________________
mamawwwwwwwwwne
अतिदेशासम्भवः] न्यायागमानुसारिणीव्याख्यासमेतम्
३५७ क्षणाभावादस्यावाच्यतैव, तथा[सति] तन्नैव स्यात् , प्रवृत्त्या सहैकत्वान्यत्वे प्रति अवचनीयत्वात् खपुष्पवत्, अथ न तदेकं नान्यद्वा वाच्यं निरुपाख्यत्वात् , यत्तु सत् तत् प्रवृत्त्या सहैकत्वान्यत्वे प्रति वचनीयं यथा प्रवृत्तिस्वात्मा, प्रकाशनियमात्मनो वाऽन्यतरोपग्राहपरित्यागायुक्तत्वादपि च तदुभययुक्तत्ववाच्यत्वाभ्युपगम एव पितृपुत्रत्ववत् , प्रधानखात्मैव वा त्रीणीति पुरुषावस्थावदिति, यथैव हि यदि पुरुषखात्मानोऽ]वस्था न तर्हि सः, अनवस्थत्वात् , खपुष्पवदिति, तथैव यदि प्रधानखात्मा नोगुणा न 5 तर्हि प्रधानम् [अ]गुणत्वात्, खपुष्पवत् , अभ्युपगमेऽपि तु प्रधानस्य गुणानां त्रयाणामप्यैक्यं प्रधानस्वात्मत्वात् प्रधानवदिति सर्वत्र सम्भाव्याभावादेव सर्वाव्यापिता, प्रवृत्तिगुण एव हि प्रकाशगुणः प्रवृत्तिस्वात्मत्वात् प्रवृत्तिवदेवमितरोऽपि, प्रकाश एव प्रवृत्तिः प्रकाशवात्मत्वात् प्रकाशवदेवमितरोऽपि, नियम एव च प्रवृत्तिनियमस्वात्मत्वान्नियमवदेवमितरोऽपि, य एव चान्यो गुणः स एवेतरोऽपि, एकस्वात्मत्वात्, स इव, प्रकृतिरेवेदं सर्वमित्यतिदेशाभावो भेदाभावात् , उपवर्णनभिन्नरूपव्यतिकर-10 सङ्कराभ्यां त्वेवमतथात्वमेषामस्य च तत्स्वात्मत्वादिति प्रधानगुणव्यवस्थाभाव एव, उक्तवद्व्यवस्थानुमतौ प्रधानातिदेशः त्याज्यः, तदत्यागे यदर्थमयमविदेशोऽद्वैतैकान्तार्थस्तस्यैवासिद्धिः, यत्तदेकमेव सम्भाव्यते प्रधानं तस्याप्यनेकतैवैवमापद्यते, यत्स्वरूपाव्यतिरिक्तलक्षणा गुणा विना भेदेनोच्यन्ते तत्प्रधानमपि प्रधानेनाभिव्याप्तत्वादनवस्थितैकत्वतत्त्वप्रतिष्ठं प्रधानमित्यतिदेश्यं स्यात् प्रधानस्वात्मत्वाद्गुणवत्, प्रत्यक्षार्थेदंविषयतायां वा व्यक्तमूर्तीनित्यादिरूपार्थप्रधानपरमार्थता, गुण[1] स्त्वन्यत्वानेकत्व 15
mamiwwwwww
प्रति अवचनीयत्वात् , खपुष्पवत्, खपुष्पं हि प्रवृत्त्या सहकमिति अन्यमिति वा न शक्यं वक्तुं निरुपाख्यत्वादिति भावः । व्यतिरेकव्याप्तिं दर्शयति-यत्तु सदिति । ननु प्रवृत्तिलक्षणत्वप्रवृत्तित्वयोरन्यतरपरित्यागोपादानायुक्तत्वाद्भिन्नत्वेनाभिन्नत्वेन
पत्वमस्तु प्रधानस्य, सर्वथाऽवाच्यत्वन्तु नेव, तदेकत्वान्यत्वोभययुक्ततया वाच्यत्वसम्भवात् , तदन्यतरोपादानायुक्तत्वस्य तदुभययुक्तत्ववाच्यत्वाभ्युपगमव्याप्यत्वादित्याह-प्रकाशति । ननु प्रधानं सर्वव्यापीष्टम् , यदा तु गुणानां प्रधानखात्मत्वेऽगुणत्वात् खपुष्पस्येव प्रधानस्यैवाभावस्तदा तत्कथं सर्वव्यापि ? अगुणस्यापि तस्याभ्युपगमे प्रधानवद्गुणानामेकत्वेन 20 सर्वाभावाच्च कथं तत्सर्वव्यापि स्यादित्याह-प्रधानखात्मैवेति । दृष्टान्तं संघटयति-यथैवेति । सर्वगतत्वाभावमुपपादयतिअभ्युपगमेऽपि त्विति । गुणानां प्रधानात्मत्वमुक्त्वा गुणानामपि परस्परात्मकत्वमाह-प्रवृत्तिगुण इति, तदेवं प्रधानस्यैवैकस्य सिद्धावितराभावात् सर्वस्य प्रधानत्वातिदेशो निर्विषय एवेति भावः उपवर्णनेति, विशेषधर्मत उपवर्णनाद्भिन्नरूपाणां प्रवृत्त्यादीनामुक्तविधयकत्वात् सङ्करो व्यतिकरश्च प्राप्तः, ततश्च प्रवृत्त्यादीनामप्रवृत्त्यादित्वं प्रधानखात्मत्वाभिलप्रकाशाद्यात्मत्वात् , तथा प्रधानस्याप्यप्रधानत्वं प्रवृत्त्यादिखात्मत्वेन प्रवृत्त्यादित्वादिति न प्रधानस्य गुणानां वा व्यवस्था 25 सम्भवतीति भावः । प्रोक्तरूपेण व्यवस्थाभ्युपगमे च सर्व प्रधानमयमिति कथमतिदिश्यतेऽभेदे हि स सम्भवति नान्यथेत्याहउक्तवदिति । यद्यतिदेशे भवतामाग्रहः तर्हि प्रधानमयत्वातिदेशेनैकान्तेन याद्वैतसिद्धिस्तेऽभिमता सा न सेत्स्यति किन्त्वनेकानि प्रधानानि प्राप्स्यन्ते प्रवृत्त्यायभिन्नत्वात् प्रधानस्येत्याह-तदत्याग इति । एतदेव प्रकटयितुमाह-यत्वरूपेति, प्रधानमेव गुणा इत्यमेदेन निर्देशात् प्रधानखरूपानतिरिक्तखरूपता गुणानामाविष्कृता, गुणानान्तु भवद्भिर्भेदः खीकृत एवेति प्रधानस्याप्यनेकत्वात् प्रधानान्तरेणाभिव्याप्तः स्यात् , तथा च प्रधानमिदं प्रधानेनाभिव्याप्तम्, प्रधानखात्मत्वात्, यो 30 यत्वात्मा स तेनाभिव्याप्तः यथा प्रवृत्त्यादयः ते हि प्रधानखात्मत्वात् प्रधानेनाभिव्याप्ताः तद्वत् प्रधानमपि प्रधानखात्मेति प्रधानान्तरेणाभिव्याप्तं भवेदित्यनवस्था ततश्चैकत्वेन तत्त्वेन च यद्वैकत्वे तत्त्वे चानवस्थिता प्रतिष्ठा यस्य
सि. क. ननु रूपयुक्तत्व० ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org