________________
Awar
भेदात्मकारणम्] न्यायागमानुसारिणीव्याख्यासमेतम् कस्याद्वितीयस्य कस्मैचिदर्थमकुर्वतः, किन्तु संघातात्मकत्वात् , पारार्थ्य मिति सम्बन्धः संघातात्मकभवनात् पारार्थ्यम् , संहत्यकारिणां हि पारायं नानर्थक्यं न स्वार्थत्वं नान्योऽन्यार्थत्वञ्च केवलम् , दृष्टान्तो गृहघटपृथिव्यादिवत् , यथा गृहघटपृथिव्यादयः संघातात्मकाः स्वतः पृथग्भूतपुरुषार्था नानर्थका न स्वार्था नान्योऽन्यार्थाः पुरुषार्थमेव चान्योन्यार्थाः, स्त्रीशोभनालङ्कारवत् तथा आ चक्षुरादयोऽप्याध्यात्मिका इति दृष्टान्तबाहुल्यात परार्थव्यापितां दर्शयति । आ चक्षुरादयोऽपीति, चक्षुरादयोऽपि सूक्ष्मा । आध्यात्मिका ऐक्या यावत् परार्था यावच्च रूपादिव्यणुकादयः किमङ्ग ? पुनर्गृहघटपृथिव्यादयः स्थूला ग्रामारामादयश्चेति ।
यत्पुनरिष्यते एकं कारणं पुरुषादीति तन्न वयमभ्युपेमः, त्वन्मतेनाप्येकञ्चेत् किञ्चित् पारायं कारणमिष्यते तदभ्युपगम्य भेदात्मकेन चानेन भवितव्यमिति प्रतिजानीमहे परार्था
र्थेन च, कारणत्वात् तन्त्वादिवत् , शब्दाद्युपलब्ध्यर्थत्वात् किं हि कारणं रूपादि दृष्टमेकं 10 स्वार्थञ्चेति ?
(यदिति) यत्पुनरिष्यते एकं कारणं पुरुषादीति तन्न वयमभ्युपेमः, त्वन्मतेनाप्येकञ्चेत किञ्चित् पारायं कारणमिष्यते तदभ्युपगम्य भेदात्मकेन चानेन भवितव्यमिति प्रतिजानीमहे, परार्थाथेन च, कारणत्वात् तन्त्वादिवत् , तन्तुकपालादयो हि कारणत्वात् पटघटादीनां कार्याणां रूपादित्रुट्यंश्वादिसंघातरूपा अनेकात्मका एव कारणभावं बिभ्रतो दृष्टाः, नान्यथा, तथा तेनापि त्वदिष्टेन 15 नैकैका इति भावः । संघातात्मकत्वादिति संहन्यन्ते मिश्रीभवन्त्यनेके विशेषा यत्रासौ संघातस्तदात्मकत्वादिति व्युत्पत्ती प्रत्येकमपि प्रकृत्यादयःसंघाता भवन्ति सुखदुःखमोहात्मकत्वात् , पारायं-खभिन्नस्य भोगसाधनत्वम् । परविषयद्वैतपक्षानुगुण्ये. नाह-संघातात्मकभवनादिति संहतिरूपेण भवनादित्यर्थः, तथा च आ चक्षुरादयोऽप्याध्यात्मिकाः परार्थाः संघातात्मकत्वात् , संहत्यकारित्वाद्वा गृहघटपृथिव्यादिवत् स्त्रीशोभनार्थालङ्कारचदिति प्रयोगः, यदा बहून्यचेतनानि साधनानि एकप्रयत्नेन मिलित्वा सचेतनवत् कार्य कुर्वन्ति तदा तद्व्यतिरिक्तस्तत्प्रयोजकस्तत्फलोपभोक्ता कश्चिचेतनः स्यात् यदर्थमेतानि साधनानि 20 प्रयतन्त इति भावः। चक्षुरादयः संहत्यापि करिष्यन्ति स्वार्थमपि, को विपक्षबाधकस्तर्क इत्यत्राह-संहत्यकारिणामिति इतरसहायेनार्थक्रियाकारिणामित्यर्थः, नानर्थक्यं व्यर्थप्रवृत्त्यदर्शनात् , न स्वार्थत्वं संहननवैयर्थ्यात् , नान्योऽन्यार्थञ्च जड़त्वादिति भावः। दृष्टान्तमाह-गृहघटेति, ननु गृहघटादयः संहताः संहृतशरीरार्था दृष्टा इति संहतपरार्थत्वव्याप्यत्वं संघातात्मकत्वे गृहीतमिति तेन हेतुना संघातान्तरार्थत्वमेव सिद्धयेत् , न पुरुषार्थता. येन सन्निधिभवनाभावे आपत्तिभवनं न भवेदिति चेन्न, अनवस्थाप्रसङ्गात् संघातान्तरस्यापि संघातात्मकत्वेनापरसंघातार्थत्वात्तस्यापि तदन्यार्थत्वात्तद्वदेवेति, तस्माद्गौरवेण संहतत्वस्य 25 पारार्थ्यमात्रेणान्वय इति बोध्यम् । स्त्रीशोभनार्थति, यथाऽलङ्कारः स्त्रियः शोभनार्थ एव न खार्थो नान्योन्यार्थो न व्यर्थस्तद्वदिति भावः । अव्यक्तमहदहङ्कारादीनां स्थूलसूक्ष्माणां सर्वेषामेव परार्थत्वं व्यनक्ति-आ चक्षुरादय इति । अथ पुरुषनियत्यादिवादिन एकस्यैव पुरुषादेर्निखिलजगद्धेतुत्वं यदब्रुवन् तन्निराकर्तुमाह-यत्पुनरिष्यत इति । तेषां मते पुरुषादिव्यतिरिक्तस्य वस्ततः कस्यचिदभावेन यदि पारार्थ्यमेकं कारणं किञ्चिदभ्युपगम्यते तर्हि तदपि नैक भवितुमर्हतीति निराक्रियते-त्वन्मतेनापीति. पुरुषस्तु न कारणं संनिधिभवनमात्रत्वात् , अनेकात्मकैकरूपत्वाभावात् , एवं नियत्यादिरपि, 30 तलतिरेकेण कस्यचिदेकस्य परार्थस्याभ्युपगमे तेनापि सम्भूयकारिणा भवितव्यम्, नहि किञ्चिदेकं पर्याप्तं स्वकार्ये, अपि तु सम्भूय, एवञ्च केनचित् प्रकारेण न कस्यचिदप्येकस्मात् सम्भवोऽस्ति किन्त्वनेकस्मादेवेति भावः । तत्र हेतुमाह-कारणत्वादिति, भवदभ्युपगतं परार्थमेकं वस्तु अनेकात्मकमेव कारणत्वात् स्यात्, तन्त्वादिवदिति प्रयोगः । दृष्टान्ते व्याप्तिं ग्राहयति-तन्तुक
१ सि. क. परार्थत्व.।
द्वा० न० ५ (४३) _Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org