________________
३४४
द्वादशारनयचक्रम्
[विध्युभयारे अत्राह
शब्दे त्रैगुण्यमस्त्येवेति चेत् साधूक्तमेतदेवाऽऽवाचयितुमवोचम् , शब्दैकगुणवियदप्रवृत्तिप्रसङ्ग इति, ततश्चात्रिगुणं सुखादि, एकसुखस्वात्मत्वादव्यतिरिक्ततत्त्वं प्रकाशात्मना मा
प्रवर्त्तिष्ट निर्गुणत्वादेकत्वाद्वैषम्यानुपपत्तेरपरिणामित्वादनापत्त्यात्मकत्वात् पुरुषवत् , तथा । तद्धर्मवत्त्वात् पुरुषोऽपि प्रवर्त्ततामेभ्य एव, सुखादिवत्, शब्दादि वाप्येकात्मकायेव प्रधानावस्थायामप्रवत्तमानत्वात् सुखादिवत् , अनेकात्मकं वा सुखादि, तत एव शब्दवत् ।
(शब्द इति) शब्दे त्रैगुण्यमस्त्येवेति चेत्-सर्वस्योक्तसुखदुःखमोहमयत्वाच्छब्दोऽपि तदात्मा त्रिगुण एवेति, चेदित्याशङ्कायामेवञ्चेन्मन्यसे साधूक्तमेतदेव त्वावाचयितुमवोचं शब्दैकगुणवियदप्रवृत्तिप्रसङ्ग इति, ततश्च यत्पुनर[त्रिगुणं सुखादि-सुख मेव पृथक् प्रधानावस्थायां सत्त्वं 10 तदत्रिगुणमेकसुखखात्मत्वात् , अव्यतिरिक्तं तस्य भावस्तत्त्वं यथा तत्सुखमेक[सुख स्वात्मत्वादव्यतिरिक्ततत्त्वं प्रकाशादिश्च तस्य तत्त्वस्यात्मा सर्वत्राभेदभावात् तेन प्रकाशाद्यात्मना मा प्रवर्त्तिष्ट-मा आपत्तिभवनमनुभूत् , निर्गुणत्वात्-गुणसंद्रावानात्मकत्वात् , एकत्वात् - अननेकात्मकैकत्वात् वैषम्यानुपपत्तेरपरिणामित्वात् , वैषम्यापत्तितो हि परिणामित्वं स्यात् साम्यावस्थायान्तु गुणानां तदभावाद्वैषम्यानुपपत्तिरतोऽपरिणामित्वमनापत्त्यात्मकत्वात्-रूपान्तरप्राप्त्यनात्मकत्वात् , तस्यां ह्यव15 स्थायामेवं स्वरूपं सत्त्वम् , दृष्टान्तः पुरुषवत् यथा पुरुषो निर्गुणत्वा[दिधर्मवत्त्वा]न्न प्रवर्तते तथा सुखाद्यपि मा प्रतिष्ठ, निर्गुणत्वादिधर्मवत्त्वे सत्यपि सुखादि प्रवर्तत एव चेत् तथा तद्धर्मवत्त्वात् ,
wwwwwwww
manmmmmmmmmmwwwwwwwwwwwwwwwwwwwwwwwwwwmmmmmmmmmwwwwwwwnonver
wwwwwwwww
इत्युक्तेः, तच्चानेकेषां गुणानामैक्यपरिणतिलक्षणमापत्तिभवनं तच्चाकाशे पुरुषवन्न सम्भवतीति भावः । अथ शब्दस्य सुखदुःखमोहसमन्वितत्वात् , यद्येनान्वितं तत्तदुपादानकमिति व्याख्या त्रिगुणसमुद्भुतं त्रिगुणात्मकञ्चेति शब्दैकगुणप्रवृत्तिनायुक्तेत्याशङ्कते
शब्द इति । शब्दस्यात्रिगुणत्वे वियदर्थ तस्य प्रवृत्तिर्न भवतीत्येतदेव त्वयाऽऽवाचयितुं मयाऽऽशङ्कितमेवं च त्रिगुणात्मका20 देव' कार्य भवतीति यदि मन्यसे तर्हि तत्र दोषाभावेऽपि सत्त्वमत्रिगुणं कथं प्रकाशनाय प्रवर्ततेत्युत्तरयति-साधूतमिति ।
शब्दे त्रैगुण्यमिति, यो गुणाः सुखदुःखमोहा अस्येति त्रिगुणं तस्य भावस्वैगुण्यम् , परार्थत्वं गुणस्य लक्षणम् , शब्दपदेन शब्दतन्मात्रं ग्राह्यम् , यद्यपि सत्त्वादय एव पुरुषोपकरणत्वात् पुरुषबन्धकत्रिगुणात्मकमहदादिनिर्मातृत्वाच्च गुणपदाभिधेयास्तथापि सुखादीनां सत्त्वादिधर्मतया धर्मधर्मिणोरमेदादत्र गुणपदेन सुखादयोऽमिहिताः सुखदुःखमोहमयत्वादित्यनेन, शब्दादितन्मात्राणां स्पष्टसुखादिधर्मकत्वाभावेऽपि उपभोगायोग्यास्पष्टसुखादिधर्मकत्वमस्येवेति पूर्वपक्षाभिप्रायः । समाधत्ते-यत्पुन25 रत्रिगुणमिति, अत्र सुखादिपदेन सत्त्वादि ग्राह्यम् , तत्र प्रकाशार्थ सत्त्वं प्रवृत्त्यर्थ रजः नियमार्थ तमोऽभ्युपेतम् , सत्त्वञ्च केवलसुखस्वरूपमत्रिगुणं कथं प्रकाशनाय प्रवर्ततेति भावः । तत्र हेतुमाह-निर्गुणत्वादिति । ननु सत्त्वादेरपि सुखादिगुण. वत्त्वात् कथं निगुणत्वमित्यत्र तदर्थमाह-गुणसन्द्रावानात्मकत्वादिति । सत्त्वस्य कारणत्वमपि न सम्भवतीत्याह-एकत्वादिति, नन्वेकस्या अपि प्रकृतेः कारणत्वादेकत्वं न कारणताविघटकमित्याशयेन तदर्थमाह-अननेकात्मकेति कार्यलिङ्गेन
सत्त्वरजस्तमःस्वभावस्यैकात्मकस्यैव कारणत्वात् सत्त्वस्य चाने कात्मकैकरूपत्वाभावादिति भावः । महदादीनामुत्पत्तौ गुणवैष30 म्यस्य तंत्रत्वेन सत्त्वस्यैकत्वेन कार्यप्रयोजकवैषम्यासम्भवेन न कारणत्वमित्याशयेनाह-वैषम्यानुपपत्तरिति सारम्भ
कालीन विलक्षणपरिणामप्रयोजकस्य गुणानां गुणप्रधानभावस्य हि वैषम्यं नियामकं तदनुपपत्तेः सत्त्वादि न प्रकाशादिपरिणा. मित्वमापद्यत इति भावः। तदेव स्फुटीकरोति-वैषम्यापत्तित इति । व्याप्तिग्राहकं दृष्टान्तमाह-पुरुषवदिति । सत्त्वे निर्गुणत्वादिकमस्तु आपत्तिभवनश्चानुभूयतामिति चेदाह-तद्धर्मवत्त्वादिति । वैषम्यसम्पादकक्रियाविशेषोऽपि कुतो न
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org