________________
३४८ द्वादशारनयचक्रम्
[ विध्युभयारे यथाऽग्निरप्रवृत्तोऽप्रवृत्तिलब्धात्माऽनग्निः, अनग्निश्च [न]प्रकाशते तथा सत्त्वमलब्धप्रवृत्त्यप्रवृत्तत्वान्न प्रकाशेत ।
आह
ननु प्रकाशात्मकत्वादेवाप्रवृत्तत्वमसिद्धं सत्त्वस्य, रजसा प्रवर्त्यत्वात् , अग्नेरिव सन्धु5 क्षणेन, अत्रोच्यते यद्यप्रवृत्तोऽग्निस्तदाऽसन्नेवाप्रकाशत्वमेव गमयति, प्रकाशात्मप्रवृत्त्यभावात् , एवं हि कारणे कार्यस्य सत्त्वं स्यात् यदि तत् प्रकाशात्मना वर्त्तते प्रवर्त्तते, अनारम्भात्।
ननु प्रकाशात्मकत्वादेवेत्यादि, अप्रवृत्तत्वमसिद्धं सत्त्वस्य रजसा प्रवर्त्यत्वात् , अमेरिव सन्धुक्षणेन, यथाऽग्निर्भस्मच्छन्नः सन्नपि न प्रकाशते, तुषचीवरेन्धनादिभिस्तु संधुक्षितः प्रकाशते, न वाऽप्रकाशमानोऽग्निः [न] भवतीति, अत्रोच्यते-यद्यप्रवृत्तोऽग्निस्तस्यामवस्थायामसन्नेवासावतोऽस्मदि1°ष्टमप्रकाशत्वमेव गमयति, अग्नेर्वेषा काचित् प्रकाशनस्य मात्रा सैवाऽऽत्मा प्रकाशनात्मप्रवृत्त्यभावात्तदासौ तीसन् , वन्ध्यापुत्रवत् , तथा सत्त्वमप्यप्रवृत्तत्वादिति । एवं हीत्यादि, कारणे कार्यस्य सत्त्वमेवं हि स्याद्यदि तत्-सत्त्वं प्रकाशात्मना वर्त्तते प्रवर्ततेऽनारम्भात् , इतरथा[ऽर्था]न्तरसम्बन्धारभ्यत्वादसत्कार्यवाद एवायमपि स्यात् । यथाहुरसत्कार्यवादिनः 'क्रियागुणव्यपदेशाभावादसत्कार्यम्'
(वै० अ० ९ आ० १ सू० १) समवाय्यसमवायिकारणसम्बन्धे सति 'द्रव्याणि द्रव्यान्तरमार15 भन्ते' (वै० अ० १ आ० १ सू०१०) येषाञ्चाधिकृतमारम्भसामर्थ्य तैरारब्धे कार्यद्रव्ये तत्समवेतानियमत एव 'गुणाश्च गुणान्तरमारभन्ते' (वै० अ० १ आ० १ सू० १०) इत्यार
साध्यते, स चाभावः सत्त्वेऽसिद्धः, सत्त्वं हि रजस्तमःकार्यभूतौ प्रवृत्तिनियमौ सहकारित्वेनोपादाय प्रकाशत एवेत्याशङ्कतेनन्विति, सत्त्वस्य प्रकाशात्मकत्वं कार्यकारणयोस्तादात्म्याद्विज्ञेयम् । तथा च साम्यावस्थायां सत्त्वस्य प्रकाशाजनकत्वेऽपि
प्रकाशयोग्यताया अक्षतत्वेन नाप्रकाशकत्वमिति भावः । यत्र हि सर्वात्मना कार्य न विद्यते तस्य तदात्मत्वासम्भवेनासत्त्वमेव 20 स्यादित्याशयेन समाधत्ते-अत्रोच्यत इति । नवेति, अप्रकाशमानत्वमात्रत्वादनग्नित्वं न भवतीत्यर्थः । अग्नेह्येषेति, प्रका
शनखभावोऽग्नियेदि कोशकादिवाश्रयमानं स्वपरिमाणमात्रमपि वाऽप्रकाशयन् कथमसावग्निभवेत् , प्रकाशनात्मकस्याग्नेः प्रत्यक्षानुमानविषयस्य ताभ्यां तस्य तथाऽग्रहणेऽस्तित्वे प्रमाणमेव नास्तीत्यसन्नग्निः, प्रकाशनात्मप्रवृत्त्यभावात् , वन्ध्यापुत्रवदितिवत् सत्त्वमपि प्रकाशनात्मप्रवृत्त्यभावेऽसदेव स्यादिति भावः । भवतां सत्कार्यवादः सम्मतः, तत्र सत्त्वं यदि प्रकाशात्म न भवेत्तर्हि
पे ततः प्रकाशो न भवेदिति तस्य प्रकाशकत्वहानिः स्यात्, अपूर्वोत्पत्त्यनभ्युपगमात्तस्मात् स्तोकमपि सत्त्वं प्रकाशात्म 25 भवेदेवेत्याह-कारणे कार्यस्येति । तदानीं सत्त्वस्य प्रकाशात्मतानभ्युपगमेऽसत्कार्यवादः प्रसजतीत्याह-इतरथेति । तत्र
वैशेषिकसम्मतिं प्रकटयति यथाहुरिति । क्रियागुणेति, क्रियागुणव्यपदेशाभावात् प्रागसदिति सूत्रमिदानीमुपलभ्यते, कारणव्यापारानन्तरं कारणे कार्यस्य सत्त्वाङ्गीकारात्तव्यावर्त्तनाय प्रागिति पदम् , कार्योत्पत्तेः प्राक् कार्यमसत् क्रियागुणव्यपदेशाभावात् , यदि तदानीमपि कार्य सदेव तर्हि घटादावुत्पन्ने घटस्तिष्ठति घटश्चलति रूपादिमानयं दृश्यते च घट इत्यादि
व्यपदेशवत्तदानीमपि स तथा व्यपदिश्येत, न च व्यपदिश्यते तेनानुमीयते तदानीं सोऽसन्निति सूत्रार्थः । द्रव्याणीति, 30 अन्यावयविद्रव्याणि विभूनि च विहाय खेतरनिखिलकारणसमवधाने द्रव्याणि खसजातीयद्रव्यान्तराण्यारभन्ते-अपूर्वतया निष्पादयन्तीत्यर्थः । अन्यावयविनां विभूनाचारम्भसामर्थ्य नास्तीत्याशयेनाह-येषाञ्चेति । अन्त्यावयविगुणान् द्वित्वद्विपृथक्त्वपरत्वापरत्वादिगुणांश्च विहाय गुणाः सजातीयगुणारम्भका इति गुणाश्च गुणान्तरमारभन्त इत्यस्यार्थः । एतादृशा
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org