________________
द्वादशारनयचक्रम्
[विध्युभयारे स एवाश्रयः कारणं च, तस्मिन् गुणे सत्त्वे रजसि तमसि च वैशेषिककल्पितपटादिकार्यस्य च तन्त्वादिषु परस्परसंयोगापेक्षेष्वसतो भवनवत् प्रकाशप्रवृत्तिनियमानां कार्याणां-सत्त्वे प्रवृत्तिनियमयोरसतोः प्रकाशनियमयोश्च रजसि [प्रवृत्ति प्रकाशयोश्च तमसि, असतां परस्परापेक्षप्रवृत्तिषु सत्त्वादिषूत्पत्तिःभवनमुक्तं भवति-प्रागसन्तः प्रकाशप्रवृत्तिनियमाः शब्दाद्यारम्भकाले उत्पन्ना इति प्रतिपद्यस्व, पृथ5 ग्भूततत्त्वाश्रयकारणाभिव्यक्तेर्वैशेषिकाभिमततन्त्वाश्रयपटवत् ।
क्रिश्चान्यत्
तैर्यथास्वमकारणसद्भिरारब्धं यत्कार्य त्रिगुणं शब्दादि तदपि भ्रान्तिमात्रम् , त्वदुक्तहेतुसामर्थ्यादेव, त्वयैवोक्तं हि यच्च यन्मयैरारब्धं तदात्मकं तदिति, तस्माच्छब्दाद्यसदात्मकं
तन्मयैरारब्धत्वात् कासिकतन्त्वारब्धपटकासिकत्ववत् तन्मयतन्मयश्च भूतादि शरी10 रादि घटादि च रूपादिसुखादिमयत्ववत् ।
तैर्यथाखमित्यादि, वैशेषिकाभिमतकार्यादप्येतत् पापीयो भ्रान्तिमात्रत्वात् , उक्तन्यायेन ते सत्वादिषु प्रकाशादयः कारणेष्वसन्तो यथावं योज्याः, यथावं-प्रकाशः सत्त्वे नास्ति, इतरापेक्ष उत्पन्नः, एवमितरावपीति, तैरकारणसद्भिः-प्रकाशाप्रकाशादि[मि] रारब्धं-परस्पराश्रयेण व्यक्तं प्रवृत्तं नियतश्च यत्कार्यं त्रिगुणं शब्दादि तदप्यलातचक्रवद्धान्तिमात्रं न परमार्थतोऽस्तीत्यापन्नम् , त्वदुक्तहेतु18 सामर्थ्यादेव, तन्मयारब्धत्वात्तदात्मकमेव हि तत् , त्वयैवोक्तं हि यच्च यन्मयैरारब्धं तदात्मकं तदिति
शब्दादीनां सुखाद्यात्मकत्वं शब्दाद्यारब्धानां भूतानां भूतारब्धानाञ्च शरीरादिघटादीनाम् । तस्माद्वयमपि तथैव ब्रूमः-शब्दादि असदात्मकं तन्मयैरारब्धत्वात् काासिकतन्त्वारब्धपटकापोसिकत्ववदिति, यथा कार्यासिकैस्तन्तुभिरारब्धः पटः कार्पासिक इत्युच्यते तथा शब्दाद्यसन्मयं तन्मयप्रकाशाद्यारब्धत्वादिति, तन्मयतन्मयञ्चेति, यदपि च भूतादि शरीरादि घटादि सर्वमसदात्मकं तन्मयतन्मयारब्ध20 त्वात् कासिकपटबुटेरपि कार्यासिकत्ववदिति । तच्छास्त्रप्रसिद्धमेवोदाहरणं रूपादिसुखादिमयत्ववदिति प्रवृत्ती सत्त्वरजोऽपेक्षे इत्याह-वैशेषिकेति । इदमेव प्रयोगद्वारा प्रकाशयति प्रागिति । एकपुरुषादिवादवदयं वाद आपन्न इत्याह-तैरिति प्रकाशप्रवृत्तिनियमैरित्यर्थः, शब्दादयो हि सत्त्वरजस्तमआत्मकाः सत्त्वादिकारणेष्वविद्यमानैः प्रकाशप्रवृत्ति. नियमैरारब्धाः प्रकाशाद्यात्मकाश्चेति फलितम् , सत्त्वादिषु प्रकाशादयो न सन्ति परस्पराश्रयेण प्रकाशादीनामसतामुत्पादाभ्युपगमात्, एषोऽभ्युपगमोऽपि रज्वादौ सर्पविभ्रमवद्धान्तिरूप एव, असन्मयारब्धस्यासदात्मकत्वात्, यद्यन्मयारब्धं 26 तत्तदात्मकमिति व्याप्तेस्त्वयैवोक्तत्वादिति भावः, तदेव व्याप्तिं प्रदर्शयति-त्वयैवोक्तं हीति, शब्दादीत्यनेन शब्दस्पर्शरूपरसगन्धतन्मात्राणि ग्राह्याणि, तेभ्य एव भूतानामारम्भात् , एते शब्दादयः प्रकाशादिमयसत्त्वाद्यारब्धाः प्रकाशादिमयाश्च तथैव प्रकाशायसन्मयसत्वाधारब्धत्वात् शब्दादयोऽसन्मया एव प्राप्ता इति शब्दादयो रजौ सर्पवद्धमरूपा एव । एवं शब्दाद्यारब्धभूततदारब्धशरीरादितदारब्धघटादीनामप्यसन्मयत्वमसन्मयारब्धारब्धत्वादिना भाव्यमित्याह-तन्मयतन्मयञ्चेतीति । रूपादीति, सुखाद्यात्मकशब्दाद्यारब्धभूतारब्धरूपादीनां सुखाद्यात्मकत्ववदित्यर्थः। तथा च शब्दाद्यसन्मयं, 30 असन्मयारब्धत्वात् , रूपादिसुखादिमयत्ववत्, रूपादि, असन्मयमसन्मयारब्धारब्धत्वादिति युक्त प्रतिभाति । ननु वयं प्रकाशाद्यात्मकशब्दाद्याविर्भावं प्रति सत्त्वमेवोपादानकारणं रजस्तमसी निमित्तमात्रे इति न ब्रूमो येन सत्त्वादी प्रवृत्त्यायभावेन
Amwww
१.सि. क. अपृथग्भू०। २ सि. क. तत्त्वकारणाश्रया० । ३ सि. क. रारब्धय । ४ सि. क. इदं पदं नास्ति । ५ सि. क. क्रुटेरपि।
_Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org