________________
द्वादशारनयचक्रम्
ww
३५६
[विध्युभयारे प्रवृत्त्यापत्तिरूपनिरूप्यत्वात् , प्रवृत्तिस्वात्मवत् , ततश्च प्रतिगुणं तस्याः सर्वात्मकत्वात्तृणाद्यपि सर्वगतमिति किं प्रधानैकत्वमिति कल्पनया ? अलक्षणत्वात् प्रवृत्ति[लक्षण]गुणाभावस्ततश्च तत्तत्त्वत्रिगुणसर्वात्मकप्रधानाभावः । अथ प्रवृत्तिलक्षणविपरीतमपि प्रधानं प्रधानमेव, अवधारणभेदात् , गुणस्वात्मनि गुण एव लक्षणमित्यवधारणम् , प्रधाने तु प्रवृत्तिलक्षणमेव, इतरयोरप्यत्यागात् , तद्ध्यनेकरूपं 5 मेचकवत् , न, उक्तवदवधारणभेदस्यान्याय्यत्वात् प्रतिज्ञातव्याघातात्, घटरूपादित्ववत् , प्रधानत्वं प्रागुक्तं गुणानाम् , अजामेकां लोहितशुक्लकृष्णामित्यादि, इदानीं पृथक् स्वात्मनस्त उच्यन्ते इति तत्त्वं प्रधानस्य न प्रधानत्वं तेषां रूपादिघटत्वपक्षवत् , यदा च तेषामेव तत्त्वं ततस्तेषां तथेतरेतरात्मस्वभावादवधारणभिन्नभिन्नार्थत्वात्तु तदेव सर्वासर्वगतत्वमिति लोकवदेव तत्त्वापत्तिः, अथ सर्वासर्वात्मकत्वाद्विकल्पशब्दार्थत्वादलक्षणमेव कथं तर्हि त्रिगुणवर्णनम् ? अनेकात्मकसर्वगतत्वभावनञ्च, यद्यस्यै10 कैकं प्रत्येकं गुणो न भवति ततोऽस्य कुतोऽसत्त्वात्तदेकत्वापत्त्यात्मिकाऽविकल्परूपता ? नहि पृथग
वृत्ते रूपे मेचकात्मके भवतः । असदेव तु तदेवम् , अगुणत्वेऽत्र्यात्मकत्वात् , खपुष्पवत् त्वदुक्तेरेव च[न]तल्लक्ष्यं नार्थो न वस्त्वलक्षणत्वात् खपुष्पवत्, अथात इतश्चान्यतरोपादानपरित्यागायुक्तत्वात्तल्ल
एव प्रधानमयत्वात् प्रधानमेकमिति कल्पनमल्पमित्याह-ततश्चेति । सर्वगतत्वेन खात्मन्येवास्थितत्वात् सकलेतरव्यावृत्त
लक्ष्यबोधनासमर्थत्वेन लक्षणाभावात् खपुष्पवल्लक्ष्यभूतप्रवृत्तरप्यभावेन तद्रूपप्रधानस्याप्यभाव इत्याह-अलक्षणत्वादिति । 16 ननु प्रवृत्तिः प्रवृत्तिखात्मैव न प्रकाशादिखात्मा, प्रधानन्तु प्रकाशादिस्खात्मापि, अत एव न प्रवृत्तिः तस्य खरूपलक्षणम् ,
येन तदभावे प्रधानाभावः स्यात्, किन्तु प्रधानत्वव्यापकाभावाप्रतियोगित्वरूपं तटस्थं लक्षणं तत् तथा च प्रवृत्तिखात्मनः प्रवृत्तिरेव लक्षणं प्रधानस्य तु प्रवृत्तिलेक्षणमेव, अन्यगुणस्यापि लक्षणत्वेनात्यागात् , प्रधानस्य गुणत्रयात्मकत्वादित्याशंकतेअथेति । प्रवृत्तिप्रधानयोर्भेदाश्रयेणैवमवधारणा नोचिता, गुणप्रधानयोरभेदप्रतिज्ञानादित्युत्तरयति-उक्तवदिति । घट एव
