________________
३७२ द्वादशारनयचक्रम्
[विध्युभयारे यद्रम् , अत्र तु विशेषः सुखादनन्य एव मोहः, अनात्मत्वेऽशोषाद्यात्मकत्वात् सुखस्वात्मवदित्यादिसाक्षेपपरिहारं पूर्ववत् ।
(एवञ्चेति) एवञ्चैकैकविनिद्रावस्थापुरुषत्ववदित्यादि यावद्भङ्गचक्रावर्त्तनमिति प्रागुक्तं भङ्गचक्रक्रममावर्त्य व्याख्येयमिति तदेवातिदिशति समानत्वात, तत्र तु प्रवृत्तिरेव प्रधानं प्रवृत्त्यापत्तिरूपनि5 रूप्यत्वात् प्रवृत्तिस्वात्मवदिति प्रवृत्तिमात्रत्वे प्रधानभङ्गचक्रमावर्तितम्, इह तु प्रवृत्तिस्थाने नियमं कृत्वा प्रधानस्थाने प्रधानमेव च कृत्वा भङ्गचक्रावर्त्तनं तद्वदेव कार्यम्, पुनश्च नियमस्वात्मैव वा त्रीण्यपीति पुरुषावस्थावद्भङ्गचक्रावर्त्तनं द्वितीयं लिखितं यथा तथाऽत्र प्रवृत्तित्रैगुण्यवन्नियमत्रैगुण्यं लिखितं द्रष्टव्यमिति, भङ्गप्रन्थपरिवृत्तिपरिमाणमप्याह-यावत् सुखादनन्यदुःखमितीयड्रम्, अत्र तु विशेषः सुखा
दनन्यो मोह इति प्रतिज्ञा, हेतुरनात्मत्वेऽशोषाद्यात्मकत्वादिति, दृष्टान्तः सुखस्वात्मवदिति, इत्यादि 10 साक्षेपपरिहारं पूर्ववदिति, अवधारणेन चोक्तसाधनान्तरापक्षिप्तान्यत्वो विपक्षाभावः सूच्यते इत्यादि सर्वातीतव्याख्यातप्रपञ्चातिदेशः, तद्व्याख्यातोपायदिङ्मात्रप्रदर्शनश्चैतत् प्रवृत्तिस्थाने नियमतश्चेति ।
न वापीदमेकत एव तत्त्वं सुखदुःखमोहानां सामान्यविशेषभावात् , किन्तूभयतः, अनन्यत्वात् , अभिन्नत्वात् , एकत्वात् पूर्ववत्.........सन्निहितापत्तिभवनसत्तार्थत्वन्त्वयथार्थ स्यात् , आपत्तिभवनं सन्निधिभवनाविनाभावे युज्यते, यदि तद्रूपादिबीजे न तु सन्निहितं ततो16 ऽङ्करस्यासत्त्वाद्यापत्तिः स्यात्.....................।
न वापीदमेकत एव तत्त्वमित्यादीत्युत्तरस्य विकल्पोत्थापनग्रन्थस्य सम्बन्धः सुखदुःखमोहानामन न्यत्वं तत्त्वमुक्तम् , तत्त्वमेकतः सामान्यविशेषभावात्-सामान्यविशेषभेदभावात् यथा वृक्ष इति सामान्यं कदम्ब इति विशेषः, यथाऽत्र कदम्बो नियमाद्वक्षो वृक्षस्तु स्यात् कदम्बोऽन्यश्चेत्येकतस्तत्त्वं तथा यदि सामान्यविशेषभावः स्यात् स्यादेकत एव तत्त्वम् , न तु तथेह सुखदुःखमोहानां सामा20 न्यविशेषभावोऽस्तीति, किन्तूभयतोऽनन्यत्वादभिन्नत्वादेकत्वादित्यादिना सत्त्वरजस्तमसामेकत्वापा दनार्थ पूर्ववत् सर्व एव प्रक्रमभेदैः स एव तथैव ग्रन्थः प्रवृत्त्या प्रकाशविशेषितया मोहविशेषितया
www
www
पुनश्चेति । अशोषेति, शोषाद्यात्मकं हि रजः तमस्तु दैन्याऽऽवरणसदनापध्वंसनबीभत्सगौरवात्मकं बोध्यम् । ननु भवतु सत्त्वस्य प्रकाशस्य वा प्रकाशप्रवृत्तिनियमात्मकत्वं मृदः पिण्डशिवकाद्यात्मकत्ववत्, तथाप्यनेकात्मकैककारणपूर्वकत्वमेवास्मदिष्टं
जगत आयातम्, न त्वेकात्मकैककारणपूर्वकत्वं भवद्भिरापाद्यमित्याशंकते-न वापीदमिति,सुखदुःखमोहानामेकतः-एकपार्श्वन 25 मृत्पिण्डादीनां मृदात्मकत्ववदनन्यत्वं न सम्भवति सुखदुःखमोहानां परस्परं सामान्य विशेषभावाभावादिति भावः । पूर्वपक्षमेव तावद्वर्णयति-सुखदुःखमोहानामिति, ययोरेकतोऽनन्यत्वं भवति तयोः सामान्य विशेषभावो दृष्टः, यथा वृक्षकदम्बयोः सामान्यविशेषभावो वर्त्तते, एकपार्वतश्चानन्यत्वमस्ति, कदम्बो हि नियमात् वृक्षात्मकः, वृक्षस्तु नियमात् कदम्बात्मको न भवति एवं वृक्षोऽनेकात्मकैकरूपः तथाऽत्र नैकपार्श्वनानन्यत्वं सुखादीनाम्, सामान्यविशेषभावाभावादित्याह-तथा यदीति ।
तर्हि किमित्यत्राह-किन्तुभयत इति, सुखमेव दुःखम् , दुःखमेव सुखम् , सुखमेव मोहः, मोह एव सुखमित्येवमुभयत 30 एवानन्यत्वं भाव्यमिति भावः । अत उत्तर कियान् मूलप्रन्यो नोपलभ्यते. टीकाकृद्धिः भाष्य एव सुलिखितत्वान विवियत
इत्युक्तत्वात्, तथा प्रकाश्यार्थप्रकाशमेदान्नत्तकीनतकाचार्यवन्नेति चेन्न. तदात्मन एवेत्यादि. कुतो नर्तकीनतकाचार्यमेदसाधर्म्य
१ सि. क. सर्वमेव ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org