________________
अनेकात्मकैकपूर्वकत्वम् ]
न्यायागमानुसारिणीव्याख्यासमेतम्
३४१
5
( अनेकेति ) अनेकात्मकैकपूर्वकं शरीरमिति प्रतिज्ञा, किं पुनः कारणमेवं प्रतिज्ञायते ? प्रोक्तपुरुषाद्येककारणपूर्वकत्वनिराकरणार्थं वक्ष्यमाणेश्वरादिकारणपूर्वकत्व निराकरणार्थञ्च, को हेतुः ? अन्वितविकारत्वात् अन्विता विकारा यस्य तदन्वितविकारम् हस्ताकुञ्चनप्रसारणाङ्गुल्युत्क्षेपणापक्षेपणपादप्रक्षेपाङ्गनिवर्त्तनादिविकाराः शरीरावयैवाश्च सुखादिभिः शब्दादिभिश्चान्वितास्तस्मादन्वितविकारत्वात्, चन्दनशकलवत्, यथा मृदुसुरभिशीतहरित रक्तश्वेता दिभेदस्पर्शरसरूपगन्धादिविकाराणि चन्द - नशकलानि सुखाद्यन्वितानि परमाणुद्व्यणुकाद्यनेकात्मकै कचन्दनतरुपूर्वकाणि तथेदं शरीरमपि सुखाद्यनेकात्मकैककारणपूर्वकमिति नैकैकपूर्वकं यथा पुरुष एवेत्यादि, नापूर्वकं न निर्हेतुकम्, नासत्पूर्वकं वैनाशिकाद्यभिमतवदिति, एतस्य साधनस्य व्यावर्त्त्यार्थोद्देशार्थमन्त्रितत्वादिति सामान्येनास्यैवोक्तस्य निगमनार्थम्, अथवैकैक पूर्वकत्वादिनिराकरण साधनं वा पृथगेव ।
wwwww
www
अन्वाह च-'अजामेकां लोहितशुक्लकृष्णां बह्वीः प्रजाः सृजमानां सरूपाः । अजो 10 ह्येको जुषमाणोऽनुशेते जहात्येनां भुक्तभोगामजोऽन्यः ॥ ( श्वेता० अ० ४ श्लो० ५) सुखश्च दुःखञ्चानुशयञ्च वारेणायं सेवते तत्र तत्र । विशन्ति योनिं व्यतिरेकिणस्त्रयः अजस्तु जायामति सत्यशुद्धः ॥' इति, 'द्वा सुपर्णा सयुजा सखाया समानं वृक्षं परिषस्वजते । तयोरन्यः पिप्पलं स्वाद्वत्त्यनश्नन्नन्योऽभिचाकशीति' इति, (मुण्डको ० ३-१-१ )
ww
अन्वाह चेति, पूर्ववत् अजामिति न जायत इत्यजा नित्या, अथवा पुनः अज गतिक्षेपण - 15 योरिति क्षिप्रगमनादजा, ईर्थप्रकृतिः, क्षिप्रपरिणतिगतिसाधर्म्यात् बहुप्रसवसाधर्म्याद्वा अजेवाजा [तां]
www
. कात्मकेति । प्रतिज्ञा व्यावर्त्य तावदाह-प्रोक्तेति । हेतुमाह-अन्वितेति अन्वितत्वञ्च येन केनचित् सामान्येन, विकाराश्वात्र शरीरस्यावस्थाविशेषाः शरीरावयवाश्च तदेव दर्शयति हस्ताकुञ्चनेति, एते हि विकाराः सुखदुःखमोहसमन्विताः शब्दस्पर्शादिसमन्विताश्च तथाविधविकाराः सन्ति शरीरस्य यद्येनान्वितविकारत्वं तत्तद्वदुपादानकम्, नहि कोऽपि विकारः एकेन सुखादिना शब्दादिना वाऽन्विताः प्रधानमहदादेस्त्रैगुण्याव्यभिचारादनेकत्वाच्च तत्र च सर्वं कार्यजातं अनेकात्मकैकोपा - 20 दानमेव, सत्त्वस्य प्रकाशजननेऽपि रजस्तमसोरपेक्षणात् लघुत्वादिधर्मैरनेकात्मकत्वाच्च शब्दतन्मात्रमपि सुखदुःखमोहात्मकतथाऽनेकैकात्मकमेवेति न कस्याप्येकैकपूर्वकत्वमिति भावः । दृष्टान्तमाह - चन्दनशकलवदिति, चन्दनशकलानां मृदुसुरभ्यादिस्पर्शगन्धाद्यन्वितत्वं सुखदुःखाद्यन्वितत्वमनेकैकात्मकचन्दनतरुपूर्वकत्वञ्च दृष्टमिति भावः । नैकैकपूर्वक मिति एकान्तैकरूपस्यानपेक्षस्य सदा प्रवृत्तिस्वभावत्वेऽनुपरमप्रसङ्गः कदाचित् प्रवृत्त्यभ्युपगमे परविषयद्वैतापत्या एकैकपूर्वकत्वव्याघात इति भावः । नापूर्वकमिति, पूर्वशब्दस्य कारणपर्यायत्वादाह-न निर्हेतुकमिति, कार्यस्य कादाचित्कत्वानुपपत्तेरिति 25 भावः । नासत्पूर्वकमिति, अभावाद्भावोत्पत्तेरसम्भवादिति भावः पूर्ववदिति, जिनवचनस्यैव सर्ववादमूलत्वादिदमपि ज्ञापकं जिनवचनानुसार्येवेति भावः । अध्यात्मविद्या प्रस्तावादजापदं योगेन प्रकृतावेव नेयं न समुदायप्रसिद्ध्या छाग्यामित्यतो योगं दर्शयति-नेति । समुदायप्रसिद्धिपरित्यागेनावयव प्रसिद्ध्याश्रयणस्यानौचित्यादाह- क्षिप्रेति । नन्वजेवाजेति गुणवृत्त्यङ्गीकाराद्रूढिस्त्यक्तैवेति चेद्रूढेरपहृतेऽपि रूढ्यर्थंगुणानां क्षिप्रपरिणतिगति बहुप्रसवादिरूपाणां योगाद्रूपककल्पनया रूढिः स्वीकृतैव, यथा हि लोके यदृच्छया काचिदजा रोहितशुक्लकृष्णवर्णा स्यात् बहुबर्करा सरूपबर्करा च तां च कश्चिदजो जुषमाणोऽनुशयीत, 30 कचिचैनां भुक्तभोगां जह्यात्, एवमियमपि प्रकृतिः त्रिवर्णा बहुसरूपं विकारजातं जनयति, अविदुषा च क्षेत्रज्ञेनोपभुज्यते विदुषा
सि. क. बिकारैः । २ सि. क. वयवैव ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org