रूपादय इत्युक्तौ न यथा घटव्यतिरिक्ता रूपादयः सन्ति तथा प्रवृत्त्येकलक्षणप्रधानव्यतिरिक्तार्थाभावात् , प्रकाशाद्यभावेनेदृशा20 वधारणावकाश एव नेति भावः । अवधारणमेदस्यान्याय्यत्वं प्रतिज्ञाव्याघातञ्च दर्शयति-प्रधानत्वमिति। इति तत्त्वमिति,
उक्तादेव हेतोः प्रधानस्यैव गुणत्वमिष्टविपरीतं प्राप्तं न तु गुणानां प्रधानत्वम् , रूपादेरेव घटत्ववदिति भावः। अवधारणमेदाङ्गीकारे दोषान्तरमादर्शयति यदा चेति । प्रवृत्तिस्वात्मनः प्रवृत्तिरेव स्वरूपलक्षणं प्रवृत्तिखात्मनैव तस्या भवनात् प्रधानस्य तु सा लक्षणमेव न तु तत्त्वं प्रधानस्य, तद्रूपेण तस्याभवनात् प्रकाशादीनामपि तल्लक्षणत्वात् , तथा च प्रवृत्तिखात्मनि, न
प्रकाशाद्यात्मनो भावः प्रवृत्तिखरूपप्रधानखरूपत्वाभावात् , न वा प्रकाशाद्यात्मनि प्रवृत्तिखात्मनो भावः, अत एवेति प्रवृत्त्या26 दीनां पृथक् पृथप्रूपता न तत्रानुवर्तमानः कश्चित् प्रधानादिरस्ति, अतत्खरूपत्वात् प्रधानादेः, तथा चानुवर्तमानस्य सामान्य
स्याभावेन परस्परात्यन्तभिन्नभेदात्मकप्रवृत्त्यादीनामेव सद्भावान्न सर्वगतः कश्चिदस्ति, किन्तु यथा लोके दृश्यते घटो घट एव रूपं रूपमेव रसो रस एवेति यथा लोकग्राहं वस्तु न सामान्यं वा विशेषो वा कश्चिदिति तदर्थशास्त्रारम्भणमफलमिति भावः । अथ सर्वासवोत्मकत्वादेव विकल्पस्यैव शब्दार्थत्वाचाज्ञाततत्त्वः सोऽलक्ष्य एवेत्युक्तौ तस्य त्रिगुणत्वादिवर्णनमयुक्तमेवेत्याह
अथेति । अनेकेति, प्रधानस्य सर्वगतत्वेन भावनं न युक्तमिति भावः, ननु गुणानामेव स्वरूपासिद्ध्या प्रत्येकं खात्मन्य30 पर्याप्तत्वेनासत्त्वात् प्रधानस्य भिन्नानां साम्यावस्थात्मिकाऽविकल्परूपतेत्याह-यद्यस्यति । प्रधानस्याभावमेव साधयति
असदेवेति, एवं प्रवृत्त्यादीनामभावे । नार्थ इति, लक्ष्यतानिराकरणादर्थरूपतापि तन्न भवतीति भावः । ननु गुणस्य प्रधानस्य वाऽन्यतरस्य ग्रहणे परित्यागे वाऽलक्षणत्वादभावप्रसङ्गतोऽस्य प्रवृत्त्यादिलक्षणत्वेन प्रवृत्त्यादित्वेन वाऽवाच्यत्वमेवेत्याशक्य समाधत्ते अथात इति, लक्षणखरूपाभ्यामवाच्यत्वे प्रधानस्यैवासिद्धिः तथा च प्रधानमसत्, प्रवृत्त्या सहकत्वान्यत्वे
१ सि. क. °दविकल्प।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org