SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ Ammmmmwwwww રૂછર द्वादशारनयचक्रम् [विध्युभयारे एकामद्वितीयां सर्वगताम् , मा भूदेकैवेति-अनेकात्मकैकाम् , लोहितशुक्लकृष्णां दुःखसुखमोहात्मरजःसस्वतमोमयीम् , बह्वीः प्रजाः अनन्ताः प्रजायन्त इति प्रजाः,[ताः]महदहङ्कारतन्मात्रादिक्रमेण ब्रह्मादिस्तम्बान्ताः सृजमानां उत्पादयन्तीं सरूपाः सुखाद्यात्मिका आत्मरूपा आत्मसरूपाः, प्रत्यात्मजा बहुवर्णिकाऽऽत्मस्वरूपप्रजासर्जिनी प्रधानेति गम्यते ताम् , अजो टेको जुषमाणः सेवमानः प्रीयमाणः, 5 स हि न जायत इत्यजो नित्यत्वात् , एकः सन्निधिभवनस्याभिन्नस्यैकरूपत्वात् सर्वगतत्वाच्च तामेव जुषमाणोऽनुशेते अनुशयमनुबन्धश्च तस्या न मुञ्चति अनुधावतीत्यर्थः, यथा वत्सोऽजामनुधावति तथा तां प्रकृतिं पुरुषः, जहात्येनां भुक्तभोगामजोऽन्यः, असावपि पुरुषोऽन्य एव तस्या उपरतः संवृत्तो भुक्तभोगां दृष्टदृश्यां विदितात्मानात्मविशेषः प्रकृतिपुरुषज्ञो नर्तक्या इव विकारान् बाह्यान् भ्रूक्षेपक्रमकरचलनादीननुशयहेतूनन्तःकरणशरीरादिसमुद्भूताननात्मभूतानुपलभ्य भिक्षुरिव स्वभावाव10 चिन्तनाद्विरक्तोऽहमनया वृथा क्लेशितो बहिरन्तरशुद्धयेति विरमति, सापि दर्शितविकारा दृष्टाहमनेनेति वीडितेव विनिवर्त्तत इति । तथेतदर्थसम्बन्धिनी व्याख्यातैव द्वितीया गाथा-'सुखश्च दुःखञ्चानुशयञ्च वारेणायं सेवते तत्र तत्र । विशन्ति योनि व्यतिरेकिणस्त्रयः अजस्तु जायामतिसत्यशुद्धः ॥' इति । द्वा-उभौ सुपि डादेशाह। सखाया-अन्योऽन्यसहितावेव विभुत्वनित्यत्वाभ्याम् , सयुजा-पूर्ववत् डादेशात् समानयुजौ समानस्य सकारादेशात , सह पर्णाभ्यां सपो-सपक्षौ शुद्ध्य शुद्धिपक्षौ, सुयुजी सुपर्णा15 विति वा पाठः-सुष्टु अतीव युक्तौ सर्वगतत्वादविभागेन सदा युक्तौ शोभनपर्णौ च परस्परबन्धैक्या च परित्यज्यत इति भावः । अद्वितीयामिति, सजातीयद्वितीयरहितामित्यर्थः, साजात्यञ्च विकृतित्वानधिकरणत्वे सति तत्त्वान्तरोपादानत्वम् , तेन पुरुषस्याविकृतित्वेन महदादेः त्रिगुणत्वेन सजातीयत्वेऽपि न क्षतिः । विभिन्नरूपमहदादिप्रपञ्चोपादानत्वस्य सर्वथैकरूपादसम्भवः, एकरूपात्कारणाद्धि कार्यमेकरूपमेव स्यादित्याशंक्याह-मा भूदिति। अनेकात्मकतामेव दर्शयति लोहितेति लोहिता चासौ शुक्ला च लोहितशुक्ला, सा चासौ कृष्णा च लोहितशुक्लकृष्णेति कर्मधारयात् पूर्वयोः पुंवद्भावः, 20 लोहितं रक्तं रजो रञ्जनात्मकत्वात् , शुक्लं