________________
niwanAmARAAM
mawwnaww
सत एव प्रकाशनम् ] न्यायागमानुसारिणीच्याख्यासमैतम्
৪৬৩ काशकत्वम् ,त्वन्मतेनैव शब्दात्मना प्रकाशमानत्वात् , रूपविषयाप्रकाशनमपि च पृथिव्यादिषु न घटते, यस्माद्रूपादिपृथग्भूतपृथग्विपरिणतिषु पृथिव्यादिषु तेजोरहितेषु विद्यमानः प्रकाशकत्वप्रकाशः स्वगतोऽतो विपरिणतः, किन्तु प्रकाश्यत्वप्रकाशोऽस्त्याविर्भूतत्वादतस्तेषां प्रकाशतैव क्वचित् , अत्यन्तमतिरोभूतत्वात् ज्ञादिषु प्रकाश्यप्रकाशकत्ववत् ज्ञानस्वभाव एव हि मनुष्यः प्रकाशात्मा प्रकाश्यो दृष्टः तस्मान्नाप्रकाशकत्वे प्रकाशनम् ।
(एवं तावदिति) एवं तावद्विकल्पसमजातित्वादनुत्तरमेव, प्रयत्नानन्तरीयकत्वे सत्येव मूर्तामूर्तत्वादिविशेषवद्धटशब्दयोरनित्यो नित्यश्चेति विशेषः स्यादिति वचनवत् , किश्चान्यत्- एतदपि च नैवं वियतोऽप्रकाशकत्वम् , त्वन्मतेनैव शब्दात्मना प्रकाशमानत्वात् , यदपि च रूपविषयाप्रकाशनं पृथिव्यादिष्वेतदपि च नैवाप्रकाशनं घटते, यस्माद्रूपादीत्यादि यावन्नाप्रकाशकत्वे प्रकाशनमिति, यस्मादिति हेतुर्वक्ष्यमाणार्थो नाप्रकाशनं घटत इति साध्यम् , रूपादीति, रूपरसगन्धास्तेजोऽम्भोभूमिषु 10 तेभ्यः पृथग्भूतावाकाशानिलौ शब्दस्पर्शात्मकौ रूपादिपृथग्भूताभ्यामेव वा ताभ्यां पृथग्भूता विपरिणतिर्येषां तेषु रूपादिपृथग्भूतपृथग्विपरिणतिषु पृथिव्यादिषु तेजोरहितेषु विद्यमानः प्रकाशकत्वप्रकाशः स्वगतोऽतो विपरिणतस्तिरोभूतः किंतु प्रकाश्यत्वप्रकाशोऽस्ति, आविर्भूतत्वात् , अतस्तेषां प्रकाशतैव कचित् , अत्यन्तमतिरोभूतत्वात् , ज्ञादिषु प्रकाश्यप्रकाशकत्ववत्, ज्ञानस्वभाव एव हि मनुष्यः प्रकाशात्मा प्रकाश्यो-बोध्यो बोधकश्च दृष्टः न कुड्यादिरचेतनः, तथा पृथिव्यादयः, मनु- 15 व्यग्रहणमस्यैव रथ्यापुरुषस्योदाहार्यत्वात् , स्यान्मतं बोधकबोध्ययोहेंतुहेतुमद्भावान्नोभयोरुभयधर्मतेति दृष्टान्तदान्तिकवैषम्यमित्येतच्चायुक्तम् , यस्माद्धेतु हेतु मत्त्वेऽपि तयोः सूरिशिष्ययोर्द्वयोरपि प्रत्येक
__mmmmmwww प्रसञ्जयतो विकल्पसमा जातिर्भवति, यथा शब्दोऽनित्यः प्रयत्नानन्तरीयकत्वात् , घटवदित्युक्ते यदि चूयात् प्रयत्नानम्तरीयक किञ्चिन्मूतं दृष्टं यथा घटः, किञ्चिदमूर्त यथा रूपादि, एवं प्रयत्नानन्तरीयकं किञ्चिदनित्यं स्यात् , यथा घटः, किञ्चिन्नित्यं स्यात् , यथा शब्द इति, अन्यथा विशेषो वा वाच्य इति, उत्तरमिदमनुत्तरमेव, विकल्पसमजातित्वात् , एवं प्रकृतेऽपि पुरुषस्याप्रकाशात्म-20 कत्वेऽप्यप्रकाशतैव, रजस्तमसोश्च प्रकाशतेवेत्युत्तरमसदुत्तरमेवेति भावः । ननु तथापि गगनस्याप्रकाशकस्य प्रकाशमानत्वाभावादनैकान्तिकत्वं तदवस्थमेवेत्यत्राह-एतदपि चेति, अप्रकाशकत्वलक्षणो हेत्वंशो गगने नास्त्येव, येनानैकान्तिकत्वं भवेत, व्यक्तमात्रस्य प्रसवधर्मित्वेन परिणामस्वरूपप्रसवस्य च प्रकाशप्रवृत्तिनियमव्याप्यत्वात् शब्दात्मना चाकाशस्य प्रकाशमानतास्त्येव, तस्माच्छब्दप्रकाशकत्वान्नानकान्तिकत्वमिति भावः । एवं पृथिव्यादीनामध्यप्रकाशकत्वं नास्तीत्यत्राहयदपि चेति । शब्दस्पर्शरूपरसगन्धानां मध्ये रूपादयः शब्दस्पर्शव्यतिरिक्ता भवन्तीति व्याचष्टे-रूपादीतीति 25 पृथिव्यादिष्विति प्रकाश्यत्वप्रकाशकत्वलक्षणो द्विविधः प्रकाशः पृथिव्यादेः प्रकाशकत्वलक्षणः प्रकाशस्तिरोभूत एव, न तु तत्र तस्याभावः, प्रकाश्यत्वलक्षणस्तु प्रकाशः तत्रातिरोभूतः, खरूपतः पृथिव्यादेराविर्भूतत्वात् तथा च तत्र प्रकाशता विद्यत एव, एवश्च पृथिव्यादेन प्रकाशनं घटते, अत्यन्तमतिरोभूतत्वात् , ज्ञादिषु प्रकाश्यप्रकाशकत्ववत्, तेजसस्तु रूपप्रकाशनं स्फुटमेवेति तेजोरहितेष्वित्युक्तम्, आकाशे वायो च रूपविषयप्रकाशनं कदापि न घटत इति पृथिव्यादीनामेव परिग्रहणं कृतमित्यभिप्रायः । बोधको हेतुः बोध्यञ्च कार्यमित्येकस्य बोध्यत्वबोधकत्वे न सम्भवत इत्याशङ्कते-स्यान्मतमिति, 30 उभयोः-शस्य पृथिव्यादेश्च, उभयधर्मता प्रकाश्यत्वप्रकाशकत्वे न सम्भवतोऽतः पृथिव्यादेः प्रकाश्यत्वमेव, ज्ञस्य प्रकाशकत्वमेवेति दृष्टान्तदाोन्तिकयोवैषम्यमिति भावः । भिन्नापेक्षयोभयत्रोभयधर्मसम्भवान्न वैषम्यमित्युत्तरयति-यस्मादिति एवञ्चाकाशपृथिव्योरपि प्रकाशकत्वात् न दृष्टान्तत्वमप्रकाशकत्वहेतोस्तत्राभावात् , न वा रजस्तमसोः पुरुषस्य च विशेषोऽस्ति
१ सि. क. प्रकाशौस्त्यावि०।
द्वा० न०१० (४८) Jain Education International 2010_04 For Private & Personal Use Only
www.jainelibrary.org