________________
३७४
15
द्वादशारनयचक्रम्
तद्विचारोद्देशार्थं साधनमाह - अनेकात्मकत्वकारणकल्पनाऽसद्वाद एव, सम्भाव्यविकल्पानुपपन्नार्थत्वात्, तदुक्तसत्यत्वानुपपन्नार्थसर्वोक्तानृतत्वपक्षवत् ।
( अनेकेति ) अनेकात्मकत्वकारण कल्पनाऽसद्वाद एव, सम्भाव्यविकल्पानुपपन्नार्थत्वात्5 अनुपपन्नसम्भाव्यविकल्पार्थत्वादित्यर्थः, येऽत्र सम्भाव्यन्ते विकल्पास्तेऽनुपपन्नार्था इति वक्ष्यते, तस्मादयमसद्वाद् एव, दृष्टान्तः तदुक्तसत्यत्वानुपपन्नार्थसर्वोक्तानृतत्वपक्षवत् तेनैवोक्तस्तदुक्तः सर्वमनृतमिति स एवोक्तस्तदुक्तो वा, असौ सत्यश्चेन्न तर्हि सर्वमुक्तमनृतमस्य सत्यत्वात् - [- सर्वान्तःपातित्वाच्च, अथासत्यमिदं न तर्हि सर्वस्योक्तस्यानृतत्वमनेनानृतेन प्रतिपाद्यते, अस्यानृतस्याप्रमाणत्वादित्यु भयथापि असद्वादः विकल्प्याभावाच्च, तथेयमपि त्रिगुणमेकं कारणमित्यनेकात्मकैककारणकल्पना10 सद्वाद् इति । तत्पुनः कतमद्वचनमिति तत्प्रदर्शयन्नाह -
यदुच्यते सत्त्वरजस्तमांसि त्रीणि शब्दाद्यात्मभिर्व्यवतिष्ठमानानि परस्परार्थं कुर्वन्तीति, सत्त्वं शब्दकार्यं प्रख्याय तदात्मना व्यवतिष्ठमानं रजस्तमसोः शब्दात्मभावाय प्रवृत्तिं प्रख्यापयतीति अत्र च किं प्रकाशात्मकेन सत्त्वेन शब्दात्मना व्यवस्थानेन प्रकाशात्मकयोरेव रजस्तमसोः शब्दात्मभावाय प्रवृत्तिर्व्यक्तिः प्रख्याप्यते ? उताप्रकाशात्मकयोः ? ।
( यदुच्यत इति ) यदुच्यते सत्त्वरजस्तमांसीत्युद्देशवाक्यं यावत् परस्परार्थं कुर्वन्तीति, निर्देशवाक्यञ्च सत्त्वं शब्दादिकार्यमित्यादि यावत् प्रवृत्तिं प्रख्यापयातीति एतदसद्वादधर्मेण पक्षीकृतं वाक्यम्, अत्र च द्वयं सम्भाव्यते तृतीयाभावात्, तद्दर्शयति- प्रकाशात्मकेनेत्यादि यावत् प्रख्याप्यत इत्ययमेको विकल्पः सत्त्वेन प्रकाशात्मकेन सता तदात्मकयोरेव रजस्तमसोः शब्दात्मना व्यवस्थानेनेति, स्वयं शब्दात्मना व्यवतिष्ठमानेन तेनात्मनोपकुर्वता तयोः शब्दात्मभावाय प्रवृत्तिः प्रख्याप्यते, का सा 20 वीता वीतभेदेन द्वैविध्यात्, तयोर्लक्षणञ्च 'यदा हेतुः स्वरूपेण साध्यसिद्धौ प्रयुज्यते । स वीतोऽर्थान्तरक्षेपादितरः परिशेषितः’ इत्युक्तम्, पञ्च हेतवश्च भेदानां परिमाणात् समन्वयाच्छक्तितः प्रवृत्तेश्च । कारणकार्यविभागादविभागाद्वैश्वरूप्यस्ये' ति ( सां० का ० १५ ) बोध्याः । अनेकात्मकेति सत्त्वरजस्तमोलक्षणप्रधानस्य त्रिगुणस्यैकस्य कारणत्वाभ्युपगमोऽसदभ्युपगम एव, वक्ष्यमाणा ये प्रकाशात्मकयोरप्रकाशात्मकयोर्वेत्यादिसम्भाव्यमाना विकल्पास्तेषामनुपपन्नार्थत्वादित्यर्थः । दृष्टान्तं वर्णयति - असाविति सर्वमनृतमिति वाक्यरूपः । अथ सत्त्वरजस्तमसां प्रकाशप्रवृत्तिनियमलक्षणैर्धर्मैरितरेतरोपकारेण प्रवृत्ति25 र्भवतीत्यर्थकं वाक्यमाह-यदुच्यत इति, सत्त्वं प्रवृत्तिनियमावाश्रित्य रजस्तमसोः प्रकाशेनोपकरोति, रजः प्रकाशनियमावाश्रित्य प्रवृत्त्या सत्त्वतमसोरुपकरोति तमः प्रकाशप्रवृत्ती आश्रित्य सत्त्वरजसोः नियमेनोपकरोतीति भावार्थोऽस्य वचनस्य, तत्र सत्त्वमात्रविषयं वाक्यमाह - सत्त्वं शब्दकार्यमिति । उद्देशवाक्यमिति, सामान्यतो विचारविषयीभूतगुणत्रय कार्यव्यावर्णनपरं वाक्यमित्यर्थः, एतद्वाक्यादेव सिषाधयिषितस्यासद्वादस्य धर्मिभूतं वाक्यमाकृष्य प्रदर्शयति-निर्देशवाक्यश्चेति । सर्वस्य त्रिगुणात्मकत्वात् प्रकाशलक्षणं सत्त्वं शब्दं प्रकाश्य व्यवस्थितशब्दात्मना स्वयं परिणतं सत् रजस्तमसोरपि शब्दरूपेण 30 परिणमितुं प्रवर्त्तयिष्यतीति तद्वाक्यार्थः । अथ विकल्पमुत्थापयति-अत्र चेति, विचारेऽस्मिन् विकल्पद्वयमेव सम्भाव्यते प्रकाशात्मकयोरुताप्रकाशात्मकयोरिति, न तु तृतीयः प्रकारः कश्चिदस्तीति भावः । कर्तृप्रयोगघटितं वाक्यमेव कर्मप्रयोगघटितेन वाक्येन विवृणोति -सत्त्वेनेति । प्रकाशः पौरुषचैतन्येन चेतनावद्भवनम् बुद्धिवृत्त्यादिरूपालोकः, भौतिकालोकश्च, नेदृशः
Jain Education International 2010_04
[विध्युभयारे
१ सि. क. पूर्वोका० । २ सि. क. सद्दादस्तुविकल्पा० । ३ सि. क. सत्त्वंप्रकाशात्मकं सत् । ४ सि. क. व्यवतिष्ठमानं । ५ सि. क. कुर्वन् ।
For Private & Personal Use Only
www.jainelibrary.org