________________
प्रकृतिस्वरूपादि ]
३३९
wwww
आत्मभिः सुखदुःखमोहैः प्रकाशप्रवृत्तिनियमात्मकैः प्रागभिहिताचार्यपवनपाषाणवत् स्वपरेषां नर्त्तिका - पर्णनावामात्मनश्च प्रतिपत्तिचलन धरण करणैरिवेति, ते हि वैकारिकतैजसभूतादिविकाररूपाः, सुखदुःखमोहाः प्रकाशप्रवृत्तिनियमात्मकाः सत्त्वरजस्तमोलक्षणा गुणाः साम्यावस्थायां प्रकृतिरित्युच्यन्त वैषम्येण तु परिणामानुक्रममापन्नाः परस्पराविनिर्भागवृत्तयोऽङ्गाङ्गिभावेन परिणामाद्विकारीभवन्तः शब्दादीनार - भन्ते, तैर्महदादिना परिणामानुक्रमेणारब्धाः शब्दादयोऽपि तदात्मका एव ( शब्दादिपरिणामानुक्रमः 6 सोनुषङ्गेण स्वयमेव वक्ष्यति, अधुना तदात्मकत्वं तावत्साध्यते तदात्मका एव ) सुखाद्यात्मका एव शब्दादयः तदात्मत्वाभिव्यक्तकार्यत्वात् - ते सुखादय आत्मा तदात्मा तद्भवस्तदात्मत्वं सुखाद्यात्मत्वं तदात्मत्वेनाभिव्यक्तं कार्यं येषां ते तदात्मत्वाभिव्यक्तकार्याः शब्दादयस्तद्भावात्तदात्मत्वाभिव्यक्तकार्यत्वात्, मृत्कार्यपिण्डशिवकादिमृत्त्ववत्, यद्यदात्मनाऽभिव्यक्तकार्य वस्तु तत्तदात्मकमेव दृष्टम्, यथा मृदः कार्यं पिण्डः तस्य कार्यं शिवकः एवं क्रमेण स्तूपकुशूलकादि यावद्घट: कपालानि वा मृदात्मकान्येव कार्याणि मौलस्य कारणस्यात्मना विनोत्तरोत्तरेषां कार्याणामभावात्, आदौ मध्येऽवसाने च मृदात्मकत्वं दृष्टमेवं शब्दादयः सुखा [दी ] नां कार्यं शब्दादि कार्यन्त्वाकाशादि तत्कार्यं च गवादि घटादि सर्वं सुखाद्यात्मकत्वेनाभिव्यक्तं तदात्मकमिति ग्राह्यम्, कथं सुखाद्यात्मकत्वेन शब्दादिकार्यमभिव्यक्तमिति चेत्, सुखाद्युपलब्धेः ।
ww
न्यायागमांनुसारिणीव्याख्यासमेतम्
Jain Education International 2010_04
www.www
wwwwwwwwww
त्वात् विकारनित्यत्वेन तदप्रधानमेव स्यात्, यदि च स्थित्यैव वर्तमानं तदाऽव्यक्तरूपेणावस्थानखभावत्वाद्विकाराकरणेन तद- 15 प्रधानमेव स्यात्, तथा च गुणत्रयाणां स्थित्या गत्या च प्रवृत्तिमत्त्वमेव प्रधानलक्षणम्, न तु गुणसाम्यावस्थानमात्रम्, सृष्टिकाले प्रधानाभावप्रसङ्गादिति बोध्यम् । प्रकृतेः स्वरूपमाह - आत्मभिरिति, सत्त्वरजस्तमोरूपायाः प्रकृतेः सुखदुःखमोहा आत्मान इति भावः । प्रयोजनमाह - प्रकाशेति प्रकाशः सुखात्मनः सत्त्वस्य, प्रवृत्तिर्दुःखात्मनो रजसः, नियमो मोहात्मनस्तमसः प्रयोजनमिति भावः । प्रागभिहितेति नाटकाचार्यः स्वहस्तोत्क्षेपणादिना प्रकाशात्मनाऽऽत्मनो नर्तिकायाश्च व्यवति - ष्ठते, पवनः पर्णचालनादिना खपरप्रवर्तनेन व्यवतिष्ठते, नौस्तम्भनपाषाणकः स्वपरनियमने व्यवतिष्ठत इति विधिनयाभिहिते - 20 त्यर्थः । ते हीति अनुभूयमानाः सुखदुःखमोहा वैकारिकतैजसभूतादिविकाररूपाः तत्र वैकारिक एकादशेन्द्रियगणः, तस्य सात्त्विकाहङ्कारात् प्रवृत्तेः, तन्मात्रो गणः भूतादिश्च तमसाहङ्कारात् प्रोक्तं गणद्वयं तैजसमपि - राजसाहंकारसमुद्भूतमपि एतद्गुणद्वयस्य विकाररूपाः सुखादयः गतौ वर्तमानं प्रधानमुच्यते, त एव सुखादयो यदा स्थितौ वर्तमानास्तदा साम्यावस्थानरूपं प्रधानमुच्यत इति भावः । वैषम्येण स्विति त एव सत्त्वादयो गुणा यदा कार्योन्मुखाः भवन्ति तदा परस्पराङ्गाङ्गिभावमापद्यन्ते, यथा कदाचित् सत्त्वस्याधिको भागः स्वल्पाभ्यां रजस्तमोभ्यामुपरञ्जितो भवति कदाचिदधिकं रजः स्वल्पाभ्यां सत्त्व- 25 तमोभ्यां कदाचिदधिकं तमः खल्पाभ्यां सत्त्वरजोभ्यामिति, एवम्भूताः सन्तः सूक्ष्मस्थूलेन भूतभावेनेन्द्रियभावेन च परिणमन्ते, न त्वितरानपेक्षाः सत्त्वादयः परिणमन्ते परस्परा विनिर्भागवृत्तित्वादिति भावः । सत्त्वरजस्तमोगुणैः साक्षादेव न शब्दायाविर्भावः किन्तु महदादिक्रमेणेत्याशयेनाह - तैर्महदादिनेति । प्रधानमहदादीनां सर्वेषां त्रिगुणत्वोक्तेः सुखदुःखमोहात्मकत्वमित्याशयेनाह तदात्मका एवेति, तदात्मत्वाभिव्यक्तकार्यत्वादिति प्रधानादारभ्य महदहङ्कारतन्मात्रापश्च कैका दशेन्द्रियपञ्चभूतगवादिघटादिसर्वे विकाराः सुखाद्यात्मप्रधानोपादेयत्वात् सर्वत्रादिमध्यान्तविकारेषु सुखाद्युपलब्धेश्व सुखाद्यात्मका 30 एव, यथा मृदारब्धाः सर्वे विकारा मृदात्मका एव यद्यदात्मनाऽभिव्यक्तकार्यं तत्तदात्मकमिति भावः । शब्दादौ हेतुसद्भावमाशङ्कय समाधत्ते - कथमिति यथैक एव मेघसमूहो वृष्ट्या कृषीवलान् सुखाकरोति तान् प्रति तस्य सुखरूपसमुद्भवात्, पान्धान् दुःखा
१ ( ) एतदन्तर्गत पाठः सि. क. प्रत्योर्न दृश्यते ।
10
For Private & Personal Use Only
www.jainelibrary.org