________________
द्वादशारनयचक्रम्
[विध्युभयारे कारणेन भवितव्यमनेकात्मकेन, परार्थार्थेन च, भवितव्यमिति वर्त्तते, परस्मै अर्थः परार्थः परार्थोऽर्थः कार्य यस्य कारणस्य तेन कारणेन परार्थार्थेन कार्येण भवितव्यं कारणत्वात् तन्त्वादिवदेव, यथा देवदतशीतत्राणाद्यर्थे पटकार्यास्तन्तवस्तथा तेन कारणेन त्वदिष्टेन भवितव्यम् । स कतमोऽर्थ इति चेदु
च्यते-शब्दाद्युपलब्ध्यर्थत्वात् , आदिग्रहणाच्छब्दाापलब्धिरादिः गुणपुरुषान्तरोपलब्धिरन्तः, इत्याद्य। न्तोपभोगद्वयं पुरुषस्यार्थः, सोऽस्यापत्तिभवनस्य परार्थार्थः, तस्माच्छब्दाापलब्ध्यर्थत्वात् परार्थार्थेन तेन
कारणेन भवितव्यम, किं हि कारणं रूपादि दृष्टमेकं स्वार्थश्चेति कारणस्यानैकैकत्वाविनाभावं पारार्थ्याविनाभावं स्वार्थैक्याभावञ्च दर्शयति, विपक्ष एव नास्तीत्यभिप्रायः, रूपादिग्रहणन्तु पक्षत्वात् ।
रूपादीनां संघातपारार्थ्यपरिणामित्वैः सन्निधिभवनवैलक्षण्यं दर्शयति
तदित्थं द्वैते तु प्रकृतेरनेकात्मिकाया आत्मभिः सुखदुःखमोहैः स्वपरेषां प्रतिपत्तिचल10 नधरणकरणैः प्रागभिहिताऽऽचार्यपवनपाषाणवत् महदादिना परिणामानुक्रमेणारब्धाः शब्दा
दयोऽपि तदात्मका एव, तदात्मत्वाभिव्यक्तकार्यत्वात् , मृत्कार्यपिण्डशिवकादिमृत्त्ववत्, सुखाद्युपलब्धेः।
तदित्थं द्वैते त्वित्यादि, द्विविधपुरुषोपभोगार्थमनेकात्मिकायाः प्रकृतेरित्यादिना ग्रन्थेन तदापत्तिभवनस्वरूपवर्णनम् , प्रक्रियन्ते विकारास्तत इति प्रकृतिः, प्रधीयन्तेऽस्मिन् महदादय इति 15 प्रधानम् , बहूनां धानं बहुधानकममरणादविनाशादमृतमित्याद्यन्वर्थनामिकायाः प्रकृतेरनेकात्मिकाया
पालादय इति, तेनैव हेतुना परार्थार्थत्वमपि साधयति-परार्थार्थन चेति । अत्र पुरुषार्थत्वं प्रदर्शयति-शब्दादीति इन्द्रियद्वारा चित्ताधिष्ठानगताः शब्दादयो विषयाश्चित्तमाकृष्योपरजयन्ति खाकारतया परिणमयन्ति उपरागापेक्षञ्च बुद्धितत्त्वं विषयाकारं भवति चित्तदर्पणे पुरुषप्रतिबिम्बसंक्रान्तिर्भवति तदा शब्दादिकमहमनुभवामीति शब्दाद्युपलब्धिर्भवति, शब्दश्च
पूर्वमज्ञातोऽपि सम्प्रति ज्ञातः ज्ञाताशातविषयत्वादेव बुद्धिः परिणामिनीत्युच्यते, बुद्ध्यादयो हि दृशिरूपस्य पुरुषस्य कर्मरूपता20 पन्नत्वाद् दृश्याः, तदर्थमेव हि दृश्यं तस्मात् पुरुषः खामी दृश्यं बुड्यादिकं खम्, स्वामी च दर्शनार्थ खेन संयुक्तः, तत्संयोगात
शब्दादिदृश्यस्योपलब्धिः स भोगः, या द्रष्टः स्वरूपोपलब्धिः सोऽपवर्गः, एवञ्च जडस्योपलब्धि गः प्रथमः, स्वरूपोपलब्धिश्वान्तः मोक्ष इति फलितम्, इदमेव च भोगापवर्गलक्षणं दर्शनमापत्तिभवनस्य बुद्ध्यादेः फलं तस्मात्तेन कारणेन मेदात्मकेन परार्थार्थन च भवितव्यमिति भावः । एवं च सर्वेषां विकाराणामनेकपूर्वकत्वादनेकात्मकत्वात् परार्थत्वाच्च न किञ्चिदेकं
खार्थश्च कारणमस्तीत्याह-किं हीति । तथा च कारणत्वमनेकैकत्वव्याप्यं परार्थत्वव्याप्यञ्च, न तु खार्थत्वेनैकत्वेन वा 35 समानाधिकरणं येन व्यभिचारः स्यादित्याह-कारणस्येति । अथ सर्वेषां विकाराणामपि सुखदुःखमोहात्मकतां वक्तुमुपक्रमते
तदित्थमिति प्रकृतिशब्द व्युत्पादयति-प्रक्रियन्त इति, अनया व्युत्पत्त्या प्रकृतिशब्दः कारणवाचको बोध्यो मृत्प्रकृतिको घटः कनकप्रकृतिक कनकमित्यादि व्यवहारात् , इयञ्च व्युत्पत्तिः प्रधानेऽन्वर्थताप्रदर्शनाय, अथ वा प्रशब्दः प्रकृष्टवाचकः प्रा पूरण इति धातोरच्प्रत्ययान्तः कृतिशब्देन सृष्टिव्यापारो ग्राह्यः प्रा-प्रकृष्टा मुख्या कृतौ-सृष्टौ या सेति व्यधि
करणबहुव्रीहिसमासेन मुख्यत्वेन सृष्टिकर्ती या सा प्रकृतिरित्यर्थः अथवा प्रशब्दः सत्त्वे कृशब्दो रजसि तिशब्दस्तमसि पुराणे 30 प्रोक्तः, तेन गुणत्रयात्मिकेत्यर्थः, तथा सृष्टिमुख्यकारणत्वादकार्यात्मकत्वमपि लभ्यते, एवञ्च साम्यावस्थालाभात् साम्यावस्थो
पलक्षितगुणत्रयात्मकत्वं प्रकृतित्वम् , तस्यैव पर्यायशब्दानाह-प्रधीयन्त इति प्रधीयन्ते जन्यन्ते महदादिविकारा अनेनेति प्रधानमिति व्युत्पत्त्या विकारकारणत्वलाभेन कार्योन्मुखत्वलक्षणगतौ वर्तमान प्रधानमुक्तं भवति प्रधीयन्तेऽस्मिन्निति व्युत्पत्त्या गुणसाम्यावस्थानवरूपस्थितौ वर्तमान प्रधानमुक्तं भवति, तत्र यदि प्रधानं गत्यैव वर्तमानं विकारावस्थायां वर्तमानखभाव.
१सि.क. नेदं पदमस्ति ।
सि. के. स्वार्थश्चेति ।
___Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org