________________
शब्दादाकाशासम्भवः ] न्यायागमानुसारिणीव्याख्यासमेतम्
३४३ पत्तिजनितविचित्रवर्णसुखासुखपक्षी [समान]एकं वृक्षं लोकाख्याश्वत्थं तत्त्वत्वादचलत्वाद्वृक्षोऽश्वत्थसाधात् , परिषस्वजाते-परिष्वक्तवन्तौ, तयोरेकः तयोः-शकुन्योरेकवृक्षपरिष्वङ्गिणोरेक एव शकुनिर्भोगसमर्थस्तस्य पिप्पलस्य पिप्पलं-फलं स्वादु-भोग्यविकारविशेषविचित्ररसं अत्ति–खादति भुङ्क्ते पुरुषएव, भोक्तत्वात् ज्ञत्वात् , अननन्नन्यः प्रकृतिसंज्ञः शकुनिरभुञ्जानः, अभिचाकशीति-आभिमुख्येन तस्यात्यर्थं काशते, शकुनिप्रस्तुतेः पुल्लिङ्गत्वम् ।
एतदधुना परीक्ष्यते
अथ कथं शब्दैकगुणप्रवृत्तिविपदभ्युपगम्यते ? त्वन्मतविरोधात्, प्रयोगश्चात्र न प्रवर्तेतैव शब्दैकगुणाकाशम् , असन्द्रतेः, पुरुषवद्वन्ध्यापुत्रवद्वेति ।
अथ कथमित्यादि, यावद्विपदभ्युपगम्यत इति, यद्य ने कैकात्मककारणत्वमिष्यते एवमेककारणत्वप्रतिषेधानन्तरं पुरुषायेककारणत्वप्रतिषेधाहितसंस्कारतिरोधानकालमप्यप्रतीक्ष्य त्वया कथं 10 शब्दैकगुणप्रवृत्तिविपदभ्युपगम्यते ? अभ्युपगम्यतां तावद्रूपादिसृष्टौ व्यवहारानुपातिनामेषां लोके दृष्टानां द्विन्याद्यनेकस्पर्शरसगन्धगुणानामनेकैकत्वात्तदात्मकवाय्वादिसृष्टिरस्तु नाम त्वन्मतेन सह घटमाना, इदन्तु न युज्यते शब्देनैकगुणा प्रवृत्तिः, इत्थंभूतेनास्य तच्छब्दैकगुणप्रवृत्तिर्विपत् ‘गण गुण संख्याने' शब्दैकसंख्यानप्रवृत्तिरेकस्मात् कारणात् [न]भवेत् , त्वन्मतविरोधात् , [किन्तु] अनेकात्मकैकस्माच्छब्दस्पर्शादिद्वित्रिचतुःपञ्चगुणा भवेत् वाय्वादिवत् , त्वन्मताविरोधात् , प्रयोगश्चात्र न 15 प्रवर्तेत एव शब्दैकगुणमाकाशम्-तन्न भवेदित्यर्थः, असन्द्रुतेः 'गुणसन्द्रावो द्रव्यमिति [ महाभा० ५-१-१-११९ सूत्रे ]लक्षणाभावात् , बहूनां हि गुणानामेकीभवनमैक्यगमनं सन्दूतिः तदभावोऽसन्द्रुतिस्ततोऽसन्द्रुतेन प्रवर्तेत पुरुषवद्वन्ध्यापुत्रवद्वेति, अत्र तदनिष्ठापादनमिति ।
समान-अविशेषमुपलब्ध्यधिष्ठानतया एकमिति यावदित्याशयेनाह-एकं वृक्षमिति । अयं वृक्षोऽश्वत्थ एव विवक्षितः अश्वत्थफलवाचकपिप्पलपदश्रवणात् , 'ऊर्ध्वमूलमधःशाख एषोऽश्वत्थः सनातन' इत्युक्तेः तत्त्वत्वादचलत्वादित्युक्तम्। पिप्पल-20 फलभोक्तृत्वस्य शकुन्यादी प्रसिद्धः सुपर्णाविति पक्षोपस्थितेश्च पक्षिबोधादाह-तयोः शकुन्योरिति । भोगसमर्थ इति, पुरुषस्यैव भोक्तृत्वात् , प्रकृतेस्तु भोग्यत्वादिति भावः । प्रकृतेर्विवक्षितत्वादनश्नन्नन्य इति कथं पुलिङ्गत्वेन निर्देश इत्याशङ्कायामाह-शकुनिप्रस्तुतेरिति । सत्त्वरजस्तमोमयादेकस्मात कारणादेव कार्योत्पत्त्यभ्युपगमे शब्दतन्मात्रादेकस्मादाकाशं शब्दगुणं शब्दतन्मात्रसहितात्स्पर्शतन्मात्राद्वायुः शब्दस्पर्शगुणः शब्दस्पर्शतन्मात्रसहिताद्रूपतन्मात्रात्तेजः शब्दस्पर्शरूपगुणं शब्दस्पर्शरूपतन्मात्रसहिताद्रसतन्मात्रादापः शब्दस्पर्शरूपरसगुणाः शब्दस्पर्शरूपरसतन्मात्रसहिताद्गन्धतन्मात्रात् पृथिवी शब्द-र स्पर्शरूपरसगन्धगुणा जायत इति सृष्टिक्रमे शब्दतन्मात्रादेकात्मकैकरूपात् कारणादाकाशस्योत्पत्तिः कथमिति विध्युभयनयः सांख्यमनुयुक्ते-अथ कथमिति शब्द एवैको गुणो यस्य तच्छब्दैकगुणं शब्दतन्मानं सूक्ष्माकाशात्मकं तस्य स्थूलाकाशजनने या प्रवृत्तिः सैव विपत् , अनेकात्मकैकरूपत्वाभावात् , तत्कथमभ्युपगम्यते, अनेकात्मकैककारणत्वाभ्युपगमविरोधादिति भावः । अधुनैव हि त्वया पुरुषायेककारणत्वप्रतिषेधः कृतः सा च सन्निधिसिद्धिरित्यादिना ग्रन्थेन, तत्प्रतिषेधजनितसंस्कारोऽधुनापि न नष्टस्तदन्तर एव त्वया कथमेककारणकार्यत्वमभ्युपगतमित्याह-एवमेककारणत्वेति । वाय्वादिसृष्टिः स्यानाम अनेकात्म-80 कैककारणप्रभवत्वात् , आकाशसृष्टिस्तु न स्यादित्याह-अभ्युपगम्यतामिति । शब्दतन्मात्राच्छब्दैकगुणस्याकाशस्याभ्युपगमे गुणानां समूहलक्षणगुणसन्द्रावस्याभावेन द्रव्यत्वानुपपत्तिरित्याशयेनाह-प्रयोगश्चात्रेति । द्रव्यं हि भवनं द्रव्यञ्च भव्य
१ सि.क, घटमानम् । २ सि. क. नानेक।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org