________________
રૂપર
द्वादशारनयचक्रम्
[विध्युभयारे हते ? तस्मात् स विशेषो रजःप्रवर्तनादेव, को दृष्टान्तः ? क्षीरदधिपरिणामकालवत् , यथा क्षीरावस्थातो दधित्वपरिणामावस्था विशिष्टा पूर्व क्षीरकाले न दध्यासीत् पश्चाद्भूतमिति दृष्टं प्रकर्षवृत्त्या च विना न भवत्ययं विशेषः, तथा सोऽपीत्येतन्न, परिणामस्य तत्रैवोक्तत्वात् नायं विशेषः परतः सिद्ध्यति, कुतः ? परिणामस्य तत्रैव सुखेऽभ्युपगम्यास्माभिरुक्तत्वात् , यस्मात् प्रकाशात्मैव [प्रवृत्तिः, प्रकाशस्य 5 यः स्वात्मा स एव [प्रवृत्तिः प्रकाशस्यैव च [प्रवृत्तिः कालः स च ततोऽनन्यः, क्षीरदधिपरिणामावस्थयोः कालाख्यत्वात् क्षीरदधित्वापत्तिः कालभेदात् स च परिणामः सुखस्वात्मेति नान्यत् कारणं मृग्यम् , स्वात्मन एव परिणामात् , इतरथा स प्रकाशो न स प्रकाश एव यदि प्रवृत्तिविशेषो न स्यात् , अन्यात्मा स्यात् स एव प्रकाशात्मा न स्यात् तथाऽप्रवृत्तत्वात् - तेन प्रकाशात्मप्रकारेणाप्रवृत्तत्वात् ,
पर्यायेण तमर्थ स्फुटीकुर्वन्नाह-तथाऽभूतत्वादित्यर्थः, दृष्टान्तो घटपटवत् , यथा घटः पटो न भवति 10 तेन प्रकारेणाभूतत्वात् , पटोऽपि घटो न भवति तथा स प्रकाशोऽप्रकाश एव स्यादिति विपर्ययेण तत्स्वरूपसाधनमुच्यते यैव च प्रवृत्तिः स एव प्रकाशो नान्यः कश्चिदर्थः, इति प्रतिज्ञा, तथा वृत्तत्वात् तथा प्रवृत्तत्वादित्यर्थः, यथा घटघटस्वात्मवत् , यथा घटप्रकारेण घटात्मनैव वृत्तत्वाद्धट एव घटस्वात्मा नान्यः कश्चित्तथा प्रवृत्तिरेव प्रकाश इति ।
प्रवर्त्यप्रवर्तकत्वात् पल्लवपवनवन्नेति चेन्न, तदात्मन एव प्रवृत्तत्वात् , रजसा सन्निधि15 मात्रात् पूर्ववदप्रवर्तनात् , य एवासौ सत्त्वस्यात्मा प्रकाशः तथा प्रवर्त्यव्यक्तिस्वरूपः नर्तकाचार्य
इव नर्तक्याः प्रवर्तकः, तथा व्यापारणादिति त्वदभिमतप्रवर्तकत्वविपयेयापत्तिरेव । रजःप्रवृत्त्यात्मरूपापादनात् सत्त्वं प्रवर्तकमितरथास्वरूपापादनाद्रजोवत् । रजोऽपि हि त्वन्मतेन प्रवर्त्तमानमितरयोस्तथास्वरूपापादनादृते किमन्यत् करोति ? एवश्च पल्लववद्रज एवापद्यते
सत्त्वमेव च प्रवर्तकम् तथाप्रकाशेन प्रवर्त्यत्वात् । 30 तत्वरूपव्यक्तिरित्युक्तिरयुक्तेत्याशङ्कते-एवं तहीति। पूर्वमविद्यमानस्यैव क्रियया निष्पत्तिरित्यत्रानुकूलं निदर्शनमाह-क्षीरेति। प्रकाशप्रवृत्तिनियमानान्तु भिन्नात्मकतायां सत्त्वं न प्रकाशेत, अप्रवृत्तत्वादिति पूर्वमेव शङ्केयं समाहितेति स्मारयति-परिणामस्येति। प्रकाशप्रवृत्तिनियमाः सत्त्वस्यैव परिणामविशेषाः, न तु सत्त्वस्य प्रकाशो रजसः प्रवृत्तिस्तमसो नियम इति मिन्नात्मता तथात्वे सत्त्वस्य प्रकाशात्मना प्रवृत्तिः कदापि न स्यात्, सदैव वा प्रकाशात्मैव स्यात् तथा च साम्यावस्था न स्यात् , एवञ्च सत्त्वस्यैव
तेऽतीतानागतवर्तमानरूपा अवस्थाविशेषाः, यथा मृदश्चर्णपिण्डघटकपालकणाकारपरिणतिपरम्परा, सोऽयं क्रममेदः परिणाम 25 एकदैकस्मिन्ननवकल्पमानः परिणामभेदमापादयति, एकमेव सत्त्वं क्रमवतीं परिणामपरम्परामुद्वहति, यस्य धर्मिणः खात्मभू
तस्य समनन्तरो धर्मः स एव तस्य धर्मिणः कालाख्यः क्रमः, यथा गोभुक्ततृणपरमाणवः तृणावस्थायाः प्रच्यवन्ते क्षीरावस्थयोपजायन्ते ततः क्षीरावस्थायाः प्रच्यवन्ते दध्यवस्थया चोपजायन्त इति क्षीरदध्यादयः क्रमरूपत्वात् कालाख्याः, एवं प्रकाशात्मैव सत्त्वं प्रवृत्त्यात्म भवति, प्रकाशप्रवृत्त्यादीनामित्थं सत्त्वात्मतया खत एव ते भवन्ति,न त्वन्यत इत्याशयेनाह
यस्मादिति। प्रवृत्त्यादेः रजआद्यात्मत्वे सत्त्वं प्रकाशात्मैव न स्यात् साम्यावस्थायामिवेत्याह-इतरथेति । प्रकाशात्म 30 सत्त्वमेव प्रवृत्त्यात्मेति साधयति-यैवेति । प्रवर्त्यप्रवर्तकयोéदव्याप्यत्वमित्यभिमन्यमानः परः शङ्कते-प्रवत्त्येति, प्रवत्यै सत्त्वं प्रवर्तकं रजः न तु स्वयमेव प्रवत्यै प्रवर्तकञ्च, यथा प्रवर्त्यः पल्लवः, प्रवर्तकः पवन इति तयोर्भेदो दृश्यते तथा प्रकृतेऽपीति न प्रकाशप्रवृत्त्योरेकात्मतेति भावः । दृष्टान्तदार्टान्तिकयोरसमानतामभिमत्योत्तरयति-तदात्मन इति १ सि. क. घटपट०।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org