________________
www
तमसाऽननुगृहीतता] न्यायागमानुसारिणीव्याख्यासमेतम्
३६७ तमसाऽनुगृहीतस्य सत्त्वस्य शब्दादिरूपेण रूपान्तरनिवृत्त्याऽनन्यथावृत्तिरूपता, शब्दोऽयं न रसो न रूपं नाकाशादि वेति, तस्मात् सत्त्वं तमोऽनुगृहीतं तथाप्रकाशते न स्वत एव, तस्मादन्यः प्रकाशानियम इत्येतञ्चासत् , तमसोऽपि सत्त्ववत् पृथगपरिसमाप्तरूपत्वात् , सत्त्वप्रकाशनियमने स्वयं सत्त्वप्रकाशनाकांक्षित्वात् तमस्त्वन्मतेनापरिसमाप्तमेव, तमोनियमनापेक्षप्रकाशात्मकसत्त्ववत् , तद्व्याख्यानं तमसोऽपि हीत्यादि, तमो हि सत्त्वप्रकाशरूपव्यक्तिं सत्त्वप्रकाशनप्रतिलब्धतथानियति कुर्यान्नाप्रकाशित- 5 तथानियतिव्यक्ति, किं कारणं ? तस्य तथाव्यक्तेः सत्त्वप्रकाशनप्रतिलभ्यत्वात् , यस्मात्तथाप्रकाशनं व्यक्तिरिति, इतिशब्दस्य हेत्वर्थत्वात् , नियमनयोग्यतया हि तमसः प्रकाशनं सत्त्वस्य व्यक्तिः, सा च प्रकाशात्मकसत्त्वानुग्रहाद्भवति, सत्त्वाप्रकाशिततमोनियमनापरिसमाप्तरूपत्वं प्रकाशाननुग्रहे सत्यनियतत्वात् , न च स्वयमनियतं नियमयितुमन्यं समर्थ वन्ध्यापुत्रवदित्यत आह-अनियतश्च कथमन्यनियमने प्रवर्त्ततेत्यादिरत उत्तरः प्रागतीतग्रन्थातिदेश एवन्तु नानयोरित्यादिपूर्वोत्तरपक्षप्रपञ्चात्मको 10 यावन्न परिणामस्य तत्रैवोक्तत्वादिति, तद्यथा-एवन्तु नानयोरितरेतरानुग्राहिता, उत्थाप्यसाहायकशक्तित्वाद्वाताहतनौद्वयवद् ग्लानशिबिकावाहकवदसम्पूर्णशक्तिता वाऽप्रकर्षः-अनियत इत्यर्थः, इति कारणतैव न स्यादसम्पूर्णशक्तित्वादुपहतबीजवत् , असदकरणादिभ्यश्चान्यतो न तत्स्वरूपप्रकर्षः, यदा च सुदूरमपि गत्वा प्रागवृत्तेरसत्कार्यत्वं मा भूदिति प्रकर्षः परिणामादेव तदा परिणामस्यान्यत्र वृत्तस्यापरिणामकत्वात् युवत्वमात्रवृत्तित्वमेव नान्यत्र वृत्तोऽन्यदन्यथा करोति परिणामित्वात् , एवं तर्हि 15 पूर्ववदुदाहरणादेवाप्रवृत्त्यात्मकत्वं सुखस्य, अनियतरूपेणात्मप्रवृत्त्यात्मकत्वमित्यर्थः, को हि विशेषस्त'मोनियमनादृते, क्षीरदधिपरिणामकालवत् पूर्व न प्रवृत्तं पश्चाच्च प्रवृत्तमिति, न, परिणामस्य तत्रैवोक्त एवमेते प्रवर्तितव्ये नातोऽन्यथेति पूर्वोदितमनन्यथावृत्तिरूपत्वं निदर्शयति-शब्दोऽयमिति । तमः नियमनेऽपरिसमाप्तरूपम् , तत्र स्वयं सत्त्वप्रकाशनाकांक्षित्वात्, तमोनियमनापेक्षप्रकाशात्मकसत्त्ववदित्यनुमानेन खतो नियामकत्वं तमसो न सम्भवति साम्यावस्थायामिवेत्युत्तरयति-तमसोऽपीति पृथक्-इतरानपेक्षस्य, खत इति यावत्, सत्त्वप्रकाशनियमने-सत्त्वस्य प्रकाश 20 नियमयितुमित्यर्थः। आवरणमेव यदि तमसः कार्य तर्हि सर्व सत्त्वस्य प्रकाशं रजसो वा प्रवृत्तिमावृणुयान्न चैवम् , तस्मात्सत्त्वेन . किश्चिदावरणमेव प्रकाशनेन दूरीकृतमिति तमः सत्त्वप्रकाशनापेक्षतथानियममिति अपरिसमाप्तरूपमेवेति व्याख्याति-तमोहीति । नियतिः-नियमः। सत्त्वेति सत्त्वेनाप्रकाशितस्य तमसोऽन्यनियमनेऽपरिसमाप्तरूपतैवेत्यर्थः । प्रकाशनप्रवर्तन नियमनादौ स्वयमसमर्थानां सत्त्वादीनां परानुग्रहेणापि प्रकाशनादिसामर्थ्य नास्तीत्याह-पवन्त्विति। व्याख्यातपूर्व एवायं ग्रन्थः, प्रकर्षश्चात्र नियमखरूपो बोद्धव्यस्तथा चाप्रकर्ष इत्यस्यानियत इत्यर्थ इत्याह-अनियत इत्यर्थ इति । अनियतरूपेणेति न च तत्प्रकाशात्मक- 25 पुरुषवत् पूर्ववत् अनग्निप्रकाशवद्वेति प्रन्थेन पूर्ववदिति दृष्टान्त उपन्यस्तस्त्वया, तस्मादेव च सत्त्वस्य पूर्वोत्तरावस्थाऽभ्युपगता भवति, सत्त्वस्य पूर्वावस्थातः पाश्चात्यावस्थाया वैशिष्ट्य तमोनियमनादेव भवति, तस्मात् सत्त्वं न खतो नियतप्रवृत्तिकमपि त्वनियतरूपेणात्मप्रवृत्त्यात्मकमिति शङ्कितुरमिप्रायः। नहि सत्त्वं सदैव प्रकाशात्मकं वर्त्तते, अपरिणमित्वेन खपुष्पवदभावप्रसङ्गात्, परिणामखभावा हि गुणा नापरिणम्य क्षणमप्यवतिष्ठन्त इति त्वयाप्यभ्युपगतत्वात् , तस्मात् प्रकाशखात्मैव प्रवृत्तिरूपतया नियमरूपतया वा परिणमत इति पूर्वमेवोक्तत्वात् न तस्य प्रकर्षोऽन्यस्माद्भवतीत्युत्तरयति-परिणामस्येति। प्रकाशप्रवृत्त्योर-30 नन्यतापादनग्रन्थस्य कश्चिदंशोऽत्र मूलकृताऽतिदिष्टः कश्चिच्चांशः कंठत उक्त इत्यत्र कारणमुपन्यस्यति-एष ग्रन्थ इति,
सि. क. तमसो। २ सि. क. नियति । ३ सि. क. व्यक्ति । १ सि. क. प्रवर्तत इ०। ५ सि. क. तमःप्र. वर्तना० । ६ सि. क. नेतिपदं नास्ति ।
_Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org