमिति वा मोह इति वा परमाणव इति वा कारणमित्येव वा उक्तवत्स्थापितात्मस्वतत्त्वप्रवृत्तित्वादतः किमिति न गम्यते त्वया वक्ष्यमाणसाधनवदनन्ये सुखदुःखे इति ।
(तथापि चेति) यद्यपि त्वदुक्तैर्हेतुभिः संघातपारार्थ्यादिभिः प्रकृतेरन्यः पुरुषः सिद्ध्यति 'सङ्घातपरार्थत्वात् त्रिगुणादिविपर्ययादधिष्ठानात् । पुरुषोऽस्ति भोक्तभावात् कैवल्यार्थ प्रवृत्तेश्चेति
20 तदिदं प्रधानमनेकत्वापादनादनवस्थापादनाचानवस्थितैकत्वतत्त्वप्रतिष्ठमिति वक्तव्यमिति भावः । ननु सृष्टेः पुरुषपूर्वकत्वापादनं
न युक्तं जगत्कारणात् प्रधानात् संघातपारार्थ्यादिभिरन्यस्य पुरुषस्य सिद्धेरित्याशंक्याह-यद्यपीति । पुरुषसाधकेश्वरकृष्णकारिकामाह-संघातेति । इह संघाताः परार्था दृष्टाः पर्यङ्करथशरणादयः, न ह्येते किमपि खार्थ साधयन्ति न वा परस्परार्थाः, किन्त्वस्ति परो देवदत्तादिर्योऽस्मिन् पर्यङ्के शेते रथेन गच्छति गृहे निवसतीति, एवममी महदादयश्चक्षुरादयो न स्वार्था
न च परस्परार्थाः किन्तु परार्थाः, यश्चासौ परः स पुरुषः, न देवदत्तादिशरीरम. तस्यापि संघातत्वेनान्यार्थत्वात् । 25 त्रिगुणादिविपर्ययात्-व्यक्तप्रधानसाधर्म्यविपर्ययादित्यर्थः यदि हि पुरुषो न स्यादत्रिगुणविवेकित्वादिधर्मा तर्हि त्रिगुणाविवे
कित्वादिवर्णनमयुक्तमव्यावर्तकत्वात् । अधिष्ठानात्, न ह्यन्तरेणाधिष्ठातारं भवति वस्तुजातम् , तथा सत्यर्थवशः सन्निवेशविशेषनियमो न स्यात् , दृष्टश्च श्रोत्रादिपृथिव्यादीनां देवमानुषतिर्यक्षु हितयोगार्थोऽहितप्रतिषेधार्थश्च सः, तस्मादस्ति तव्यतिरिक्तः यदधिष्ठितानां गुणानां चित्ररूपः परिणामः, षष्टितंत्रेऽप्युक्तं पुरुषेणाधिष्ठितं प्रधानं प्रवर्तते इति, अधिष्ठानचायस्कान्तव
नातोऽकर्तृत्वभङ्गः । भोक्तृभावात्-षडूसं भोजनं दृष्ट्वा भोक्ता साध्यते, अस्ति भोक्ता यस्येदं भोजनमिति, एवमिदं व्यक्तमव्य30 क्तञ्च दृष्ट्वा साधयामोऽस्त्यसौ पर आत्मा यस्येदं भोक्तु ग्यमिति, कैवल्यार्थ प्रवृत्तेश्च, प्रवृत्तिमतां निमित्तमन्तरेण हि निवृत्तिर्नोप
पद्यते, प्रधानमपि च प्रवृत्तिमत् व्यक्तदर्शनात् , तस्माद्यस्य कैवल्यं प्रधानप्रवृत्तिहेतुः स पुरुष इति पञ्च हेतूनाश्रित्य पुरुषास्तित्वं साधितम् । ननु तत्प्रधानाख्यं कारणं चेतनव्यतिरिक्तश्चेत्तर्हि परार्थत्वादयस्तत्र सम्भवन्ति तस्यैव चेतनत्वे परार्थत्वादयोऽन
१ सि. क. तदभाव एव त्वया प्राय एवं प्रतिपाद्यते ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org