________________
AAMAmama
प्रवृत्ते प्रधानता] न्यायागमानुसारिणीव्याख्यासमेतम् प्रकाशनमात्रं सत्त्वस्य प्रवृत्तिः प्रवर्तनन्तु रजसः, तस्मात् सत्त्वस्याप्रवर्तकत्वादतद्वृत्तित्वान्न प्रवृत्तिरूपत्वमित्येतच्च न, रजःस्वप्रवृत्तिवत्तदात्मन एव प्रवृत्तत्वात्-यथा रजसः स्वा प्रवृत्तिः प्रागवृत्ता पश्चात्स्वत एव-रजःस्वात्मनः प्रवर्तमाना रजसाऽविनाभूतत्वात्तदत्यागेन वृत्तेस्तदधीनत्वात्तद्रूपैव, तदात्मन एव प्रवृत्तत्वात् , तथा सत्त्वप्रकाशप्रवृत्त्यनतिरिक्ततत्त्वरूपा रजःप्रवृत्तिः, नान्या, प्रकाशाधीनत्वात्तदविनाभावात्तदपरित्यागेन वृत्तेस्तदात्मन एव प्रवृत्तत्वादिति ।
किश्वान्यत्
अन्यथा हि न प्रकाशेतेत्युक्तत्वात् , एवं तथैवान्यथा तु प्रवृत्त्यभावात् प्रकाश एव प्रवृत्तिः, एवञ्चैकैकविनिद्रावस्थापुरुषत्ववत् प्रवृत्तिः प्रधानमिति तन्मात्रमेव तत् , प्रवृत्त्यापत्तिरूपनिरूप्यत्वात् , प्रवृत्तिस्वात्मवदित्यादि भंगचक्रावत्तेनम् ।।
(अन्यथेति) अन्यथा हि न प्रकाशेतेत्युक्तत्वात्-उक्तं प्राक् सत्त्वं न प्रकाशेत, अप्रवृत्त- 10 त्वात् , पूर्ववत्, पुरुषवद[न]ग्निप्रकाशवदप्रवृत्तस्वात्मत्वाद्वान्ध्येयवत् , तथैवान्यथा तु प्रवृत्त्यभावात् , प्रकाशाप्रकाशिते रजसोऽप्रवृत्तेः, तस्माद्रजसोऽप्यन्यथा प्रवृत्त्यभावात् प्रकाश एव प्रवृत्तिरिति । स्यान्मतं प्रकर्षण काशनं प्रकाशनमित्यादि तदेव यावत् प्रवृत्तिवदिति प्रासङ्गिकम् , तत्रापि च सत्त्वस्यापि रजोवदपरिसमाप्त[रूपत्वादित्याद्यक्षरपरिवर्त्तनेन यथायोगं यावदुत्थाप्यसाहायकशक्तित्वाद्वाताहतनौद्वयवत् ग्लानशिबिकावाहकवत् , यावच्चोपहतबीजवदिति वाच्यम् , तस्मादिदं व्याख्यातार्थम् , प्रवर्तका- 15 भावस्य च पर्याप्तत्वेनोक्तत्वादिति, एवञ्चैकैकविनिद्रावस्थापुरुषत्ववत् प्रवृत्ति[:]प्रधानमिति तन्मात्रमेव तत्-एवञ्च कृत्वा विनिद्रावस्थायाः पुरुषत्ववत् प्रवृत्तेरेव प्रधानत्वमिति तन्मात्रमेव तत्-प्रधानं प्रवृत्तिमात्रमेव, किं कारणं ? प्रवृत्त्यापत्तिरूपनिरूप्यत्वात् , प्रवृत्तिस्वात्मवदित्यादि भङ्गचक्रावर्त्तनमिति विनिद्रावस्थापुरुषत्वापादनग्रन्थमर्थसादृश्यादतिदिशति, तद्यथा-यथा विनिद्रावस्थैकलक्षण एव पुरुषः, आत्यन्तिकनिद्राविगमनरूपनिरूप्यत्वात् , विनिद्रावस्थास्वात्मवदिति तथा प्रवृत्त्येकलक्षणमेव प्रधानं 20 रज इति । प्रकाशप्रवृत्तिनियमानां भिन्नात्मकत्वे पूर्वोदितमेवानुपपत्तिग्रन्थं स्मारयति अन्यथेति, प्रकाशादीनां भिन्नात्मकता. यामित्यर्थः, पूर्ववदिति, साम्यावस्थायामिवेत्यर्थः, तदानीं गुणानामप्रवृत्तेः, पुरुषोऽपि न प्रकाशतेऽप्रवृत्तत्वात् , अग्निरप्यप्रवृत्तत्वादेवानग्निः सन् यथा न प्रकाशते तद्वदिति पूर्वोदितं सर्वमत्र भाव्यम् । सत्त्वस्याप्रवृत्तत्वेनाप्रकाशात्मत्वे तेनाप्रकाशितेन रजसाऽपि प्रवृत्त्यात्मा खावृत्तिर्न लब्धेति निष्प्रवृत्तिकं जगद्भवेदिति प्रकाशात्मैव प्रवृत्तिरभ्युपेयेत्याह-तथैवेति ननु प्रागवृत्तं प्रकाशादि पश्चाद्भवतीति न वयमभ्युपेमोऽसत्कार्यवादप्रसङ्गात् , किन्तु प्रकाशाद्यात्मैव सत्त्वादि रज आदिभिरुबुद्धं 25 खस्वकार्योन्मुखं भवतीत्येवं पूर्वोक्तप्रपञ्चं स्मारयति-स्यान्मतमिति । पर्याप्तत्वेनेति, प्रवर्तकत्वं रजसो न सम्भवतीति सुविस्तरं व्यावर्णितत्वादिति भावः । प्रकाशात्मैव प्रवृत्तिः, प्रवृत्त्यात्मैव प्रकाशः प्रवृत्त्यात्मैव च नियम इत्येवं साधितत्वात् प्रवृत्त्यधीनत्वात् सर्वेषां प्रवृत्तिरेव मूलमिति तदेव प्रधानं न तु त्रिगुणात्मकमित्याह-एवञ्चेति, यथा विनिद्रावस्था शुद्धं चैतन्यखरूपं नातिवर्त्तते, पुरुषोऽपि सर्वत्र विनिद्रावस्थास्वात्मानं नातिवर्त्तते सर्वदेशकालावच्छेदेन नाशरहितेन निद्राविगमेन निरूप्यत्वात् तथैव प्रवृत्तिरपि सत्त्वादावनुवृत्तेः प्रकाशादीनां प्रवृत्त्यापत्तिरूपेणैव निरूप्यत्वाद्विनिद्रावस्थायाः पुरुषत्ववत् प्रवृत्तेरेव 30 प्रधानत्वमापन्नमिति भावः । अत्र पुरुषवादनिराकरणग्रन्थमेव सङ्कटयति-तद्यथेति । एवञ्च प्रवृत्तिः स्वात्मस्था सती प्रकाशात्मिकापि नियमात्मिकापि, एवं महदाद्यात्मिकापीति सर्वगतत्वात्तृणधटपटादयोऽपि प्रवृत्त्यात्मकत्वात् प्रधानरूपाः, अतो जगत
१ सि. क. निर्वर्त्ततन्तु । २ सि. क. वृत्तादि । ३ सि. क. तभ्यासेन । ४ सि. क. चा० ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org