________________
wwwmamanna
असत्कायवादापत्तिः] न्यायागमानुसारिणीव्याख्यासमेतम्
(यदीति) यदि तत्सत्त्वमप्रवृत्तम नियतं वा पूर्ववदप्रवृत्तत्वादनियतत्वाच्च तयोस्तथारूपांशब्दात्मिकां प्रवृत्तिं न प्रख्यापयेत् , नैवम् , कस्मात् ? वन्ध्यापुत्रवदित्युक्तत्वात् , व्यवस्थानस्य च प्रकाशप्रवृत्तिनियमात्मकस्य प्रागसतः सत्त्व विषयस्याऽऽरम्भावस्थायां साम्यावस्थाविलक्षणायामभ्युपगतत्वादसतोः प्रवृत्तिनियमयोः सत्त्वाभ्युपगमादतिस्फुटा।
किश्चान्यत्
रजस्तमसोः शब्दभावाय प्रवृत्तिं प्रख्यापयतीति वचनात्तयोः प्रागसतः प्रकाशनस्याभ्युपगमादसतोऽभिव्यक्तिरुत्पत्तिर्वाऽभ्युपगता, यदि ते तथाप्रतिपद्येते ततः सत्त्वेन प्रकाशिते, आचार्येणेव नर्तकी।
रजस्तमसोरित्यादि यावत् प्रकाशनस्याभ्युपगमादिति, असत्कार्यवादिता विस्फुटैवेति वर्तते, तस्मिन्नेव सत्त्वप्रकाशनात्मव्यवस्थानोपकारवाक्ये रजस्तमसोः शब्दभावाय प्रवृत्तिं प्रख्यापयतीति 10 वचनात्तयोः-रजसि तमसि च प्रागसतः प्रकाशस्य जात्यन्तरकार्यभूतस्य तदानीं प्रख्यापनात् असतोऽभिव्यक्तिरुत्पत्तिर्वाऽभ्युपगता, यदि ते रजस्तमसी तथाप्रतिपद्येते-व्यवतिष्ठेते प्रवर्त्तते वा ततः सत्त्वेन प्रकाशिते, तस्मादाचार्येणेव नर्तक्याः प्रागप्रतिपन्नायाः प्रवृत्ताया अवतिष्ठमानायाः, तस्मात् प्रकाशोऽपि तयोः प्रागसन पश्चाजात इत्यसत्कार्यवादिता।
सेदानी वैशेषिकासत्कार्यवादितया तुल्येति भाव्यते
पृथग्भूततत्त्वाश्रयकारणे गुणेऽसतां प्रकाशप्रवृत्तिनियमानामुत्पत्तिः वैशेषिकाभिमततन्त्वाश्रयपटवत् ।
पृथग्भूततत्त्वेत्यादि पृथग्भूतं तत्त्वमात्मा कार्य तद्भावो यस्य स पृथग्भूततत्त्वो गुणः,
15
भ्युपगमात् प्रवृत्तिनियमापेक्षया सत्त्वेऽसत्कार्यवादप्रसङ्ग इत्याह-व्यवस्थानस्य चेति, विशेषतोऽवस्थान स्थितिः नियमः, तत्र विशेषश्च प्रकाशप्रवृत्तिरूपाभ्याम् , अथवा अवस्थानं सद्भावः, स च साम्यावस्थायामपि वर्तते प्रकृतौ सर्वविकाराणां 20 शक्त्यात्मना सद्भावाङ्गीकारात्, तत्र च विशेषः प्रकाशप्रवृत्तिनियमरूपतवेति व्यवस्थायाः प्रकाशप्रवृत्तिनियमात्मकत्वमुक्तम् आरम्भावस्थायामिति स्थित्या गत्या च प्रधानस्य प्रवृत्तिः प्रधानव्यवहारं लभते, यदा स्थित्या प्रवृत्तिस्तदा साम्यावस्थेत्यु. च्यते, यदा तु गत्या प्रवृत्तिस्तदाऽऽरम्भावस्था वैषम्यावस्थेत्युच्यते अत उभयोवलक्षण्यं बोध्यम् । एवमेव रजस्तमसोः प्रागसतः प्रकाशस्यारम्भावस्थायामभ्युपगमादसत्कार्यवादप्रसङ्ग इत्याह-रजस्तमसोरिति यदि रजस्तमसोः प्रवृत्तिनियमो प्रतिपद्येते तर्हि तयोस्तौ सत्त्वप्रकाशप्रतिलब्धस्वरूपावेवेति यथा नर्तकी नर्तकाचार्यप्रेरिता नृत्याय प्रतिपद्यते प्रवर्त्तते 25 व्यवतिष्ठते च तथा ते अपीति तयोः प्रकाशः प्रागसन् जात इत्याह-यदि ते इति । कारणमधिकृत्य वादिनां विप्रतिपत्तय एवं सन्ति, तद्यथा विनष्टाद्वीजादकर उत्पद्यते नष्टाच दुग्धाद्दधीत्येवमभावग्रस्तेभ्यो बीजादिभ्योऽङ्कराद्युत्पत्तिदर्शनात् सर्वे कार्यभावाः अभावकारणका इत्यसतः सज्जायत इति सौगताकूतम् , एकं पुरुषाद्येव अनिर्वचनीयानाद्यविद्योपधानादनेकविधनामरूपप्रपञ्चात्मना विवत्तते रज्जरिव सर्पाद्यात्मना, मुखमिव च मणिकृपाणदर्पणादिभेदादनेकविधप्रतिविम्बात्मना, तथा चकस्य सतो विवर्त्तः कार्य न वस्तुसदिति, एकपुरुषादिवादिनः, सत एव परमाण्वादिकारणात् , पूर्वमविद्यमानं व्यणुकादिकार्य जायत इति 30 वैशेषिकासत्कार्यवादः, एतद्वादतुल्यो भवदीयो वाद इदानीं संवृत्त इत्याह-पृथग्भूतेति, खपृथग्भूतकार्यकं हि कारणं तदेव कार्यस्याश्रयः पटादिकार्य खाश्रये समवायिकारणे तन्त्वादावविद्यमानं असमवायिकारणतन्तुसंयोगापेक्षं यथोत्पत्तिं भजते तथैव सत्त्वे पूर्वमवर्तमानौ प्रवृत्तिनियमौ रजस्तमोऽपेक्षावत्पयेते. रजसि च प्रकाशनियमौ सत्त्वतमोऽपेक्षी, तमसि च प्रकाश
१ सि. क. प्रकाशितं । २ सि. क. अव्ययः।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org