________________
३५०
ammammam
द्वादशारनयचक्रम्
[विध्युभयारे ग्लानशिबिकावाहकवत , असम्पूर्णशक्तिता वाऽप्रकर्ष इति कारणतैव न स्यात्तस्य, उपहतबीजवत् ।
(एवन्त्वित्यादि) नानयोः सत्त्वरजसोरितरेतरानुग्राहिता, उत्थाप्यसाहायकशक्तित्वात् , सहायभावः साहायकं तस्मिंस्तेन तदेव वा शक्तिः सा उत्थाप्या ययोस्तदानीमेव, ते वस्तुनी उत्थाप्य साहायकशक्तिनी तद्भावादुत्थाप्यसाहायकशक्तित्वात् , वाताहतनौद्वयवत् , यथा जलेऽन्योन्यबद्धे नावौ नेतरेतरत्राणाय तथा सत्त्वरजसी, शिबिकावाहकवदितरेतरानुग्राहिता किं न भवेदिति चेन्न, उत्थाय्यविशेषणात् अयमेव हि दृष्टान्तो ग्लानशिबिकावाहकवत् , यथा ग्लानोऽनुत्थापितो न शक्नोति वोढुमुत्थाप्यसाहायकशक्तित्वात् तथाऽनुत्थापिते सत्त्वरजसी न शक्नुतः परस्परं प्रवर्तयितुं स्वयमलब्धात्मके इति प्रकर्षवृत्तेरभावः प्रकर्षवृत्त्यभावादसम्पूर्णशक्तितेत्यत आह असम्पूर्णशक्तिता वाऽप्रकर्ष 10 इति-इत्थं कारणतैव न स्यात् तस्य सत्त्वस्यासम्पूर्णशक्तित्वात् , उपहतबीजवत्, यथोपहतं बीजमसम्पूर्णाङ्कुरोत्पादनशक्तित्वान्न कारणमेवं सत्त्वमपि स्यात् ।
अभ्युपेत्यापि कारणत्वं साम्यावस्थायां सत्त्वस्य
असदकरणादितश्चान्यतो न तत्स्वरूपव्यक्तिः, किन्तु स्वत एव, यदा च सुदूरमपि गत्वा प्रागवृत्तरसत्कार्यवादपरिहारेण प्रकर्षो न परिणामवादादृते तदा परिणामादात्मन्येव 18 वर्त्तते युवत्ववत् , अन्यत्र वृत्तस्य परिणामस्यान्यत्रापरिणामकत्वात् ।
(असदिति) असदकरणादितश्चान्यतो न तत्स्वरूपव्यक्तिः-तस्य सत्त्वस्य प्रकाशनस्वरूपप्र कर्पोऽन्यतो-रजस्तमसोः पुरुषतोऽन्यतोऽन्यतो वा कुतश्चिन्न भवति, असदकरणादिभ्यो हेतुभ्यः, तद्यथा असदकरणाद्यथा मृदि सदेव कार्य घटादि क्रियते न खपुष्पादि, स च मृदः स्वात्मनियतो घटात्मस्वरूपव्यक्तिप्रकर्षों नान्यतः पुरुषादेस्तन्त्वादेर्वाऽऽपत्तिकारणाद्भवति, किं तर्हि ? स्वत एव भवति
20 न तूत्थिता, ततस्तस्या अनुग्राहकं सत्त्वम्, तथा सत्त्वस्याप्यनुग्राहकत्वशक्तिः रजसोत्थाप्या, न तूत्थिता, ततश्च सत्वशक्ती
उत्थितायां तदनुग्रहेण रजः समर्थ स्यात् , रजःशक्तावुत्थितायाश्च सत्त्वं तदनुग्रहेण समर्थ स्यादिति खखसामर्थ्यप्राप्तौ परस्परमुखप्रेक्षित्वेनेदम्प्रथमतया न कस्यापि प्रवृत्तिरिति कथं तयोः परस्परानुग्राहकत्वमिति भावः । परस्परानुग्राहित्वाभावे दृष्टान्तमाह-वाताहतेति एकस्यां नावि परस्या नावो बन्धः प्रतिरोधार्थ क्रियते, तत्रैकस्याः प्रतिरुद्धत्वे हि इतरस्याः प्रतिरोधः
सम्भवति, एकस्याः प्रतिरोधकत्वशक्तिरपरया प्रतिरुद्धया प्रतिरोधे सति भवति. अपरस्याः प्रतिरोधकत्वशक्तिश्चकया प्रतिरुद्धया 25 प्रतिरोधे सतीति परस्परमुखप्रेक्षित्वान्नेदम्प्रथमतया कापि प्रतिरोधिकेति नेतरेतरानुग्राहित्वं यथा तद्वदिति भावः । उत्थाप्येति विशेषणस्य सार्थकतामादर्शयितुमाह-शि केति, तेषां परस्परानुग्राहकत्वशक्तिः नान्योऽन्यापेक्षयोत्थाप्या, किन्तूस्थितैवेति प्राह-उत्थाप्येति । दृष्टान्तान्तरमुपदर्शयति-अयमेवेति । शिविकावाहकदृष्टान्त एव ग्लानेति विशेषितः प्रकृतार्थे योग्यो दृष्टान्तो भवितुमर्हतीति तत्र साध्यहेतूपदर्शनं करोति-यथेति । प्रत्येक शिबिकावाहकानामिव सत्त्वादेरपि कारणत्वे न
काचित् क्षतिरित्यत्राह-अभ्युपेत्यापीति । अन्यस्मात् सत्त्वखरूपव्यक्त्यभावः साध्योऽसदकरणादित इति हेतुरिति व्याक30 रोति-असदिति, सत्त्वस्य खरूपभूतः प्रकाशः प्रागसत्त्वे नान्यतो भवितुमर्हति, असदकरणादिहेतुभ्यः, नहि सिकताभ्यस्तैलं केनचिदपि कर्तुं शक्यम् , तस्मात्तत्र विद्यमानः खत एव भवतीति भावः । स चेति, स च घटादिः खात्मनियतः-मृद आत्मभूतः सन् सदैवानुगतः घटात्मखरूपव्यक्तिप्रकर्षः-घटादिस्वरूपोऽभिव्यक्तिविशेषः, व्यक्तिप्रकर्षस्यात्मखरूपेति पदं विशेषणं
_Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org