________________
३७७ द्वादशारनयचक्रम्
[विध्युभयारे नाप्रकाशत्वे प्रकाशनमिति तस्मान्न वियत्पृथिव्योरपि प्रकाशकत्वसाम्याद् दृष्टान्तभावः पुरुषस्य रजस्तमसोश्च विशेषापादनसिद्धिः ।
अथापि त्वदनुवृत्त्या वियत्पृथिवीविशेषोपपत्तिमभ्युपेमः पुरुषस्याप्रकाशकत्वे सत्यप्रवर्त्तनादि रजस्तमसोश्च प्रवर्तनादि तथापि ते5 वियत्पृथिवीविशेषोपपत्तिवच्च ते एव प्रवर्तते न पुरुष इत्यस्तु नाम, किन्त्वयमन्यस्ते दोष आपद्यते, प्रकाशात्मके तर्हि रजस्तमसी, शब्दात्मभावाय प्रवृत्तेः सत्त्ववत् , वैधयेण पुरुषवत् , असत्कार्यवादिता चात्यन्तानिष्टा प्रसक्ता, सा च विस्फुटैव, सत्त्वे प्रवृत्तिनियमयोरभूतयोः शब्दात्मव्यवस्थावचनादभ्युपगमात् ।
(वियदिति) वियत्पृथिवीविशेषोपपत्तिवञ्च ते एव प्रवर्तेते रजस्तमसी न पुरुष इत्यस्तु 10 नाम-नैवास्तीत्यभिप्रायः, किन्त्वयमन्यस्ते दोषोऽनिष्ट आपद्यते प्रकाशात्मके तर्हि रजस्तमसी, सत्त्वविलक्षणे न भवत इत्यर्थः कुतः ? शब्दा[त्म]भावाय प्रवृत्तेः सत्त्ववत् ; यच्छब्दात्म]भावाय प्रवर्त्तते तत्प्रकाशात्मकं दृष्टम् , यथा सत्त्वम् , वैधhण पुरुषव दिति-यत् प्रकाशात्मकं न भवति न तच्छब्दात्मभावाय वर्तते यथा तब पुरुष इति, किच्चान्यत्,-असत्कार्यवादिताऽत्यन्तानिष्टा प्रसक्ता, एव
मनभ्युपगम इति वर्त्तते, सा चासत्कार्यवादिता विस्फुटैव, कथं ? सत्त्वे प्रवृत्तिनियमयोरभूतयोः 15 शब्दात्मव्यवस्थावचनादभ्युपगमात्,-सत्त्वस्य कार्य प्रकाश एवेष्टो न प्रवृत्तिनियमौ, जात्यन्तरभूतरजस्तमःकार्यत्वात् तौ तत्रासन्तौ पुनस्तस्य कार्यावभ्युपगतौ, कुतः ? व्यवस्थावचनात् , सत्त्वं शब्दकार्य प्रख्याय शब्दात्मना व्यवतिष्टमानमिति ब्रुवताऽभ्युपगमादिति ।
तथा
यदि तत्सत्त्वमप्रवृत्तमनियतं वा पूर्ववदप्रवृत्तत्वादनियतत्वाच्च तयोस्तथारूपां प्रवृत्तिं न 20 प्रख्यापयेत् , नैवम् वन्ध्यापुत्रवदित्युक्तत्वात् , व्यवस्थानस्य च प्रागसतः सत्त्वविषयस्याऽऽरम्भावस्थायामभ्युपगतत्वात् ।
तस्मात् रजस्तमसीव पुरुषः प्रकाशप्रवृत्तिनियमधर्मा भवेदिति निगमयति तस्मादिति । विशेषमङ्गीकृत्यापि दोषं वक्तुमाहअथापीति । अभ्युपगमवादत्वाद्वस्तुतो रजस्तमसोः पुरुषस्य च वियत्पृथिव्योरिव विशेषो नेवास्तीत्यभिप्राय इत्याहवियत्पृथिवीति । शब्दात्मभावाय प्रवृत्ते रजस्तमसोरपि सत्त्ववत् प्रकाशात्मकत्वमापादयति-प्रकाशात्मक इति । सत्त्ववत् रजस्तमसोः प्रकाशात्मकत्वानभ्युपगमे केवलं प्रकाशात्मके सत्त्वे प्रागसतोः प्रवृत्तिनियमयोः पश्चादभ्युपगमेनासत्कार्यवादित्वं प्रसज्यत इत्याह-किश्चान्यदिति । कथमभ्युपगम इति दर्शयति-सत्व इति, शब्दकार्य प्रख्यायेत्यनेन प्रकाश उक्तः, शब्दात्मना व्यवतिष्ठमानमित्यनेन प्रवृत्तिनियमावुक्ती, इतरानात्मतया शब्दात्मतया स्थितेः नियतप्रवृत्तिरूपत्वादिति भावः । खयं तदात्मना प्रवृत्त एव नियत एव चान्यं तथा प्रवर्त्तयितुं नियमयितुश्चेष्टे, अन्यथा वंध्यापुत्रोऽपि प्रवर्तयेत् नियमयेचेत्याशयेनाह-यदि तत्सत्वमिति । प्रकाशप्रवृत्तिनियमस्वरूपाया व्यवस्थायाः साम्यतादशायां सत्त्वेऽभावात् वैषम्यदशायाचा
सि. क. दृष्टान्ता०। २ सि. क. विशेषापादना० । ३ सि.क. वृत्त्यापि यन्पृ०।४सि. एव प्रवर्तते, क. एव वर्तते।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org