________________
wwwwwwwww
प्रकर्षवृत्तिविवक्षणम्] न्यायागमानुसारिणीव्याख्यासमेतम्
३४९ म्भवादः प्रसज्यते, स चानिष्टस्तस्मादनारम्भाद्वर्तते सत्त्वं प्रकाशनात्मना । यस्मादेवं हि कार्य कारणे सद्यदि सत्त्वं वर्त्तते प्रवर्त्तते, किं कारणं ? अनारम्भात्-आरम्भवादपरित्यागात् । कुतो वर्तते प्रवर्तत इति पर्यायकथनम् ? उच्यते वर्त्ततेरस्त्यर्थत्वाद्वर्त्ततेऽस्ति भवति प्रवर्तत इति पर्यायाः।
इतर आह
न, प्रकर्षणाप्रवृत्तत्वात् प्रकृष्टवृत्तेर्विवक्षितत्वात् , सा च रजोऽनुग्रहात्तद्रूपव्यक्तिः । बीजस्येवाबाद्यनुगृहीतस्योच्छूनाङ्कुरत्वादिवृत्तिरिति न, रजसोऽपि सत्त्ववदपरिसमाप्तरूपत्वात् , रजःप्रवृत्तिलभ्यप्रकाशात्मरूपव्यक्तिसत्त्ववत् , रजसोऽपि स्वरूपव्यक्तिरसमाप्तरूपैव सत्त्वात् प्रतिलभ्यत्वात् , तथाकाशनं हि प्रवर्तकत्वेनाभिव्यक्तिरिति प्रकाशात्मकसत्त्वानुग्रहाद्भवति, अप्रकाशात्मकञ्च कथमन्यप्रकाशने प्रवर्तेत ?।
(नेति) न प्रकर्षणाप्रवृत्तत्वात् , नहि वर्ततेः प्रवर्ततिः पर्यायः, प्रकर्षार्थेन प्रशब्देन विशि- 10 टाया वृत्तेरन्यार्थत्वात् , वर्तमानमात्रस्याविवक्षितत्वात् , प्रकृष्टवृत्तेर्विवक्षितत्वात् , सा च रजोऽनुग्रहात् तद्रूपव्यक्तिः, प्रकर्षेण वृत्तिः रजसाऽनुगृहीतस्य सत्त्वस्य, बीजस्येवा[बा]यनुगृहीतस्योच्छूनाङ्कुरत्वादिवृत्तिः सृष्ट्यभिमुखी सृष्टिरेव वा साऽत्र विवक्षितेति, अत्रोच्यते, न, रजसोऽपि सत्त्ववदपरिसमाप्तरूपत्वात् , तस्यां ह्यवस्थायां रजःप्रवृत्तिलभ्यप्रकाशात्मरूपव्यक्तिसत्त्ववत् , रजसोऽपि हि स्वरूपव्यक्तिरसमाप्तरूपैव, सत्त्वात् प्रतिलभ्यत्वात् , लब्धात्मवृत्ति हि स्वयं सद्रजः सत्त्वे प्रकाशनप्रवर्तनाय 15 समर्थ स्यात् , अप्रकाशितस्य सत्त्वेन तस्य स्वरूपव्यक्तिरेव नास्ति कुतः सत्त्वप्रकाशात्मप्रवर्तना रजसः ? तथाकाशनं प्रवर्तकत्वेनाभिव्यक्तिः, काशनमेव हि स्वरूपव्यक्तिरिति प्रकाशात्मकेत्यादि यावत् प्रवर्तेतेति गतार्थम् , अप्रतिलब्धात्मनाऽननुग्रहात् ।
एवन्तु नानयोरितरेतरानुग्राहिता, उत्थाप्यसाहायकशक्तित्वात् , वाताहतनौद्वयवत् , रम्भवादस्यानिष्टत्वात् सत्त्वं प्रकाशात्मनैव वर्तत इत्यभ्युपेयमित्याह-तस्मादिति । वृत्तिप्रवृत्त्योस्समानार्थकतामादर्शयति- 20 वर्ततेरिति, ननु सत्त्वरजस्तमसां प्रकाशप्रवृत्तिनियमा वृत्त्यविशिष्टा एव तथापि उत्तेजनरूपप्रकर्षार्थसहिता वृत्तिः प्रवर्ततिशब्देन विवक्षितः, स च प्रकर्षो रजोऽनुग्रहाद्भवति, रजो हि उपष्टम्भकम् , तद्धि स्वरूपेणाप्रवृत्तिशीलतया प्रकाशादिरूपखवकार्ये प्रवर्त्तनाय शिथिलीभूते सत्त्वतमसी वृद्धं यष्टिरिव प्रोत्साहयतीति विशिष्ट वृत्तेरेव प्रवर्त्ततिना विवक्षितत्वान्न पर्यायतेत्याशङ्कतेप्रकर्षेणेति । वर्तमानेति, 'वृत्तिर्वर्त्तनजीवन' इत्यनुशासनादवस्थानहेतुर्व्यापार विशेषो वृत्तिः, जीव बलप्राणधारणयोरित्यनुशासनात् खस्थितिहेतुोपारो हि जीवनम् , यथा वैश्यवृत्तिः शुद्भवृत्तिरित्यादिव्यवहारः। प्रकर्षण वृत्तिरिति, खस्वकार्यो-25 न्मुखपरिणामविशेष इत्यर्थः। यथा हि सत्त्वं स्वकार्यप्रकाशनाय स्वयमसमर्थ सत् रजस्तमःकार्ये प्रवृत्तिनियमावपेक्षते तथैव रजोऽपि सत्त्वतमःकार्यप्रकाशनियमाभ्यामन्तरेण खकार्यप्रवृत्तयेऽसमर्थमेवेति प्रकाशव्यतिरेकेणानुद्भूतं रजः कथं सत्त्वं प्रकाशनाय प्रवर्त्तयेदिति समाधत्ते-रजसोऽपीति । तस्यां ह्यवस्थायामिति प्रधानावस्थायामित्यर्थः, तदानीं हि पुरुषार्थक्रियाऽक्षमः परस्पराङ्गाङ्गिभावानपेक्षो गुणानां साम्यतालक्षणसदृशपरिणाम एव विद्यते तत एव सत्त्वादिप्रकाशादिविधानेऽपरिसमाप्तरूपम् , तस्मान्न सत्त्वं वा रजो वा तमो वा साम्यावस्थानात् प्रच्युतिरूपं गुणानां गुणप्रधानभावापेक्ष प्रकाशप्रवृत्त्यादिरूपं विस-30 दृशपरिणामं जनयितुं क्षममित्यभिप्रायः । लब्धात्मवृत्तीति, रजो हि सत्त्वेन प्रतिलब्धप्रकाशं यदा भवेत् तदैव रजःप्रकाशनाय सत्त्वं प्रवर्तयेत् , नान्यथेति भावः । अप्रतिलब्धेति, नहि खयमलब्धसामोऽन्यानुग्रहसमर्थों भवतीति भावः। परस्परानुग्राहकत्वमपि सत्त्वादीनां खतोऽसमर्थानां न सम्भवतीत्याह-एवन्त्विति रजसोऽनुग्राहकत्वशक्तिः सत्त्वेनोत्थाप्या
_Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org