________________
[ विध्युभयारे
मयूराण्डकरसगतग्रीवादिभावाः, मयूराण्डकरसावस्थायां ग्रीवाबर्हादयोऽविविक्तस्वतत्त्वा श्रीवादित्वेन प्रविभक्तरूपा व्यवतिष्ठमानाः प्रवर्त्तमाना एव, नाप्रवर्त्तमानाः । यन्न प्रवर्त्तते तदविभक्तस्वतत्त्वं सत् कदाचित् प्रविभक्तत्वेन न व्यवतिष्ठते यथा पुरुषो यथा वा मयूराण्डकर से हंसादिग्रीवादय इति, किं कारणं ? द्रव्यार्थनय विकल्पानां सत्कारणवादिनामसदापत्तिप्रवृत्तेः, यतः - यस्मात् इह - एतेषु वादेषु 5 भाव एव यतः - नियतो निशब्दलोपात् तस्मादप्रवृत्तिलक्षणं चेत् न स्यात् सुखादिरिति ।
३४६
आह
ननु विभक्तरसग्रीवाद्यापत्तिवत् प्रधानस्यैव च सापत्तिः सिद्ध्यतीत्यत्रोच्यते कस्य वा न मनोरथः ? कथं भवान् अनेकात्मकमेकमेव कारणमनेककार्यतया विपरिवर्त्तमानमित्येतदर्शनं प्रतिपद्येतेति, तस्य च कारणस्य प्रधानं पुरुषो नियतिः शब्दब्रह्मेत्यादिसंज्ञा त्वष्टा 10 याऽस्तु साऽस्तु किं नो विवादेन, तदर्थ एव मे प्रयासः, अनेकात्मकैककारणमयत्वं त्वं प्रतिपादयितव्य इति एष प्रतिपादितोऽसि एवन्तु न वेत्थ अविभक्तप्रविभागापत्तिः कल्पनेति ।
"
20
( नन्विति ) ननु विभक्तरसग्रीवाद्यापत्तिवत् प्रधानस्यैव च सापत्तिः, त्वदुक्तमयूराण्डकरसगताविभक्तग्रीवादिप्रविभागापत्तिभाव दृष्टान्त सामर्थ्यादेव त्रिगुणसाम्यावस्थैकप्रधानापत्तिरेव सिद्ध्यति, 15 न तु सुखाद्यापत्तिरित्यत्रोच्यते, कस्य वा न मनोरथ: ? कथं भवान् [अनेकात्मकं ] एकमेव कारणमनेककार्यतया विपरिवर्त्तमानमित्येतद्दर्शनं प्रतिपद्येतेति, तस्य च कारणस्य प्रधानं पुरुषो नियतिः शब्दब्रह्मेत्यादिसंज्ञा त्वयेष्टा याऽस्तु साऽस्तु, किं नो विवादेन ? तदर्थ एव मे प्रयास:, [अनेकात्मक ] एककारणमयत्वं त्वं प्रतिपादयितव्य इति, एष प्रतिपादितोऽसि त्वम्, एवन्तु न वेत्थेति गतार्थं यावत् कल्पनेति । तदुपपाद्यते
द्वादशारनयचक्रम्
अविभक्तानेकार्थकारणमेवेदं विभक्तवृत्ति पृथिव्यादि न विभक्तसुखाद्यनेकार्थैकैककारणपूर्वकम् उक्तवत्, यथा मयूरग्रीवादिवृत्तिः दध्यादिवृत्तिः तदात्माविभक्तपूर्वा, वक्ष्यमाणवत् ।
3
सद्भावेन प्रवृत्तिर्भवेदेवेति भावः । यदि प्रवृत्तिमन्ति तानि न भवेयुस्तर्हि ततः प्रवृत्तिर्न कदापि भवेत् मयूराण्डकरसाद्यथा हंसग्रीवादयो न प्रवर्त्तन्त इत्याह-यम्नेति । कारणव्यापारात् प्रागपि कारणे कार्यस्य विद्यमानत्वे हेतुमाह - द्रव्यार्थनयेति द्रव्यं हि भवनलक्षणं मयूराण्डकरसवत् समुपारूढसर्वमेदबीजं निर्भेदं देशकालक्रमव्यङ्ग्यभेदं समरसावस्थमेकरूपं भेदप्रत्यव25 मर्शेनामिन्नमपि भिन्नवदाभासते गुणाः पर्यायाश्च भवनसमवस्थानमात्रका एवोत्थितासीनोत्कुटकशयितपुरुषवत् इत्थमभिमन्तुर्द्रव्यार्थ यस्य भेदमात्रस्यान्तर्वासात् सदेवाविर्भवतीत्यभ्युपगन्तुरसतो भवनं प्रसज्यत इति भावः, अन्तर्वासमेवादर्श - यति-यत इति । ननु अविभक्तप्रीवाद्यात्मकमयूराण्डकरसस्यैव यथा विभकरसग्रीवादित्वेन भवनं तथैव त्रिगुणसाम्यावस्थैकप्रधानमेव तथा तथाsपद्यते न तु गुण इत्याशङ्कते - नन्विति यद्येवं मन्यसेऽनेकात्म कैकस्मात् प्रवृत्तिरिति तर्हि नास्माकं विवादः, तथाविधकारणताया निर्दुष्टत्वात्, अत एव हि तथाविधस्याभ्युपगमे कस्य वा वाञ्छा न भवेत् तस्य तु कारणस्य प्रधानादि • 30 नाममात्रत्वे नास्माकं विवादोऽपि तु तत्स्वरूप एव तथा च त्वं तथाविधकारणमयत्वं प्रतिपादितोऽस्यतो मम प्रयासः सफल इत्यभिप्रायेणाह - कस्य वेति । अनेकात्मकैककारणमयत्वं काल्पनिकमेव न वास्तविकमिति शङ्कां मा कार्षीरित्याह-एवन्त्विति । प्रतिज्ञातं विशदयति-अविभक्तेति । सर्वं हि कार्यजातं प्राकू कारणेऽविभक्तं सद्वर्त्तत इति कारणमविभक्तानेकार्थ
१ सि. क. तदुपपाद्यसे.
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org