________________
mummmm
प्रकाश एव नियमः] न्यायागमानुसारिणीव्याख्यासमेतम्
३७१ त्तिभेदाच्च न नियमनं सत्त्वस्य तमसश्च न प्रकाशनमित्यस्ति भेद इत्येतच्च न, तमसः स्वनियमवत्तदात्मन एव नियतत्वात्-यथा तमसः स्वो नियमः प्रागवृत्तः पश्चात् स्वत एव तमःस्वात्मनः नियतस्तमसा विनाऽभूतत्वात्तदत्यागेन वृत्तेस्तदधीनत्वात्तद्रूप एव तदात्मन एव नियतत्वात्तथा सत्त्वप्रकाशवृत्त्यनतिरिक्ततत्त्वरूपस्तमोनियमः सत्त्वाव्यतिरिक्तः प्रकाशाधीनत्वात्तदविनाभावात्तदपरित्यागेन प्रवृत्तेस्तदास्मन एवं नियतत्वादिति । किश्चान्यत्-अन्यथा सत्त्वमित्यादि-यदि स्वत एव नियमो न स्यात् ततोऽ- 5 न्यथा सत्त्वं सत्त्वमेव प्रकाशो वा प्रकाश एव न स्यात्तथाऽनियतत्वाद्रजोवत् प्रवृत्तिवत्, मूलत एव तथा प्रकाश इति न स्यादनियतत्वाद्वन्ध्यापुत्रवत् पुरुषवदित्युक्तत्वादिति, तथाऽन्यथा तु नियत्यभावात्प्रकाशाप्रकाशिते तमसो नियत्यभावादनियतस्य वाऽभावात् प्रकाश एव नियम इति । स्यान्मतं प्रकर्षण काशनं प्रकाशनमित्यादि यावत् प्रवृत्तिवदिति प्रासङ्गिकं तदेव चोद्यं तत्रोत्तरमपि । तत्रापि सत्त्वस्यापि तमोवदपरिसमाप्तरूपत्वादित्याद्यक्षरविपर्यासेन यथायोगाक्षरोपन्यासं यावदुत्थाप्यसाहाय-10 कशक्तित्वाद्वाताहतनौद्वयवद् ग्लानशिबिकावाहकवत् यावच्चोपहतबीजवदिति वाच्यम्, तस्मादिदं व्याख्यातार्थ नियामकाभावस्य च पर्याप्तत्वेनोक्तत्वात् ।
एवञ्चैकैकविनिद्रावस्थापुरुषत्ववदित्यादि यावद्भङ्गचक्रावर्त्तनं प्रवृत्तिस्थाने नियमतश्च, पुनश्च नियमस्वात्मैव वा त्रीण्यपीति पुरुषावस्थावद्भङ्गचक्रावर्त्तनं यावत्सुखादनन्यदुःखमितीयया युक्त्या तमोनियमरूपं तयैव प्रकाश एव नियमरूप इत्याह-तमस इति तमसो हि कार्य नियमः, स तु कार्यत्वादेव 15 पूर्वमवृत्तः, प्रधानावस्थायां हि अप्रवृत्तसमा इष्यन्ते वैषम्यावस्थायाञ्च तमः स्वात्मनैव, न त्वन्येन भवन् तमोव्यतिरेकेणाभवन् तमसोऽन्यत्रावृत्तेस्तमोऽधीनत्वात्तमोरूप एव नियम इष्यते तथैव सत्त्वधर्मप्रकाशात्मैव नियमः तमसः स्वयमप्रकाश सत्त्वधर्म प्रकाशमाश्रित्य तेन नियमनात् प्रकाशाधीनत्वात् प्रकाशं विनाऽभावात् प्रकाशपरित्यागेनावृत्तेः प्रकाशात्मन एव नियतत्वादिति भावः । प्रकाशनियमयोर्भदे तु सत्त्वस्य सत्त्वतया प्रकाशस्य प्रकाशतया प्रत्ययव्यपदेशौ न स्याताम् , तयोरन्यानात्मतया नियतत्वाभावात, सत्त्वात्मना प्रकाशात्मना चानियतत्वादेव हि रजः प्रवृत्तिा सत्त्वं प्रकाशो वा न भवति, सत्त्व- 20 प्रकाशयोश्च खतोऽनियतत्वेऽन्येनापि नियतत्वासम्भवेन गुणान्तरापत्तिलक्षणपरिणामासम्भवात् स्वात्मप्रतिलम्भ एव न स्यात्तथा च कथं सत्त्वं सत्त्वं भवेत् , प्रकाशलक्षणं हि सत्त्वम् , तदप्रतिलभे च न तल्लक्षणं सत्त्वं स्यात् , प्रकाशश्च कथं प्रकाशः खात्मलाभाभावादित्याशयेनाह-अन्यथेति । मिन्नात्मकतायामित्यर्थः । न केवलं सत्त्वं सत्त्वमेव प्रकाशः प्रकाश एव न स्यादिति लक्षणाभाव एव दोषोऽपि तु तयोरसत्त्वमेव, सत्त्वादेः क्षणमपि परिणामशून्यतयाऽवस्थानासम्भवादित्याशयेनाह-मलत एवेति । सत्त्वस्य प्रकाशात्मनाऽनियतत्वे च सत्त्वेन तमसोऽप्रकाशनान्नियमलक्षणं तमो न भवेत् , गुणानामन्योन्याश्रयवृत्तितया सत्त्वध-25 मप्रकाशाश्रयेणैव नियमकारित्वात्तदभावे तदभाव एव स्यात, तस्मात् प्रकाशात्मैव नियमोऽभ्युपेयः इत्याह-तथाऽन्यथा त्विति । अथ सामान्यतः सत्त्वादौ काशनवर्तनयमनानां सद्भावात् प्राद्युपसर्गद्योत्यप्रकृष्टताया एव रजआद्यनुग्रहसम्पाद्यत्वेन नासत्कार्यवादापत्तिर्न वा सत्त्वप्रकाशादेरभावप्रसङ्ग इत्याशङ्ख्य रजआदीनामनुग्राहकत्वाद्यभावस्य समर्थितत्वात्तद्दोषतादवस्थ्यमेवेत्युक्तार्थ स्मारयति-स्यान्मतमित्यादिना एवञ्च नियामकत्वं तमसो न सम्भवतीति साधितम् । अधुना यथा पु वस्थास्वरूपोपवर्णनद्वारेणैव निरूपणादवस्थावात्मक एव, तत्रापि विशेषेणात्यन्तिकनिद्राविगमरूपनिरूप्यत्वाद्विनिद्रावस्थैव सः, 30 तथा त्रिगुणस्वरूपोपवर्णनद्वारेणैव निरूपणात्रिगुणवात्मकमेव प्रधानम्, तत्रापि नियमापत्तिरूपनिरूप्यत्वान्नियमखात्मवन्नियम एव प्रधान मिति साधनाय तदन्थमेवात्रातिदिशति-एवञ्चति । तदेवं गुणखरूपत्वं प्रधानस्योक्त्वेदानी प्रधानखात्मत्वं गुणानामित्यभ्युपगमेऽगुणत्वात् प्रधानस्याभावः भावे वा गुणानामैक्यमित्यादिरूपेण पूर्व एव ग्रन्थोऽत्रापि भाव्य इत्याह
१ सि. क. प्रवर्त्तमान०।२ सि. क. प्रवृत्त०।३ क. तत्खरूपः । ४ सि. क. प्रवृत्त । ५ सि. क. नियत ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org