________________
[ विध्युभयारे
त्वादित्येष ग्रन्थः समानोऽत्रापि, अत उत्तरस्तु ग्रन्थोऽर्थतः समानगम निकोऽपि विशिष्य लिख्यते भावनार्थं विशेषेणा तुल्यत्वात् ।
३६८
तद्यथा
प्रकाशात्मैव तु नियमः, इतरथा स प्रकाशो न सः, तथाऽनियतत्वात्तथाऽभूतत्वात् 5 घटपुरुषवत्, य एव नियमः स एव प्रकाशः, तथानियतत्वात्तथाप्रवृत्तत्वात् घटघटस्वात्मवत्, नियम्यनियामकत्वान्नौलम्बनपाषाणवन्नेति चेन्न तदात्मन एव तथानियतत्वात्, सन्निधिमा - त्रात् पूर्ववदनियमनात् ।
"
द्वादशारनयचक्रम्
www
^^^^^^^^^
www.ww MA
'www
wwww
(प्रकाशात्मैवेति) प्रकाशात्मैव तु नियम इतरथा सः प्रकाशो न सः, तथाऽनियतत्वात् तथाऽभूतत्वादिति अस्यैवार्थकथनं प्राक्तन व्याख्यानवत्, रूपादिखरूपनियतार्थप्रकाशनात् प्रकाशः स्यान्ना10 न्यथेति त्वन्मतेन घटपुरुषवत्, यत्तथाऽनियतं तन्न प्रकाशो यथा घटः पुरुषे न नियतो घटे च पुरुषः, यो यः प्रकाशः स तथानियत एव यथा रूपरसादि लोकप्रतीतोदाहरणमेव घटपटवद्वेति, एवन्तावत् प्रकाशस्य रूपान्तरनिवृत्तिरूपं नियममन्तरेण प्रकाशनाभावप्रदर्शनान्नियमात्मकत्वमुक्तम्, इदानीं य एव नियमः स एव प्रकाश इति तयोरनन्यत्वापादनम्, तथानियतत्वात् तेन प्रकारेण नियतत्वात्, रूपकाशरूपेण रसाद्यात्मनिवृत्त्या प्रकाशस्य नियतत्वात्, तथाप्रवृत्तत्वादिति अस्यैवार्थकथनम्, वृत्ति15 नियतिव्यक्तीनामैकार्थ्यात्, घटघटखात्मवत्, यत्तथानियतं यत्तथावृत्तं यत्तथाव्यक्तं तदेव तत्, यथा घट एव घटस्वात्मा, यत्पुनस्तदेव न भवति न तत्तथानियतं तथावृत्तं तथाव्यक्तं वा यथा पुरुषः, नियम्यनियामकत्वान्नौलम्बनपोषाणवन्न-यथा नौः प्रवर्त्तमाना नियम्यते लम्बनपाषाणेन नियामकेन, तयोश्चान्यत्वमेवं सत्त्वतमसोरित्येतच्च न, तदात्मन एव तथानियतत्वात् - तस्यैवात्मा स एव वाऽऽत्मा तदात्मा तस्यैव प्रकाशात्मनो नियतत्वात् तस्मादेव तेनैव वाऽऽत्मना प्रकाशात्मन एव 20 नियतत्वा[त् सत्त्व]तम सोर्भेदाभावान्नौलम्बनपाषाणवद्भेदसाधर्म्याभावादयुक्तो दृष्टान्त इति वक्ष्यते,
wwwwww
wwwwww
अत्रापि प्रकाशनियमयोरनन्यताऽऽपादनेऽपीत्यर्थः । प्रकाशात्मकत्वं नियमस्य साधयति - प्रकाशात्मैवेति, यदि प्रकाशः प्रकाशात्मना नियतो न स्यात्, अन्यात्मनापि स्यात्तर्हि स प्रकाश एव न स्यात्, न चैवम्, तस्मात् प्रकाशात्मना नियतत्वात् प्रकाशात्मैव नियमः, प्रकाशो हि स्वस्वरूपे नियतमर्थं प्रकाशयन् प्रकाशः स्यान्नान्यथेति भावः, दृष्टान्ते व्याप्तिं ग्राहयतियदिति । व्यतिरेकव्याप्तिमाह-यो य इति । व्यावृत्तिरेव नियमः, वस्तु चानुवृत्तिव्यावृत्तिरूपमतो नियमात्मकः प्रकाश 25 इत्याह-एवन्तावदिति । प्रकाशात्मा नियमो भवतु नियमात्मा तु न प्रकाश इत्याशङ्कायामाह - इदानीमिति प्रकाशो हि रूपं रूपखरूपेण रसादिव्यावृत्तिरूपेण नियतं प्रकाशयतीति नियम एव प्रकाश इत्याह - रूपेति । प्रवृत्तिनियमप्रकाशानां पर्यायत्वमाह - वृत्तीति, वृत्तिः - प्रवृत्तिः, नियतिः - नियमः, व्यक्तिः - प्रकाशः । दृष्टान्ते हेतुं सङ्गमयति-यत्तथेति । नियम्यनियामकयोर्भेदव्याप्यत्वमित्यभिमानेन परः शङ्कते - नियम्येति । दृष्टान्तदाष्टन्तिकयोरतुल्यताभिप्रायेणोत्तरयति - तदात्मन एवेतिप्रकाशात्मनः सत्त्वस्यैव प्रकाशस्यैव वा तेन प्रकारेण नियतत्वादित्यर्थः, प्रकाशस्यैव नियमरूपतया परिणमनात् तयोर्न मेद इति, 30 नौलम्बनपाषाणसाधम्र्म्यं नास्ति तयोर्भेदस्य प्रकारान्तरेण सिद्धत्वात् प्रकाशनियमयोस्तु नान्यथा भेदसिद्धिरिति वैषम्यम्, सत्त्वतमसोश्च मेदे प्रधानावस्थायामुपदर्शितसन्निधानमपि तमो यथा न नियामकं तथेदानीमपीति नियामकं न भवेत्, किन्तु निय१ सि. क. रूपरसप्रक० । २ सि. क. पाषाणवत् ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org