________________
सत्त्वनियम्यत्वं तमसः] न्यायागमानुसारिणीव्याख्यासमेतम्
३६९ तद्व्याख्यातार्थमाह-सन्निधिमात्रात् पूर्ववदनियमनात्-इह तमःसन्निहितमपि प्राक् सन्निधिमात्रादेवानियामकं स्वयमनियतत्वात् सत्त्वाधीननियतित्वात् किन्तु नियम्यमनियमनात् ।
कस्तर्हि नियामकः ? उच्यते___ य एवासौ सत्त्वस्यात्मा तथानियम्यव्यक्तिस्वरूपः प्रकाशः स एव नियामकः, तथानियमविधेः, इतरकत्र्तृककुम्भकारादिवत्, तमोनियमात्मरूपापादनात् ततस्त्वदभिमतनियामक- 5 त्वविपर्ययापत्तिः, तमसो नियम्यत्वात् , सत्त्वस्यैव नियामकत्वात् इतरतथात्मरूपापादनात्तमोवत् , तमोऽपि हि त्वन्मतेनेतरयोस्तथास्वरूपापादनाहते किमन्यत् करोति ? एवञ्च नौवत्तम एवाऽऽपद्यते सत्त्वमेव नियामकम् , तथाप्रकाशेन नियम्यत्वात् ।
(य एवेति) य एवासौ सत्त्वस्यात्मा प्रकाशः स नियामकः, कथमिति चेदुच्यते यस्मात्तथानियम्यव्यक्तिस्वरूपस्तेन प्रकारेण शब्दादिनियतत्वेन नियम्यव्यञ्जनस्वरूपः स एव-प्रकाश एव, कुतः ? 10 तथानियमविधेः-तेन हि प्रकारेण नियमस्य विधिः शब्दस्वरूपेण प्रकाशमानस्य शब्दस्य रूपाद्यनात्मना नियता प्रकाशमानता नियमविधिः, तस्माद्धेतोः प्रकाश एव नियमः, दृष्टान्त इतरकर्तृककुम्भकारादिवत्-यथा मृद्रव्यं पिण्डशिवकादिभावेनाभिव्यज्यमानं तथा तथा प्रकाशयता का कुम्भकारेण नियमकारिणा निर्वय॑ते नियम्यते नियते रूपेऽवस्थाप्यते नाप्रकाशमानमप्रवर्त्तमानञ्च, सत्कार्यवादाभ्युपगमादसदकरणादिहेतुसामर्थ्याच्च, तस्मात् स कर्ता प्रकाशस्थानीयो नियामकः पिण्डशिवकादेनियमस्य, 15 तथा प्रकाशस्तमसः, कुतः ? तमोनियमात्मरूपापादनात् , सत्त्वेनैव हि तथा तथा प्रकाशमानेन तमसो नियमरूपमापाद्यते मृद्रव्यवत् तथाप्रकाशयता क; कुम्भकारेण तदात्मलाभहेतुत्वात् , ततस्त्वदभिमतनियामकत्वविपर्ययापत्तिः तमसो नियम्यत्वात् सत्त्वाधीननियतित्वात् सत्त्वस्यैव नियामकत्वात् पक्षधर्मविपरीतता, सत्त्वापाद्यनियमात्मरूपता प्रसक्ता, सत्त्वाप्रकाशिते नियमाभावात्, सत्त्वापादितं हि तमसो नियमात्मरूपं तस्मात्तमोनियमात्मरूपापादनात् सत्त्वं नियामकमितरतथात्मरू- 20
mmmmmwwwwwwwwwww
wwwwwwww
म्यमेव स्यात् , सत्त्वेनोद्बद्धस्यैव तमसः प्रतिलब्धनियतित्वात् तस्मात् प्रकाशात्मन एव नियतत्वमित्याह-इहेति । यथा सत्त्वस्यात्मा प्रकाशः शब्दादिनिर्वर्त्यप्रकारेण प्रवर्त्यव्यक्तिखरूपः प्रवर्तकस्तथास एव प्रकाशः शब्दादिनियतत्वेन नियम्यव्यक्तिखरूपो नियामक इत्याह-य एवासाविति । प्रकाशेन प्रकाशमानस्यैव शब्दस्य शब्दखरूपेणैव प्रकाशमानता, न तु रूपाद्यात्मनेति तमसा नियम्यते, प्रकाशाप्रकाशिते तमसाऽनियमनादित्याशयेनाह-तथा नियमविधेरिति । दृष्टान्तं घटयति-यथेति पिण्डशिवकादिप्रकाशनशील मृद्रव्यं तत्तद्रूपेण प्रकाशयन् कुम्भकारो यथा प्रतिनियतवरूपेण नियमयति न त्वप्रकाशमानं न वाऽप्रवर्त्तमानं निय-25 मयति तथेति भावः, इतरत्-मृद्रव्यादि कर्तृ-प्रकाशयितृ प्रवर्तयितृ यस्य पिण्डादेः, तस्य कुम्भकार इवेत्यक्षरार्थः । अप्रकाशमानाप्रवर्त्तमानयोरनियम्यत्वे हेतुमाह-सत्कार्येति । तमो हि स्वयमप्रकाशरूपतयाऽप्रवर्तकतया च सत्त्वधर्म प्रकाश रजोधर्म प्रवृत्तिञ्चाश्रित्य नियमं करोतीति तस्य नियमधर्मता सत्त्वरजोऽधीनेत्याह-तमोनियमति, एवञ्च तमस एव नियम्यत्वं नियामकत्वञ्च सत्त्वस्य रजसो वेति त्वदभिमतविपरीतताप्रसक्त्या तमः सत्त्वादिभिन्नम् , नियम्यनियामकत्वात् , नौलम्बनपाषाणवदिति भेदसाधकहेतोरपक्षधर्मतेति भावः । सत्त्वस्य नियामकत्वमेव दृढयति-सत्त्वं नियामकमिति, इतरस्य तमसः, तथा-30 त्मरूपापादनात-नियमात्मरूपापादनात् तमोगुणोऽपि सत्त्वरजःकार्यभूते प्रकाशप्रवृत्ती सहकारित्वेनोपादाय स्वकार्येण नियमेन
१सि. नियमविधिनियमः ।
द्वा० न० ९ (४७)
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org