श्वेतं सत्त्वं प्रकाशात्मकत्वात् , कृष्णं नीलं तमः आवरणात्मकत्वात् तदात्मिकां रजः सत्त्वतमोगुणात्मिकामित्यर्थः, रज आदयोऽवयवाः प्रधानस्येति तद्धर्मा लोहितत्वादयोऽवयविनि तेषां साम्यावस्थारूपे प्रधाने व्यपदिश्यन्ते । प्रधान कार्यानुमानं सूचयितुमाह-बह्वीः प्रजा इति, प्रकर्षण व्यक्तरूपेण जायन्ते आविर्भवन्ति नासन्त उत्प त इति प्रजा महदादयः, ताश्च सरूपाः सुखदुःखमोहात्मिकाः बह्वीश्चानेकविधाः सृजमानामाविर्भावयन्ती अनेकविधविकारात्मना परिणममानामित्यर्थः, तेन प्रधान जगदुपादानं सिद्धं तथा हि महदहङ्कारादयः सर्वे भावाः सुखाद्यन्विता दृष्टाः, ये च 25 यदन्वितास्ते तदात्मकोपादानोपादेयाः, यथा घटकटकादयो मृत्कनकान्वितास्तदुपादानकाः, तथा चेमे तस्मात्तथेति सूचयति प्रत्यात्मजेति । प्रकृतेरियं परिणतिः कस्य हेतोरित्याशङ्कय पुरुषोपभोगार्थ खभावत एवास्याः प्रवृत्तिरिति मन्वान आह-अजो ह्येक इति शब्दादयो विषया हि त्रिगुणा इन्द्रियमनोऽहकारप्रणालिकया बुद्धिसत्त्वमुपसंक्रामंति तेन तद्बुद्धिसत्त्वं त्रिगुणं शब्दादिरूपेण परिणमति पुरुषस्तु कश्चित् स्वयमपरिणाम्यपि बुद्धौ वस्तुतोऽप्रविष्टोऽपि बुद्धिवृत्त्यैव बुद्धिसत्त्वादात्मनो विवेकमविन्दानस्तन्निष्ठसुखादीन् विपर्यासेनात्मन्यभिमन्यमानः सुखी दुःखी मूढोऽहमित्यविवेकितया संसरति, सत्त्वपुरुषान्यताख्यातिसमुन्मूलितनिखिलवा30 सनाऽविद्यानुवन्धो जहात्येनां प्रकृतिम् , प्रकृतिरपि विदितवेद्यं दृष्ट्वा ततो निवर्तत इति भावः। सुखञ्चदुःखञ्चेति, गाथेयमिदा नीमुपनिषत्सु न क्वापि दरीदृश्यते सुखञ्च दुःखञ्च हि संशयञ्च वारेणायं सेवते तत्र तत्रेयातावन्मात्रं युक्तिदीपिकाग्रन्थे दृश्यते, ततो नास्माभिर्व्याख्यायते । द्वा सुपर्णेति गाथां व्याख्यातुमाह-वेति 'सुपांसुलुक् पूर्वसवर्णाच्छेयाडाड्यायाजाल' इति सूत्रेण औविभक्ते र्डादेशे द्वेति रूपम् , एवमेव औविभक्तौ सुपर्णादिशब्दा अपि प्रकृतिपुरुषयोरुभयोः सुखासुखपक्षत्वप्रदर्शनायोक्तं परस्परेति । १ सि. क. उभा । २ सि. क. दुभा। Jain Education International 2010 04 For Private & Personal Use Only www.jainelibrary.org
SR No.002585
Book TitleDvadasharnaychakram Part 2
Original Sutra AuthorMallavadi Kshamashraman
AuthorLabdhisuri
PublisherChandulal Jamnadas Shah
Publication Year1951
Total Pages350
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy