________________
mamwammmm
३५४ द्वादशारनयचक्रम्
[विध्युभयारे प्रवृत्तिरूपमेवापादयत् प्रवर्तकमितीष्यते नान्यथा । यद्वा यथा रजः पूर्व प्रकाशनियमात्मभ्यामप्रवृत्तयोस्तयोः प्रवर्त्तनादेव प्रवर्तकमेवं सत्त्वम् , इतर[त]था स्वरूपापादनात् प्रवर्तकमस्तु को दोषः ? एवश्च पल्लववद्रज एवापद्यते-एवश्च कृत्वोक्तविधिना पल्लवस्थानीयं प्रवत्यै रज एव न प्रवर्तकम् , सत्त्वमेव च प्रवर्तकम्-पवनस्थानीयं न प्रवर्त्यमित्यापन्नम् , किं कारणं ? तथा प्रकाशेन प्रवर्त्यत्वात् 5 यस्मात्तेन प्रकारेण प्रवर्त्यत्वं रजसः प्रकाशेन, तस्माद्रजसः प्रकाशेन प्रवर्त्यत्वादित्यर्थः। उक्तं हि 'रजसः प्रवृत्तिरात्मरूपं तदापादयति प्रकाशः प्रकाशाप्रकाशिते रजसोऽप्रवृत्तेरि'ति । तस्मात् प्रकाशेन तथाप्रवर्त्यत्वाद्रजसः साधूक्तं तदात्मन एव प्रवृत्तत्वादिति । एवं तावत् सत्त्वरजसोर्भेदमभ्युपगम्य हेतोरसिद्धिविपर्ययत उक्ता ।
नैव वा सत्त्वव्यतिरिक्तं रजोऽभ्युपेम इत्यत आह
तथाप्रकाशानतिरिक्ततत्त्वरूपत्वाद्वा प्रवृत्तेः कुतोऽपल्लवपवनभेदसाधर्म्यम् ? यथेहापलवलक्षणः पवनो लोके भिन्न इति दृष्टोऽपवनलक्षणश्च पल्लवः । न तद्रूपत्वम्, अतद्वृत्तित्वादिति चेन्न रजःस्वप्रवृत्तिवत्तदात्मन एव प्रवृत्तत्वात् ।
(तथेति) तथाप्रकाशानतिरिक्ततत्त्वरूपत्वाद्वा प्रवृत्तेः-व्याख्यातप्रकारस्य प्रकाशस्य तत्त्वमतिरिच्य नास्ति प्रवृत्तेः स्वरूपं तत एव हेतोः कुतोऽपल्लवपवनभेदसाधर्म्य ? सत्त्वरजसोरभिन्नत्वात् पल्लवपव15 नयोभिन्नत्वादिति दृष्टान्तदा न्तिकयोवैषम्यं दर्शयति- यथेहापल्लवलक्षणः पवनो लोके भिन्न इति दृष्टः,
अपवनलक्षणश्च पल्लवः, युज्यते हि पल्लवव्यतिरिक्ततत्त्वरूपः पवनः पल्लवमानन् प्रवर्त्तयति पल्लवम् , पल्लवश्व तेनाहतः प्रवर्तते तद्व्यतिरिक्तभेदतत्त्व इति, न तु तथा प्रकाशातिरिक्ततत्त्वरूपा प्रवृत्तिरस्ति, उभयोः शब्दाद्याविर्भावमात्रफलत्वात् , अतो वैषम्यमिति । न तद्रूपत्वं अतद्वृत्तित्वादिति चेत्-स्यान्मतं
10
wwwmwwwmawwww
सत्त्वतमसोस्तथामिव्यक्तिरूपतामापादयति रज इत्याशयेनाह-यद्वेति । एवं सत्त्वमपि स्वप्रकाशेन रजःप्रवृत्तिस्वरूपतयाऽमि 20 व्यनक्तीति भावः । तत्रैव पूर्वोदितमर्थ प्रमाणयति-उक्तं हीति । विपर्ययत इति, प्रवर्त्यप्रवर्तकत्वयोवैपरील्यापादनेनेत्यर्थः ।
ननु भवतां सत्त्वं लघु प्रकाशकच्चेष्टं तत्र प्रकाशप्रवृत्तिनियमलक्षणभेदतो यदि सत्त्वरजस्तमसा भेदस्तहि लघ्वादिलक्षणमेदादपि सत्त्वस्य नानात्वं प्राप्नोति, यदि तु लघुत्वप्रकाशकत्वयोरमेदे भेदेऽपि वा सत्त्वस्यामेदस्तहिं प्रकाशप्रवृत्तिनियमा अपि तस्यैव स्युः किं रजस्तमोभ्यां तद्भिन्नाभ्यां प्रयोजनमित्याशयेनाह-तथाप्रकाशेति। यतः प्रकाशात्मैव प्रवृत्त्यात्मा तत एव सत्त्वर
जसोर्भेदाभावान्न भिन्नखरूपतया प्रसिद्धपल्लवपवनभेदसाधर्म्य सत्त्वरजसोः सम्भवतीत्याह-तत एव हेतोरिति । पल्लव25 पवनयोभिन्नखरूपत्वमुपपादयति-यथेहेति । भोगापवर्गलक्षणेकप्रयोजनत्वात्तयोरेकत्वमित्याशयेनाह-उभयोरिति । ननु
सत्त्वं न प्रवृत्तिरूपं प्रवर्त्तने सत्त्वस्यावृत्तेः, सत्त्वं हि प्रकाशन एव वर्त्तते प्रवर्त्तनन्तु रजस एवेति न सत्त्वं प्रवर्तकमित्याशङ्कतेनेति । अथ साम्यावस्थायामविद्यमाना रजसः प्रवृत्तिः रजःस्वात्मन एव भवति, रजोऽभावे प्रवृत्त्यभावाद्रजोविहायान्यत्रावृत्तेः रजोऽधीनत्वाद्रजोरूपैव यथा प्रवृत्तिः, रजसः प्रवृत्त्यात्मन एव प्रवृत्तत्वात् तथैव सत्त्वस्य प्रकाशनाय या प्रवृत्तिः सैव
रजसः प्रवृत्तिः, प्रकाशात्मैव हि प्रवृत्तिः अन्यथा स प्रकाश एव न स्यात् , तथाऽभूतत्वात् , तथा च प्रकाशाधीनत्वात्प्रवृत्ते30 स्तेन विना तस्या अभावात् , सत्त्वेन प्रकाशिते रजसः प्रवृत्तेः प्रकाशपरित्यागेनावृत्तेः प्रकाशात्मैव प्रवृत्तिरित्याशयेनोत्तरयति
१ सि. क. यथावत् । २ सि. क. प्रकाशस्य ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org