________________
३४७
अप्रकाशकत्वापादनम् ]
( अविभक्तेति ) अविभक्तानेकार्थकारणमेवेदं पृथिव्यादि - अविभक्तोऽनेकार्थो यस्मिंस्तदविभक्तानेकार्थम्, किन्तत् ? कारणं अस्य पृथिव्यादेस्तदविभक्तानेकार्थकारणं पृथिव्यादि, न विभक्तसुखाकारणपूर्वकम्, विभक्ता वृत्तिरस्य पृथिव्यादेस्तद् विभक्तवृत्ति पृथिव्यादि सा वृत्तिःपृथिव्युदकघटादित्वापत्तिः, [ यथा ] मयूरग्रीवादीति, ग्रीवाबर्हशिखण्डादिवृत्तिर्विभक्ता तदात्माऽनेकार्थाविभक्ताण्डकरसगतकारणैव दध्यादिवृत्तिः क्षीरपूर्वा आदिग्रहणात् पुरा शुक्ररसरुधिराङ्गोपाङ्गादि, 5 श्रीह्यादिपूर्वा उक्तादिग्रहणादाम्रपनसमातुलिङ्गादिपत्रपुष्पफलादिवृत्तिः, तदात्माऽविभक्तपूर्वा, दृष्टान्तबाहुल्यं व्यापित्वप्रदर्शनार्थम्, उक्त [वत् ] वक्ष्यमाणैवत्, तत्कारणं प्रत्येकमभिसम्बध्यते, उक्तवत् वक्ष्यमार्णवत्, पुरुषनियत्याद्यभिन्नैककारणवदित्युक्तवत्, घट एव सर्वमिति विधिनियम एव वक्ष्यमा - णवत्, एवं तावत्, कारणवादो यथाऽस्माभिरिष्टस्तथा घटते न यथा त्वयेष्ट इत्युक्तम् ।
इदानीं त्वत्पक्षे दोषा उच्यन्ते
प्रकाशप्रवृत्तिनियमानान्तु भिन्नात्मकतायां सत्त्वं न प्रकाशेत अप्रवृत्तत्वात् पुरुषवत् त्वयैव हि प्रधानावस्थायामप्रवृत्तसमा गुणा इतीष्यन्ते, पूर्ववद्वोत्तरकालमपि, अनग्निप्रकाशवद्वा ।
न्यायागमानुसारिणीव्याख्यासमेतम्
(प्रकाशेति) प्रकाशप्रवृत्तिनियमानान्तु भिन्नात्मकतायां सत्त्वं न प्रकाशेतेति प्रतिज्ञा, दियात्रत्वेन अप्रवृत्तत्वात् पुरुषवत्, त्वयैव हि प्रधानावस्थायामप्रवृत्तसमा इतीष्यन्ते गुणाः - सत्त्वादयः, 15 तस्मात् सिद्धमप्रवृत्तत्वम् पूर्ववद्वेति प्रधानावस्थायामिवेत्यर्थः, यथा प्रधानावस्थायामप्रवृत्तत्वान्न प्रकाशते सत्त्वमेवमुत्तरकालमपि । तथा रजस्तमसोः प्रवृत्तिनियम निषेधः कार्यः । अनग्निप्रकाशवद्वा,
5.
Jain Education International 2010_04
10
यथा मयूराण्डकरसः, तत्र ग्रीवा बर्हशिखण्डादीनामविभक्ततयाऽवस्थानात्, क्षीरं तत्र दध्यादीनां तथावस्थानात, व्रीह्यादिः अंकुरपत्रपुष्पादीनां तथाऽवस्थानात्, तथाविधाच कारणात् कार्य पृथिव्यादि ग्रीवादि दध्याद्यङ्कुरादि विभक्ततया प्रवर्त्तते, तस्मात् पृथिव्यादीनामविभक्ताने कार्य पूर्वकत्वं स्वभावः । एवकारव्यवच्छेद्यमाह-न विभक्तेति, सुखदुःखमोहात्मकप्रकृतेरेव 20 पृथिव्यादीनां प्रवृत्तिरिति न युक्तमिति भावः । तत्र दृष्टान्तमाह-उक्तवदिति । अविभक्तानेकार्थकारणत्वे दृष्टान्तमाहवक्ष्यमाणवदिति । उपसंहरति एवं तावदिति । कारणं यदि विभक्तसुखाद्यात्म भवेत्तर्हि को दोष इत्याशंकायां तत्र दोषं वक्तुमाह-प्रकाशेति । सुखादीनामविभक्तत्वे विभक्तसुखाद्यनेकार्थैककारणत्वे प्रकाशादीनां भिन्नात्मकतया सुखस्य प्रवृत्त्यनात्मकत्वादितः पूर्वमप्रवृत्तं सुखमिदम्प्रथमतया कथं प्रकाशार्थं प्रयतेतेत्याशङ्कते सत्त्वं न प्रकाशेतेति । बहूनां हेतूनां सम्भवेऽपि दिङ्मात्रेण हेतुमाह अप्रवृत्तत्वादिति । नन्वप्रवृत्तत्वमसिद्धं महदादिभावेन तस्य प्रवृत्तत्वादित्यत्राह - त्वयैव 25 हीति, प्रधानावस्थायां अव्यक्तावस्थायामित्यर्थः, तेन महदादेः प्रधानाभिन्नत्वेऽपि न क्षतिः, साम्यावस्थाविशिष्टतादशायामिति यावत्, तदानीं सत्त्वादिद्रव्याणां कार्यावस्थानुकूलन्यूनाधिकभावेन संहननाभावादप्रवृत्तत्वं सिद्धमिति भावः । ननु सत्त्वस्य प्रकाशात्मकत्वानात्मकत्वयोरिष्टत्वेन सिद्धसाधनत्वमेवेत्यत्राह - पूर्ववद्वेति साम्यावस्थाकाले हि सत्त्वस्या प्रकाशात्मकत्वमिष्टं न तु वैषम्यावस्थायाम्, तथा च विषमतादशायामपि न प्रकाशेतेत्युच्यत इति भावः । अत्र प्रकाशो बुद्धिवृत्त्यादिरूप आलोकः भौतिक लोकश्च प्रवृत्तिर्यत्नश्चलनं वा, प्रकाशप्रवृत्तिभ्यां शून्यत्वं नियमः तयोः प्रतिबन्ध यावदिति सांख्याः । अप्रकाशित- 30 त्वादिहेतुना रजस्तमसोरपि प्रवृत्तिनियमनिषेधः कार्य इत्याह- तथेति । ये हि खकार्ये न प्रवर्तते स नास्त्येव यथाऽभिः प्रकाशनेऽप्रवृत्तोऽनग्निरेव भवत्यत एव नासौ प्रकाशते एवं सत्त्वमपीत्याह-अनग्नीति । ननु सत्त्वस्य प्रकाशकत्वसामान्याभाववत्वं
१ सि. क. माणत्वात् । २-३ सि. क. माणत्वात् । ४ क. कारणनयवादो । ५ सि. क. वक्ष्यन्ते ६ सि. क. कतया ।
For Private & Personal Use Only
www.jainelibrary.org