________________
द्वादशारनयचक्रम्
[विध्युभयारे सुखाद्यात्मकानाञ्च महदादिना क्रमेणारब्धानां सुखादेरात्मत्वेनाभिव्यक्तं कार्यमेषां शब्दादीनाम् , यानि तैरारब्धानि शरीरादीन्याध्यात्मिकानि भूतादीनि बाह्यानि घटादीनि पृथिव्यादीनि ते सर्वे सुखादिमया एव, तन्मयकारणारब्धत्वात् यद्यन्मयैरारब्धं तन्मयं तत् कापोसिकपटवत्। B (सुखाद्यात्मकानाञ्चति) सुखा[द्या]त्मकानाञ्चेत्यादिना तद्दर्शयति यावदात्मत्वेनाभिव्यक्तं कार्यमेषां शब्दादीनामिति, गतार्थम् , एवं तावद्भूतादिनाऽहङ्कारेणारब्धाः शब्दादयः, यानि तैरारब्धानीत्यादि यावत् सुखादिमया एव परिणामानुक्रमेण भूतानामाकाशादीनां शब्दादिभिः सुखादिमयैरारम्भं दर्शयति-तत्र शरीरादीन्याध्यात्मिकानीति शरीरादीनि भूतादी]नि शब्दाद्यारब्धानि भूतादीनि
भूतादिमयानि त्रिगुणानि वैकारिकारब्धानि श्रोत्रादीन्येकादशेन्द्रियाणि सर्वाण्येव त्रयाणां सुखदुःख10 मोहानां सन्निवेशविशेषाः ततस्तन्मयता, बाह्यानि घटादीनि रूपादिसमूहत्वात्तेषां च सुखाद्यात्मकत्वात्तन्मयानि तदात्मकान्येव, तथा पृथिव्यादयः तन्मयकारणारब्धत्वात् , महदादेः सकलस्य विकारस्य ब्रह्मादि]स्तम्बान्तस्य जगतः सुखादिमयकारणारब्धत्वात् ,यद्यन्मयैरित्युपनयः, तन्मयं तदिति निगमनम् , दृष्टान्तः कार्पासिकपटवदिति कार्पासिकविकारैस्तन्तुभिरारब्धः पटोऽपि कार्पासिक इति यथोच्यते तथा भूतानि सुखाद्यारब्धशब्दाद्यारब्धानि सुखाद्यात्मकानि, भूतैरारब्धानि पुनः शरीरादीनि घटादीनि, 15 आदिग्रहणात् पटकुटिवत् परम्परारब्धत्वात् यथा कार्पासिकतन्त्वारब्धपटमयी कुटिरपि कार्पासिकीत्युच्यते तथा सुखाद्यारब्धशब्दाचारब्धभूताद्यारब्धपृथिव्यादिगवादिघटादिसरित्समुद्रमन्दरादीन्यपि तदात्मकानि ।
अनेकात्मकैकपूर्वकं शरीरमन्वितविकारत्वाच्चन्दनशकलवत् , नैकैकपूर्वकं नापूर्वक नासत्पूकं वैनाशिकायभिमतवत् , अन्वितत्वात् ।
20 करोति तान् प्रति तस्य दुःखरूपसमुद्भवात् , विरहिणो मोहयति, तान् प्रति तस्य मोहरूपसमुद्भवात् , तथा न्यायपरायणो राजा शिष्टानां सुखमुत्पादयति दुष्टानां दुःखं कामिनीनां मोहश्चेवेवं सर्वत्र सुखाद्युपलब्धेः सुखाद्यात्मत्वाभिव्यक्तकार्यत्वात् सुखाद्यात्मकाः सर्वे शब्दादय इति भावः। वयं हेत्वर्थ समासव्याजेनाह-सुखाद्यात्मकानामिति महादादिक्रमेणारब्धानामेषां सुखाद्यामकानां शब्दादीनां कार्य सुखादेरात्मत्वेनाभिव्यक्तमतः सुखाद्यात्मत्वमित्यर्थः । हेत्वन्तरमाह-यानि तैरिति, सुखदुःखमोहात्मकैः त्रयोविंशतितत्त्वैः स्थूलसूक्ष्मशरीरस्यारम्भः, शब्दादिपञ्चतन्मात्रारब्धानि पञ्चभूतानि, भूतविकाराणि घटपटादीनि भूतमयानि त्रिगुणानि च वैकारिकारब्धानि सात्त्विकाहङ्कारोपादानकानि श्रोत्रादीन्येकादशेन्द्रियाणि सर्वाणीमानि धर्माधर्मलक्षण. गुणपरिणामविशेषरूपाण्येव, सुखदुःखमोहात्मकान्येव वा, अत एव सुखदुःखमोहमयानि, यथा बाह्यानि घटपटादीनि रूपादीनां सन्निवेशमात्रत्वाद्रूपादिमयान्येव, यद्यत्सन्निवेशमात्रं तत्तन्मयं यथा बाह्यानि घटादीनि रूपादिमयानि, अत एव च तदात्मकानि तथा च महदादिसकलविकृतयः सुखाद्यात्मकाः सुखादिमयकारणारब्धत्वात् , पृथिव्यादिवदिति प्रयोगः, अत्रादो सुखाद्यारब्धत्वात् , सुखादिसंनिवेशविशेषत्वाच्च सुखादिमयत्वं शब्दादीनां प्रसाध्य ततः शब्दाद्यारब्धानां भूतानां तन्मय30 कारणारब्धत्वात् तन्मयत्वं प्रसाधितं भूतारब्धानाञ्च शरीरादीनां तन्मयारब्धकारणारब्धत्वात् तन्मयत्वं प्रसाधितं विज्ञेयम् ।
परम्परेति सुखाद्यारब्धारब्धारब्धत्वादित्यर्थः । एवमग्रेऽपि भाव्यम् । अथ प्रकृतोपयोग्येनेकैकपूर्वकत्वं साधयति-अने
.क. सि. शरीरीभूतानि ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org