________________
अप्रकाशकत्वे दोषः ]
न्यायागमानुसारिणीव्याख्यासमेतम्
३७५
प्रवृत्तिः ? व्यक्तिरित्यर्थकथनम्, प्रवृत्तिं प्रख्यापयतीत्येतदेव स्फुटीकर्त्तुकामः प्रवृत्तिः प्रख्याप्यत इति विभक्तिविपर्यासेन विवृणोति, आख्यातेनाभिहितकर्मकत्वात् प्रथमया, एषः प्रथमः प्रश्नविकल्पः, द्वितीयस्तु उताप्रकाशात्मक योरिति - रजस्तमसोरप्रकाशात्मकयोर्वा तत्सत्त्वं शब्दकार्यं प्रख्याय शब्दात्मना व्यवतिष्ठमानं शब्दात्मभावाय प्रवृत्तिं ख्यापयतीति प्रश्नः ।
प्रकाशात्मकयोरित्येष विकल्पो न घटत एव, सत्त्वरजस्तमसां जात्यन्तरत्वाभ्युपगमात् यद्यप्रकाशात्मके रजस्तमसी शब्दात्मभावाय प्रख्याप्येते सत्त्वं पुरुषमपि तर्हि शब्दात्मभावाय प्रख्यापयिष्यति-शब्दत्वायैनं प्रवर्त्तयिष्यति, सत्त्वेन शब्दकार्यप्रख्यातिना शब्दात्मना व्यवतिष्ठमानेन पुरुषः शब्दात्मभावाय प्रवर्त्यतेऽभिव्यज्यते व्यवस्थाप्यते च, अप्रकाशात्मकत्वात्, यद्यदप्रकाशात्मकं तत्तत् सत्त्वेन शब्दकार्यप्रख्यातिना शब्दात्मना व्यवतिष्ठमानेन शब्दात्मभावाय प्रवर्त्य व्यङ्ग्यं व्यवस्थाप्यञ्च दृष्टं रजस्तमसी इव, अप्रकाशात्मकेन तेनापि 10 शब्दभावाय प्रवर्त्तितव्यं प्रकाशितव्यं व्यवस्थातव्यम्, प्रकाशकारकत्वोपपत्तेः, रजस्तमोभ्यामिव, रजस्तमश्च यथा प्रवर्त्तते प्रकाशते व्यवतिष्ठते तथा स प्रवर्तते प्रकाशते व्यवतिष्ठते ।
www.wwwwww
www
प्रकाशात्मकयोरिति, एष विकल्पो न घटत एव, सत्त्वरजस्तमसां जात्यन्तरत्वाभ्युपगमात् प्रकाशप्रवृत्तिनियम कार्यभेदात्, सुखदुःखमोहात्मभेदाच्च, रजस्तमसी न प्रकाशात्मके इत्यत्रोच्यते यद्यप्रकाशेत्यादि यावद्रजस्तमसी इवेति, यद्यप्रकाशात्मके रजस्तमसी शब्दात्मभावाय प्रख्याप्येते ततस्तद्वत् 15 सत्त्वं पुरुषमपि तर्हि शब्दात्मभावाय प्रख्यापयिष्यति, तदर्थविवरणं शब्दत्वायैनं प्रवर्तयिष्यति, शब्दत्वपरिणामेनैनं परिणमयिष्यतीत्यर्थः, सत्त्वेन शब्दकार्यप्रख्यातिना शब्दात्मना व्यवतिष्ठमानेन पुरुषः शब्दात्मभावाय प्रवर्त्यतेऽभिव्यज्यते व्यवस्थाप्यते च, अप्रकाशात्मकत्वात्, यद्यदप्रकाशात्मकं तत्तत् सत्त्वेन शब्दकार्यप्रख्यातिना शब्दात्मना व्यवतिष्ठमानेन शब्दात्मभावाय प्रवर्त्त्य व्यङ्ग्यं व्यवस्थाप्यश्च दृष्टम्, यथा रजस्तमश्च, विपक्षाभावाद्व्यावृत्तिर्वाच्या, तत्साधनव्याख्यानद्वारेण साधनान्तरोपन्यास- 20 द्वारेण वा ग्रन्थः - अप्रकाशात्मकेनेत्यादि यावद्रजस्तमोभ्यामिवेति, अपिशब्दाद्रजस्तमोभ्यामपीति, तेनापि
प्रकाशो रजसस्तमसो वाः, तत्र पुरुषचैतन्यप्रतिबिम्बासम्भवात् शब्दकार्यं प्रख्यायेत्यनेन सत्त्वस्य प्रकाश उक्तः, शब्दात्मना व्यवतिष्ठमानमित्यनेन प्रवृत्तिनियमश्वोक्तौ पूर्वोदितप्रकारेण प्रकाशप्रवृत्तिनियमानामेकात्मत्वात्, अत एवाग्रेऽपि रजस्तमसोः पुरुषस्य प्रकाशप्रवृत्तिनियमा आपायन्त इति बोध्यं तथैव परिणामस्योपपत्तेः । सत्त्वरजस्तमसामिति, खरूपभेदात् कार्यमेदाच्च सत्त्वादीनां परस्परं मेदस्त्वयाऽभ्युगम्यते, तत्र सुखादयः सत्त्वादीनां स्वरूपम्, प्रकाशादयश्च कार्यम्, तत्र यदि 25 रजस्तमसोरपि प्रकाशात्मकत्वं तर्हि कार्याभेदात् सत्त्वभिन्नत्वं तयोर्न स्यात्, तथा च प्रकाशात्मकयोः रजस्तमसोरिति प्रथमवकल्पो न युक्त इति भावः । द्वितीयं विकल्पमुत्थाप्य दूषयति- रजस्तमसी इति, प्रकाशात्मकं सत्त्वमप्रकाशात्मके रजस्तमसी शब्दात्मना परिणयै यथा प्रेरयति तथा पुरुषमपि प्रेरयेत्, अप्रकाशात्मकत्वाविशेषादिति दूषणाभिप्रायः । प्रख्याप्येते इति, सत्त्वेनेति शेषः । यदप्रकाशात्मकं तदन्येन प्रकाशात्मना व्यज्यते प्रवर्त्यते व्यवस्थाप्यते च यथा रजस्तमश्च, तथा पुरुषोऽपीत्याह-सत्त्वेनेति । स्वयमप्रकाशात्मकं सदन्येनाप्रवर्त्यमव्यङ्ग्यमव्यवस्थाप्यञ्च न किञ्चिदस्तीति विपक्षाभावात्ततो हेतुर्व्यावृत्त 30 एवेत्याह-विपक्षाभावादिति । अप्रकाशात्मकेनेत्यादिग्रन्थोऽप्रकाशात्मकत्वादिति हेतोरेव व्याख्यानपरः, अथबा प्रोक्तहेतोर्यद्यदप्रकाशात्मकमिति ग्रन्थेनैव व्याख्यातत्वात् प्रकाशकारकत्वोपपत्तेरिति साधनान्तरोपन्यासाय वा प्रोक्त इत्याह- तत्साधनेति । प्रवर्तितव्यमिति भावे तव्यप्रत्ययः, पुरुषः प्रवर्त्तते प्रकाशते व्यवतिष्ठते इति कर्त्तरि प्रयोगः तस्यैव भावे प्रयोगः
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org