________________
३८१
असत्कार्यत्वव्यापिता] न्यायागमानुसारिणीव्याख्यासमेतम् शब्दस्यासन्मयत्वे साध्ये रूपादिसुखादिमयत्वमुदाहरणम् , रूपादीनामपि तथैवासन्मयत्वं शब्दादिसुखादिमयत्वदृष्टान्तेनापाद्यमिति ।
__ अथोच्येत एवमेव तत्कारणत्वं युज्यते तत्र च तेषु कार्यसत्त्वमेव, शुक्लरक्तकृष्णतन्त्वात्मिकाया रजोः कार्यायास्तन्तुकारणत्ववदिति, नन्वेवमेवमेवेति वचनस्य द्वयी गतिः यथा वाऽस्मदुक्तवदेकात्मकं कारणमनेकाकारविपरिवृत्ति पुरुषवदिति रजस्तमसी सत्त्वमेव. प्रकाश-5 कारकत्वादित्येतस्यां गतौ दोषः स एव पुरुषाद्यन्यतमैककारणवादाभ्युपगमः, अथ त्वन्मतेन जात्यन्तरसुखादित्रयकारणतदात्मककार्याभ्युपगमेनैवमेवेति ।
(अथोच्यतेति) अथोच्येत एवमेव तत्कारणत्वं-तेषां सत्त्वादीनां कारणत्वमेवमेव युज्यते, तत्र च तेषु सत्त्वादिषु कारणेषु शब्दादिकार्यसत्त्वमेव युज्यते प्रतिस्खं प्रकाशादिकार्याणां, शुक्लरक्तकृष्णतन्त्वात्मिकाया रजोः कार्यायास्तन्तुकारणत्ववत्, यथा प्रत्येक शुक्लादिगुणास्तन्तवस्त्रयोऽपि त्रिगुणामेकां 10 रजुमारभमाणाः कारणत्वं नातिवर्तन्ते ततस्तेषु सत एव त्रैगुण्यस्याविर्भावाद्रज्जोः सत्कार्यत्वं तथा सत्त्वादिकारणत्वं शब्दादिसत्कार्यता चेत्यत्रोच्यते-नन्वेवमित्यादि यावत् सत्त्वमेवेति, एवमेवेति यदेतद्वचनं तस्य द्वयी गतिः, यथा वाऽस्मदुक्तवदेकात्मकं कारणमनेकाकारविपरिवृत्ति पुरुषवदित्यभ्युपगमादिति, तदर्शयति सकारणं, यथाऽस्मदुक्तवद्वा एकत्वं रजस्तमसी अपि सत्त्वमेव, प्रकाशकारकत्वञ्च तयोर्यथा प्राग्व्याख्यातं सिद्धमत एव तस्यां गतौ दोषः स एव पुरुषाद्यन्यतमैककारणवादाभ्यु-15 पगम इति । अथ त्वन्मतेन जात्यन्तरसुखादित्रयकारणतदात्मककार्याभ्युपगमेनैवमेवेत्येषा गतिरिति ।
इतर आह
एषा गतिरस्तु को दोषः ? इति चेद्रुमः सर्वव्यक्तव्यापि चासत्कार्यत्वम् , प्रतिगुणं प्रकाशाद्योईयोः कार्यात्मनोः प्रागभूतत्वात् , अन्यगुणकारणकार्यात्मनामन्यत्रासतामुत्पत्तेर्व्यवस्थानवचनात् प्रख्यापनवचनाच्चाभ्युपगतत्वात् ।
20 (एषेति) एषा गतिरस्तु को दोषः ? इति, अत्र दोषकुतूहलञ्चद्रूमः-सर्वव्यक्तव्यापि चेत्यादि, प्रकाशप्रवृत्त्याद्यात्मकशब्दाद्याविर्भावेऽसत्कार्यवादः प्रसज्येत, किन्तु शुककृष्णरक्कतन्तूपादानकरज्वाविर्भाववत् प्रकाशप्रवृत्ति. नियमात्मकसत्त्वरजखमउपादानक: शब्दादिपरिणामः, गुणत्रयसंयोगस्यानादितया वियोगासम्भवादित्याशयेनाऽऽशङ्कतेअथोच्यतेति । शुक्लरतति यथा श्वेतरक्तकृष्णवर्णमयतन्तुभिरनेकैरारब्धा रज्जुत्रिगुणात्मकतन्तुपरिणामाऽप्येका प्रागनेकेषु तन्तुषु विद्यमाना रज्जुकालेऽपि श्वेतादीनि सूत्राण्यसङ्कीर्णतयैवोपलभ्यन्ते तथैव प्रकाशाद्यात्मकत्रिगुणारब्धं शब्दादि प्राक् 25 त्रिगुणेषु सदेवाविर्भूतमसङ्कीर्णप्रकाशाद्यात्मकञ्चैकदैवैकस्य शब्दादेः पुरुषभेदेन सुखाद्यात्मकत्वानुभवात् , तस्माच्छब्दादेः सत्त्वादिकारणकत्वं सत्कार्यत्वञ्चेति भावः । अथैवमेव तत्कारणत्वं युज्यत इति वाक्यस्य कोऽभिप्रायः, किं सुखदुःखात्मकशब्दाद्यनेकपरिणामानामेकात्मकैकस्य कारणत्वमिति, किंवा परस्परासङ्कीर्णप्रकाशाद्यनेकात्मकानेकेषां कारणत्वमिति वा, प्रकारान्तरासम्भवात् , मया पूर्वमापादितस्यैकात्मकैककारणत्वस्याभ्युपगमे दोषमादर्शयति-एवमेवेतीति। अनेकात्मककारणत्वपक्षे दोष वक्तुमाह-एषेति यद्यपि 'हेतुमदनित्यमव्यापि सक्रियमनेकमाश्रितं लिङ्गम् । सावयवं परतंत्र व्यक्तं विपरीतमव्यक्तमितीश्वर-30 कृष्णेनानेकात्मकैकस्य कारणत्वमुक्तम् तथाप्यत्र सत्त्वरजस्तमांसि त्रीणि शब्दाद्यात्मभिरित्यादिवचनमवलम्ब्य विचारप्रस्तुते. रनेकात्मककारणत्वमुक्तं बोध्यम् । सर्वव्यक्तति, महदादिभूतान्तं त्रयोविंशतितत्त्वरूपं व्यक्त तथा तन्तुपटादयोऽपि
१सि. क. सत्त्वस्वारमवदिति । २ सि. क. यद्वा । ३ सि. क. कारण ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org