________________
प्रकाशप्रवृत्त्यैकता] न्यायागमानुसारिणीव्याख्यासमेतम्
(प्रवति ) प्रवर्त्यप्रवर्तकत्वात् पल्लवपवनवन्नेति चेत्-स्यान्मतं यैव प्रवृत्तिः स एव प्रकाश इत्ययुक्तं प्रवर्त्यप्रवर्तकयोर्भेदात् , प्रवर्त्य हि सत्त्वं प्रवर्तकं रजस्तस्मात् प्रवर्त्यप्रवर्तकत्वात्तयोर्भेदः पल्लवपवनवत् , यथा पल्लवपवनौ प्रवर्त्यप्रवर्तकौ परस्परतो भिन्नौ तथा सत्त्वरजसी इत्येतञ्च न तदात्मन एव प्रवृत्तत्वात् तस्यात्मा तदात्मा तदात्मन एव प्रकाशात्मन प्रवृत्तत्वात् सत्त्वरजसोर्मेदासिद्धेः पल्लवपवनवद्भेदसाधाभावादयुक्तोऽयं दृष्टान्त इति वक्ष्यते, तद्व्याख्यानार्थमाह. सन्निधिमात्रात् । पूर्ववदप्रवर्तनात्-इह रजः सन्निहितमपि प्राक् सन्निधिमात्रादेवाप्रवर्तकं [ यतः ] स्वयमप्रवृत्तं सत्त्वाधीनप्रवृत्तित्वात् , किन्तु प्रवर्त्यमप्रवर्तनात् , कस्तर्हि प्रवर्तकः ? उच्यते य एवासौ सत्त्वस्यात्मा प्रकाशः, कथमिति चेदुच्यते- तथा प्रवर्त्यव्यक्तिस्वरूप:-तेन तेन प्रकारेण शब्दादिनिर्वयंप्रकारेण प्रवर्त्यव्यक्तिस्वरूपः प्रकाशः नर्तकाचार्य इव भ्रूक्षेपणादिप्रवर्तनाभिव्यञ्जनात्मना नर्त्तक्याः प्रवर्त्तमानः प्रवर्तकः, किं कारणं ? तथा व्यापारणात्-तेन व्यक्तिरूपेण प्रवर्त्तमानस्य रजसो व्यापारणात् , सत्त्वेनैव हि 10 प्रकाशनरूपेण प्रवर्त्तमानेन रजः प्रवय॑ते, तस्मात् स तस्यात्मा प्रकाशः, तथा व्यापारणाद्रजसः प्रवर्तक इति त्वदभिमतप्रवर्तकत्वविपर्ययापत्तिरेव,-रजसः प्रवर्त्यत्वात्सत्त्वेन, सत्त्वाधीनप्रवृत्तित्वात् सत्त्वस्यैव प्रवर्तकत्वात् पक्षधर्मविपरीतता चेति, तच्च सत्त्वस्य प्रवर्तकत्वं रजःप्रवृत्त्यात्मरूपापादनातू , रजसो हि प्रवृत्तिरात्मा तदेव रूपं-रजःप्रवृत्त्यात्मरूपं तदेवापाद्यते सत्त्वेन, सत्त्वाप्रकाशिते प्रवृत्त्यभावात् , सत्त्वापादितप्रवृत्त्यात्मरूपं रजः, तस्माद्रजःप्रवृत्त्यात्मरूपापादनात् सत्त्वं प्रवर्तकमि-1B तरतथास्वरूपापादनाद्रजोवत् , रजोऽपि हीत्यादि, रजसोऽपि हि प्रवर्तक[ त्व]मित्थमेव युज्यते, रजोऽपि हि यस्मात्त्वन्मतेन प्रवर्त्तमानमितरयोः-सत्त्वतमसोस्तथास्वरूपापादनाहते किमन्यत् करोति ?
तस्य प्रकाशस्यात्मा खरूपं सत्त्वम्, तथा च प्रकाशात्मन एवं प्रवृत्तेने प्रकाशात्मप्रवृत्त्यात्मनो दोऽस्ति येन सत्त्वरजसो दः स्यात् , यदि तु प्रकाशात्मसत्त्वं प्रवृत्त्यात्म न भवेत् , प्रकाशखरूपत्वमेव सत्त्वं न भवेत् , प्रकाशात्मनाऽप्रवर्तनात्, पल्लवपव. नयोर्भेदस्त्वन्यथा सिद्धः, तस्मात्तदृष्टान्तोऽनुपपन्न इत्याह-सत्त्वरजसोरिति, तयोः प्रकाशप्रवृत्त्यनुमेयत्वादेकस्यैव तदुभया-20 त्मतार्या सत्यां सत्त्वरजसो दोऽसिद्ध एवेति भावः। सत्त्वरजसोभैदे प्रवृत्त्यात्मनो रजसः सन्निधानेऽपि सत्त्वस्य किमायातं येनेदानी प्रकृत्यवस्थातः सत्त्वस्य विशेषः स्यात्, पूर्ववदिदानीमप्यप्रवृत्तरित्याह-सन्निधिमात्रादिति, रजसोऽकिश्चित्करत्वं कथमित्यत्राह-यतः स्वयमिति, एवञ्च रजो न प्रवर्तकं किन्तु प्रवर्त्यमेवेत्याह-किन्त्विति । सत्त्वमेव रजसः प्रवृत्तावुद्बोधकमित्याह-य एवेति । यथा नर्तकाचार्यः भूक्षेपणादिव्यापारेण नर्तकी नृत्ये प्रवर्तयति, नर्तकी प्रवर्त्या प्रवर्तकश्च नर्तकाचार्यः एवं सत्त्वं स्वव्यापारे रजः प्रवर्त्तयतीति रजः प्रवर्त्य सत्त्वञ्च प्रवर्तकमित्याह-नर्तकाचार्य इवेति । सत्त्वभिन्नं रजः, 25 प्रवत्त्येप्रवत्तेकत्वात् , पल्लवपवनवदिति मानेन यः सिषाधयिषितो रजसः सत्त्वमेदः स तु रजसः प्रवत्तेकत्वासिङ्ख्याऽसिद्धः सत्त्वस्यैव प्रवर्तकत्वादित्याह-सत्त्वेनैव हीति । सत्त्वस्य रजस्तमसोः प्रवृत्तिरूपापादनादेव प्रवर्तकत्वमित्याह-तञ्चेति इतरयोः प्रवृत्तिरूपतामापादयदेव हि रजोऽपि प्रवर्तकं भवति, नान्यथा, तथा सत्त्वमपि रजःप्रवृत्तिखरूपमापादयति, न च तत् सदा प्रवृत्तिस्वरूपमेव, साम्यावस्थायामपि सत्त्वतमसोः प्रवर्तकत्वापत्तेरित्याह-इतरेति । पूर्व सत्त्वतमसोः साम्यावस्थायामपि प्रकाशनियमात्मता वर्त्तत एव, रजस्तु तयोः प्रकाशनाय नियमनाय च प्रवृत्त्यात्मकत्वमापादयतीति वर्णितम् , 30 सम्प्रति तयोः प्रवृत्त्यात्मकत्वं रजो नापादयति प्रवृत्तेः रजस एव स्वरूपत्वात्, किन्तु प्रकाशनियमात्मभ्यामनमिव्यक्तयोः
१ सि.क. सर्व । २ सि. क. इतरथात्मरूपा।
द्वा० न. ७ (४५)
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org