________________
mmmmmmm
wwwmammam
maximummm
३७६ द्वादशारनयचक्रम्
[विध्युभयारे च पुरुषेणाप्रकाशात्मकेन शब्दभावाय प्रवर्तितव्यं प्रकाशितव्यं व्यवस्थातव्यमित्येते प्रवृत्तिप्रकाशनियमाः पुरुषकार्याः स्युः स प्रवर्तते प्रकाशते व्यवतिष्ठते परिणमतीत्यर्थः, कुतः ? प्रकाशकारकत्वोपपत्तेः, तस्याप्रकाशकत्वे सत्युपपन्नप्रकाशकारकत्वादित्यर्थः, यद्यदप्रकाशकत्वे सत्युपपन्नप्रकाशकारकं तेन तेन
शब्दभावाय प्रकाशितव्यं प्रवर्तितव्यं व्यवस्थातव्यं यथा रजसा तमसा च, अथवा रजस्तमश्च 5 यथा प्रवर्तत इत्यादि यथाभिव्यक्तार्थानुरूपं व्याख्यातमिति ।
एतस्य साधनस्यानैकान्तिकत्वोद्भावनार्थ साधनद्वारेण परमतमाशझ्याह
अथोच्यतेऽप्रकाशत्वान्नैकान्तः शक्यते कर्तुम् , शक्यते हीत्थं वक्तुमपि, पुरुषः सत्त्वान्न प्रकाशते, अप्रकाशकत्वे सन्निहितप्रकाशकारकत्वात् प्रदीपेनेव वियत्,रजस्तमसी च प्रकाशेते,
अप्रकाशकत्वात् , प्रदीपेनेव पृथिवी, यथा च वियत्पृथिव्योरप्रकाशकत्वसामान्ये सत्येव 10 कारकसान्निध्येऽपि प्रकाशाप्रकाशौ दृष्टौ, एवं पुरुषस्याप्रकाशात्मकत्वेऽप्यप्रकाशतैव रजस्तमसोः प्रकाशतैवेति ।
___ अथोच्यतेऽप्रकाशत्वान्नैकान्त इत्यादि सोपसंहारहेतुकप्रकाशनाप्रकाशनसाधने यावत् प्रकाशतैवेति, अप्रकाशत्वान्नैकान्तः शक्यते कर्तुम् , यस्माच्छक्यते वक्तुमित्थमपि पुरुषः सत्त्वान्न
प्रकाशते न व्यज्यते इति, कस्मात् ? अप्रकाशकत्वे सन्नि हितप्रकाशकारकत्वात् , यदप्रकाशकत्वे 15 सन्निहितप्रकाशकारकं तदप्रकाशमानं दृष्टं यथा प्रदीपेनेव वियत् , रजस्तमसी प्रकाशेते अप्रकाशकत्वात्
प्रदीपेनेव पृथिवीत्येतत् पूर्वेण साधनेन व्याख्यातार्थ सत् सन्निहितप्रकाशकारकत्वादिति न विशेष्यते, यथा च वियत्पृथिव्योरप्रकाशकत्वसामान्ये सत्येव कारकसान्निध्येऽपि प्रकाशाप्रकाशौ दृष्टौ, एवं पुरुषस्याप्रकाशात्मतैव रजस्तमसोः प्रकाशतैवेति विशेषोऽस्त्विति ।
अत्रोच्यते20 एवं तावद्विकल्पसमजातित्वादनुत्तरमेव, प्रयत्नानन्तरीयकत्वे सत्येव मूर्तामूर्तत्वादिवि
शेषवद्धटशब्दयोरनित्यो नित्यश्चेति विशेषः स्यादिति वचनवत् । एतदपि च नैवं वियतोऽप्रपुरुषेण प्रवर्तितव्यं प्रकाशितव्यं व्यवस्थातव्यमिति, एवञ्च प्रकाशप्रवृत्तिनियमाश्रयत्वं पुरुषस्य रजस्तमसोश्च स्यादिति, तत्र हेतुमाह-प्रकाशेति, खयमप्रकाशात्मकः सन् सत्त्वप्रकाशसाहाय्येन पुरुषः प्रकाशाश्रयो भवतीत्यर्थः, उपपन्नं प्रकाशकारकत्वं
यस्य तस्मादिति विग्रहः, अत एव स शब्दात्मभावाय प्रकाशेत प्रवर्तेत व्यवतिष्ठतेति भावः। कर्तरि प्रयोगतो व्याख्यां सूच25 यति-अथ वेति । ननु पुरुषो गगनवत् स्वरूपतोऽप्रकाशकः, तेन प्रकाशसन्निधानेऽपि न तस्य प्रकाशकत्वं सम्भवति, खतोऽ
प्रकाशकस्य प्रकाशसहस्रसन्निधानेनापि प्रकाशकत्वानुपपत्तेः, अन्यथा प्रदीपसन्निधानेन गगनमपि प्रकाशकं भवेदित्याशङ्कतेअथोच्यत इति । यदप्रकाशकं तत् प्रकाशकसन्निधाने प्रकाशमानमेवेत्येकान्तो न सम्भवति, अप्रकाशकस्य गगनस्य प्रकाशकप्रदीपसन्निधानेऽप्यप्रकाशमानत्वात् , अप्रकाशके अपि रजस्तमसी प्रकाशकसन्निधाने प्रकाशमाने भवतः, यथा प्रकाशकप्रदीप
सन्निधानेऽप्रकाशकस्वरूपा पृथिवी प्रकाशमाना भवति तथा पुरुषोऽप्रकाशकत्वे सत्यपि सन्निहितप्रकाशकारकः किं गगनवद30 प्रकाशमानः किं वा पृथिवीवत् प्रकाशमानो वेति संदेहात् प्रोक्तं साधनमनैकान्तिकमित्याशयेनाह-यस्माच्छक्यते वक्तमिति । सन्निहितेति, सन्निहितः प्रकाशकारको यस्य तद्भावादिति विग्रहः, प्रकाशकारकत्वलक्षणं प्रकाशकत्वं पुरुषरजस्तमांसि अप्रकाशकानीति बोध्यानि । एवं तावदिति साधनधर्मयुक्त दृष्टान्ते धर्मान्तरविकल्पात् साध्यधर्मविकल्पं
१सि. क. प्रकाशे इति ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org