________________
अनेकात्मकैकत्वेऽनुपपत्तिः] न्यायागमानुसारिणीव्याख्यासमेतम्
३७३ नेयः तथा च भाष्य एव सुलिखितत्वान्न विवियते, सन्निहितापत्तिभवनसत्तार्थत्वमयथार्थ स्यादित्यत्र तु विशेषः आपत्तिभवनं सन्निधिभवनाविनाभावे युज्यते, नान्यथा, यदि तद्रूपादिबीजे न तु सन्निहितं ततोऽङ्करस्यासत्त्वाद्यापत्तिः स्यात् , सत् कार्य कारणं चेति द्वैविध्यञ्च भवनस्यैवमेव युज्यते, आपत्त्यनापंत्तिभेदादिति, शेषं पूर्ववत् , सत्त्वेन तमसा च सह भावनायां कृतायां पुनश्च तथैव तमसोऽपि सत्त्वेन रजसा तद्वदेव भावनाग्रन्थो निरवशेषो लिखित आचार्येणैवेति न विवृण्महे स एवानुसतव्यः, 5 सर्वत्र भेदचोद्येषु प्रवर्त्यप्रवर्तकत्वात् पल्लवपवनवन्नेति चेन्न, तदात्मन एवेत्यादि तदेव सत्त्वरजःसंयोगेपि, प्रकाश्यार्थप्रकाशभेदान्नर्तकीनर्तकाचार्यवन्नेति चेन्न तदात्मन एवेत्यादि सत्त्वरजःसंयोगे [नियम्यनियामकत्वान्नौलम्बनपाषाणवन्नेति चेन्न तदात्मन एवेत्यादि ] रजस्तमःसंयोगे च तत्र तत्र प्रकाशनप्रवर्त्तननियमवचनानि च यथोपपत्ति योज्यानि । कुतोऽपल्लवपवनभेदसाधर्म्य कुतोऽनर्त्त कीनर्तकाचार्यभेदसाधयं कुतोऽनौलम्बनपाषाणभेदसाधर्म्यमिति चोपनयेषु द्वयं द्वयं द्वयोयोर्गुणयोः 10 सम्भाव्य चोदयित्वा परिहार्यमिति ।
एवञ्च तावत् सुखदुःखमोहानां प्रकाशप्रवृत्तिनियमात्मकानामनन्यत्वादेकात्मकैककारणपूर्वकत्वमिति सम्यगभ्यधाम् । एवन्त्वनभ्युपगमे इदं निरूप्यं यत्तद्भिन्नात्मकत्वं परिगृह्य प्रयुक्त कार्यकारणवीतेऽभिहितं सत्त्वरजस्तमांसि त्रीणि शब्दाद्यात्मभिर्व्यवतिष्ठमानानि परस्परार्थ कुर्वन्तीति, एतत्कथं निरूप्यते ? वक्ष्यमाणेषु विचारविकल्पेषु यथा यथोच्यते तथा 15 तथाऽनुपपत्तिरेवेति ।
(एवञ्च तावदिति) एवञ्च तावत् सुखदुःखमोहानां प्रकाशप्रवृत्तिनियमात्मकानामनन्यत्वादेकात्मकैककारणपूर्वकत्वमिति सम्यगभ्यधामिति । एवन्त्वनभ्युपगमे इदं निरूप्यमित्यादि, एवमेकैकात्मकैककारणानभ्युपगमे सांख्यरिदं निरूप्यं कतमत् ? यत्तद्भिन्नात्मकत्वं परिगृह्य प्रयुक्ते कार्यकारणवीतेऽभिहितम्-अस्ति प्रधानं भेदानां कार्यकारणभावात्-आध्यात्मिकानां बाह्यानाञ्च भेदानां कार्यकारणभावो 20 दृष्टः, आध्यात्मिकानां कार्यात्मकानां वक्ष्यामः । सत्त्वरजस्तमांसि त्रीणि शब्दाद्यात्मभिर्व्यवतिष्ठमानानि परस्परार्थं कुर्वन्तीत्येवमादि, एतत् कथं निरूप्यते ? वक्ष्यमाणेषु विचारविकल्पेषु यथा यथोच्यते तथा तथाऽनुपपत्तिरेवेति, इतिशब्द[स्य] हेत्वर्थत्वात् निरूपणाभाव एवेत्यभिप्रायः ।
मित्येवमत्रातिदिष्टं मूलमपि पूर्व नोपलभ्यते, सन्निधिभवनमापत्तिभवनञ्च अस्तिभवतिविद्यतिपद्यतिवर्त्ततयः सन्निपातषष्ठाः सत्तार्था इति वचनात् , अस्तिविद्यतिसन्निपातानां सन्निधिमात्रसत्तार्थत्वात् , पद्यतिवर्त्तत्योरापत्तिभवनार्थत्वात् भवतेश्च सामान्येन सत्तावा- 25 चित्वात् , तत्र कारणभूतं सत् सन्निधिभवनरूपं कार्यञ्चापत्तिभवनरूपं सत् , असतो भवनाभावात् कारणमापत्तिभवनत ईषद्भिन्नं सन्निधिभवनमेव, सन्निहितमेव कार्य बीजादौ देशकालाकारादिनिमित्तवशाट्यतीभवति आपत्तीभवतीति भवनद्वैविध्यमेवमेव घटत इत्याशयेनाह-आपत्तिभवनमिति । एतावता ग्रन्थेन परिनिष्पन्नमुपदर्शयति-एवञ्चेति । अथ विकल्पान्तरमुत्थापयति-एवन्त्विति । भिन्नात्मकत्वमिति, सुखदुःखमोहानां परस्पर मेदमभ्युपगम्येत्यर्थः, अनेकात्मकैककारणरूपत्वाभावात् सत्त्वादीनामिति भावः । कार्यकारणवीत इति, प्रधानसाधनाय सांख्यैः पञ्च हेतव उपन्यस्ताः, ते वीताख्याः लिङ्गस्य 30
१ सि. क. वनो१० । २ क. त्तिभेदाभेदादिः । ३ सि. तत्त्वेन । ४ सि. नास्तीदं पदम् । ५ सि. क. सम्भविरवा। ६ सि. क. साभ्यधामेति । ७ सि. क. कायें कारणपीतेऽ ।
___Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org