________________
३७० द्वादशारनयचक्रम्
[ विध्युभयारे पापादनात्तमोवत् , तमोऽपि हीत्यादि, तमसोऽपि हि नियामकत्वमेवमेव युज्यते, [तमोऽपि] त्वन्मतेन हीतरयोः सत्त्वरजसोरात्मस्वरूपापादनं कुर्यादन्यथा इतरस्वरूपापादनाहते तमः किमन्यत् करोति ? तयोहि सत्त्वरजसोरात्मरूपतापादनमेव कुर्वन्नियामकमित्युच्यते, यथा तमः पूर्व प्रकाशप्रवृत्त्यात्मभ्यामनियतयोः सत्त्वरजसोस्तथानियमनान्नियामकमेवं सत्त्वमपि इतरतथा नियमात्मरूपापादनान्नि5 यामकमस्तु को दोषः ? एवञ्च नौवत्तम एवापद्यते-एवञ्च सत्त्वस्यैवोक्तविधिना नियामकत्वान्नौस्थानीय नियम्यं तम एव स्यात् , न नियामकं, लम्बनपाषाणस्थानीयं सत्त्वमेव नियामकं न नियम्यं स्यात् , किं कारणं ? तथाप्रकाशेन नियम्यत्वात् , यस्मात्तेनोक्तप्रकारेण प्रकाशेन नियम्यत्वं मोहस्य, तस्मात्तमसः सत्त्वेन नियम्यत्वादित्यर्थः, तस्मात् प्रकाशाप्रकाशिते तमसो नियत्यभावात्तमसः प्रकाशेन तथानियम्यत्वात्तदात्मन एव तथानियतत्वादिति साधूक्तम् , एवं तावत्सत्त्वतमसोर्भेदमभ्युपेत्य विपर्ययापत्त्या 10 नियम्यनियामकत्वादित्यस्य हेतोरसिद्धिरुक्ता ।
नैव वा सत्त्वव्यतिरिक्तं तमोऽभ्युपेम इत्यत आह
तथाप्रकाशानतिरिक्ततत्त्वरूपत्वाद्वा नियमस्य कुतोऽनौलम्बनपाषाणभेदसाधर्म्यम् ? भेदे सति लम्बनपाषाणो नौविलक्षणो नावं प्रवर्त्तमानां निरुणद्धीति युज्यते, न तद्रूपत्वमत
द्वत्तित्वादिति चेन्न तमसः स्वनियमवत्तदात्मन एव नियतत्वात् , अन्यथा सत्त्वं न स्यात् 15 प्रकाशो वेत्युक्तत्वात् , तथाऽन्यथा तु नियत्यभावात् प्रकाश एव नियमः ।
(तथेति) तथाप्रकाशानतिरिक्ततत्त्वरूपत्वाद्वा नियमस्य-शब्दप्रकारेण रूपादिप्रकारेण च यः प्रकाशस्तदनतिरिक्ततत्त्वरूपत्वान्नियमस्याभिव्यक्तेः कुतोऽनौलम्बनपाषाणभेदसाधर्म्यम् ?-न नौरनौः, कः ? लम्बनपाषाणस्तस्य नावो भेदस्तत्साधर्म्यमनौलम्बनपाषाणभेदसाधयं तत्कुतः सत्त्वतमसोर्भेदसाधयं ? भेदाभावादित्यर्थः, ततो दृष्टान्तदान्तिकयोः साधाभावादयुक्तमिति वैषम्यं दर्शयति20 भेदे सति लम्बनपाषाणो नौविलक्षणो नावं प्रवर्त्तमानां निरुणद्धीति युज्यते, न तु तथाप्रकाशातिरिक्त
तत्त्वरूपो मोहो नियामकोऽस्त्येतयोः, शब्दाद्याविर्भावमात्रफलत्वादतो न युज्यते, न तद्रूपत्वमतद्वृत्तित्वादिति चेत्-स्यान्मतं प्रकाशनमात्रं सत्त्वस्य वृत्तिनियमनन्तु तमसस्तस्मात्सत्त्वस्यानियमादतद्वृत्तित्वाढ
सत्त्वरजसोः साहाय्यमाचरतीति सत्त्वरजसोस्तदात्मरूपापादनमेव करोति नान्यत् किञ्चिदित्येवं सत्त्वमपि स्वधर्मेण प्रकाशेन
तमसो नियमात्मरूपमापादयतीति तदेव नियामकमित्याह-तमोऽपीति । उपसंहरति-तस्मादिति । ननु कार्यकारणयोर25 भेदात् शब्दादिरूपस्येतरानात्मतया नियतस्य सत्वप्रकाशस्य सत्त्वात्मतया सत्त्वमेव प्रकाशरूपं प्रवृत्तिरूपं नियमरूपञ्च, तथा च
सति य एव सत्त्वस्यात्मा प्रकाशः सैव प्रवृत्तिः स एव च नियम इति नियमः प्रकाशानतिरिक्ततत्त्वः, शब्दादेः सत्त्वप्रवृत्तिरूपत्वात् सत्त्वप्रकाशरूपत्वात् रूपाद्यनात्मना नियतत्वेन नियमरूपत्वाच्च, तस्मान्न सत्त्वतमसोरनौलम्बनपाषाणभेदसाधर्म्यमस्ति, अभिन्नत्वादित्याह-तथेति । भेदे सतीति, नौलम्बनपाषाणयोर्भेदे सतीत्यर्थः । त्रिगुणानां शब्दाद्याविर्भावलक्षणैककार्यकारित्वादपि
भेदासिद्धेर्न प्रकाशादितो मोहोऽन्यो नियामको येनानौलम्बनपाषाणभेदसाधयं युज्यतेत्याह-न त्विति । सत्त्वं न नियमरूपम् 30 सत्त्वान्यवृत्तित्वात् , सत्त्वस्य हि प्रकाश एव वृत्तिः, तमसो नियम एव वृत्तिः,न ह्यन्यव्यापारोऽन्यस्येत्याशङ्कते-स्यान्मतमिति।
१ सि. क. त्वमेव यु० । २ सि. क. त्वन्मते यदीतर० । ३ सि. क. रात्मरूपापादनमेवात्मरूपतापादनं नि ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org