SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ wwwwww सत्त्वादिप्रवृत्तिः] न्यायागमानुसारिणीव्याख्यासमेतम् पुरुषोऽपि प्रवर्ततामेभ्य एव, सुखादिवत् , गुणस्यान्यतमस्यैव वा श्वयथुरकस्मात् कुत उत्पन्नः ? किश्चान्यत् शब्दादि वाप्येकायेव, निर्गुणमेकमपरिणामि चैवमाद्यापाद्यमानत्वात् प्रधानावस्थायामप्रवर्त्तमानत्वात् सुखादिवत् , अनेकात्मकमित्यादि विपर्ययधर्मापादनं गतार्थ ततं एवेति । आह नैव प्रवर्तते सुखादि, अप्रवृत्तिलक्षणत्वात् , रज एव प्रवृत्तिलक्षणम् , प्रत्येकं न हि : सत्त्वादयः प्रकाशप्रवृत्तिनियमलक्षणास्ततोऽप्रवृत्तिलक्षणत्वान्न प्रवर्त्तन्ते पुरुषवत्, वैषम्यावस्थायान्तु रजः प्रवर्तते प्रवत्तयति च सुखं मोहश्चेति । नैवेत्यादि, सिद्धसाधनमिदं मा प्रवर्तिष्टेति, न प्रवर्तत एव सुखादि, अप्रवृत्तिलक्षणत्वात् , न हि सुखं मोहो वा प्रवृत्तिलक्षणम् , किं तर्हि ? रज एव प्रवृत्तिलक्षणम् , प्रत्येकं [न]हि सत्त्वादयः प्रकाशप्रवृत्तिनियमलक्षणास्त्रयोऽपि, ततोऽप्रवृत्तिलक्षणत्वान्न प्रवर्तते सुखम् , पुरुषवत्, वैषम्यावस्था- 10 यान्तु रजः प्रवर्त्तते प्रवर्त्तयति च सुखं मोहञ्चाप्रवृत्तिलक्षणत्वात्तयोरिति । अत्रोच्यते त्रयमपि न न प्रवर्त्तते, अविभक्तवतत्त्वस्य तथा प्रविभक्तत्वेन व्यवस्थानात् , यथा मयूराण्डकरसगतग्रीवादिभावाः, यन्न प्रवर्त्तते तदविभक्तस्वतत्त्वं सत् कदाचित् प्रविभक्तत्वेन न व्यवतिष्ठते यथा पुरुषः, यथा वा मयूराण्डकरसे हंसग्रीवादयः, द्रव्यार्थनयविकल्पानां 15 सत्कारणवादिनामसदापत्तिप्रवृत्तेः, यत इह भाव एव यतः। (त्रयमपीति) त्रयमपि न न प्रवर्त्तते-प्रवर्तत एव, अविभक्तवतत्त्वस्य तथा प्रविभक्तत्वेन or moon women व्यवस्थानात् , यदप्रविभक्तस्वतत्त्वं तेन तेन प्रकारेण प्रविभक्तत्वेन व्यवतिष्ठते तत् प्रवर्तत एव, यथा पुरुषस्य कुतो वा त्रयाणां गुणानामुत्पन्नः, अन्यतमस्यैव कुत उत्पन्न इत्याह-गुणस्येति । शब्दाद्यपि निर्गुणत्वादिधर्मवत् कुतो न, प्रधानावस्थायामप्रवर्त्तमानत्वादित्याह किश्चान्यदिति । विपक्षे दण्डमाह-अनेकेति । सुखात्मा सत्त्वगुणः प्रकाशक 30 एव न प्रवर्तकः प्रवृत्तेः रजःकार्यत्वात् तस्मान्मा प्रवर्तिष्टेत्यापत्ताविष्टापत्तिरेवेत्याशङ्कते-नैवेति। अप्रवृत्तिलक्षणत्वात् प्रवृत्तिप्रयोजनकत्वाभावादित्यर्थः, सत्त्वादीनां हि प्रकाशादयः प्रयोजनम् , 'प्रकाशप्रवृत्तिनियमार्था' इत्युक्तेरिति भावः । प्रवृत्तिः रजःकार्यमेव प्रकाशप्रवृत्तिनियमानामेककार्यत्वाभावात् , प्रकाशेनैव हि सत्त्वं प्रवृत्त्या रजो नियमेन तमो लक्ष्यत इत्याशयेनाह-प्रत्येक मिति, प्रकाशो बुद्धिवृत्त्यादिरूप आलोकः, प्रवृत्तियत्नश्चालनं वा, नियमः प्रकाशक्रियाभ्यां शून्यत्वं तयोः प्रतिबन्ध इति यावत् , तैलेक्ष्यन्ते सत्त्वादयो नातः प्रत्येकं त्रिलक्षणाः सत्त्वादय इति भावः । रजः सत्त्वतमसोः कार्यभूतौ प्रकाशनियमावा- 20 श्रित्य खकार्येण प्रवृत्त्या सत्त्वतमसी उपकरोतीत्याह-वैषम्यावस्थायान्विति । त्रयोऽपि गुणाः प्रवृत्तिमन्त एव, रजसा सहकृतयोः सत्त्वतमसोः प्रकाशनियमौ प्रति प्रवृत्तः, तथा च साम्यावस्थायामपि सत्त्वरजस्तमांसि प्रवृत्तिमन्त्येव सत्कार्यवादाभ्युपगमात्, न हि तत्र तदानी प्रवृत्त्यभावे सहकारिशतेनापि तत्र प्रवृत्त्युद्भवः सम्भवतीत्याशयेनाह-त्रयमपीति नोद्वयोः प्रकृतार्थदृढीकारादाह-प्रवर्तत एवेति । अविभक्तति खस्य तत्त्वं खतत्त्वं, अविभक्तं खतत्त्वं यस्य तस्येति समासः कारणदशायां कार्यमविभक्तखतत्त्वं सत् तत्तद्रपेण प्रविभक्तत्वेन व्यवतिष्ठमानं सत् प्रवर्तत एव, व्यवहारायोग्यसूक्ष्मरूपेण 30 कारणे सिद्धस्यैव कार्यस्य व्यवहारयोग्यस्थूलरूपेण भवनात् सत्त्वरजस्तमसां कार्याणां प्रकाशादीनां सूक्ष्मरूपेण तदानीमपि १सि.क.मेकं समनपरि०।२ सि.क, तएवेति । द्वा० न० ६ (४४) Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org
SR No.002585
Book TitleDvadasharnaychakram Part 2
Original Sutra AuthorMallavadi Kshamashraman
AuthorLabdhisuri
PublisherChandulal Jamnadas Shah
Publication Year1951
Total Pages350
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy