________________
३३६
द्वादशारनयचक्रम्
[विध्युभयारे अधुनेतरत्
यदि च तथा तथा वर्त्तनं भवनं रूपादौ पृथिव्यादौ गवादी घटादौ च सकलजगद्वर्तिविवरूपं तदपि नैकैकस्माद्भवति, अपरिणामिनो वा, किन्त्वनेकैकस्मात् परिणामिन एव, आपत्तित्वात् , व्रीहिवत् ।।
(यदि चेति) यदि च तथा तथा वर्तनं भवनं रूपादौ तेन तेन प्रकारेणान्यथाऽन्यथा बाऽऽपत्तिभवनं रूपे रसे गन्धे स्पर्शे पृथिव्यादौ गवादी घटादौ च सकलजगद्वतिविवर्तरूपं तदपि नैकैकस्मात्-एकमेवैकमेकैकं पुरुषादि तस्मादेकैकस्मान्न भवति, किन्तर्हि ? यदनेकमेकं तस्मादनेकैकस्माद्भवति, अपरिणामिनो वा-सन्निधिमात्रभवनात् नेति वर्त्तते, किं तर्हि ? परिणामिन एवापत्तिभवनयोग्याद्भवति कुतः ? आपत्तित्वात् आपत्तिभवनत्वात् ब्रीहिवत् , यथा ब्रीहेरनेकैकस्माद्रूपरसादिपरमाणु10 व्यणुकादिसंघातादकुराधापत्तिः, अङ्करादेर्वा भूम्यम्ब्वादिदेशकालादिसंघातादीह्यापत्तिः तथैतदनेकास्मकैकमापत्तिभवनं नाप्यद्वैते । इत्थं तावत् स्वविषयद्वैते सत्यापत्तिभवनम् ।
परविषयद्वैते सत्येवापत्तिभवनमिदमुच्यते
नाप्यद्वैते भवत्यापत्तिभवनमेकैकस्य कस्मैचिदर्थमकुर्वतः, किन्तु संघातात्मकत्वात् संहत्यकारिणां हि पाराशें नानर्थक्यं न स्वार्थत्वं नान्योऽन्यार्थत्वञ्च केवलम् , गृहघटपृथिव्या15 दिवत्, स्त्रीशोभनार्थालङ्कारवत्, तथा आ चक्षुरादयोऽप्याध्यात्मिकाः।
(नाप्यद्वैत इति) नाप्यद्वैते परविषयद्वैताभावे भवत्यापत्तिभवनमानर्थक्यापत्त्यभावादेकै
मिति । अथाऽऽपत्तिभवनमाख्याति-अधुनेतरदिति, इतरत्-आपत्तिभवनम् , सन्निधिभवनमेव हि तेन तेन रूपादिपृथि. व्यादिगवादिघटादिवृत्त्यन्तरव्यक्तिरूपेणापद्यते, तदप्यापत्तिभवनं नैकैकस्मात् अपरिणामिनो वा, किन्त्वनेकैकस्मात् परिणामिनः,
यद्यपि प्रकृतेः सांख्यमते एकत्वमेवेष्टम् 'अनेकमाश्रितं लिङ्गम् , सावयवं परतंत्रं व्यक्त विपरीतमव्यक्तमित्युक्तः, (सां.का.१०) 20 तथापि सत्त्वरजस्तमसां प्रकृतिधर्मत्वाद्धर्मधर्मिणोरभेदाच त्र्यात्मकमेकं प्रधानमिति वक्तव्यम् , 'सत्त्वादीनामतद्धर्मत्वं तद्रूपत्वात्'
(कापिलसूत्रे अ.६ सू.१८) इति सूत्रात् गुणसंद्रावो द्रव्यमिति लक्षणाच्च सत्त्वादिसमूहस्य प्रकृतित्वेन प्रकृतेः सत्त्वाद्यपेक्षयाऽनेकात्मकत्वं समूहस्यैकत्वेन तदपेक्षया चैकत्वं तथा चानेकात्मकैकस्मादेवापत्तिभवनं बोध्यम् , इदश्चापत्तिभवनं महदाद्यारभ्य रूपादौ पृथिव्यादौ गवादौ घटादौ च सर्वत्र जगति वर्त्तते, अत एवोक्त-सकलजगदिति । अपरिणामिनो वेति, धर्मलक्षणा
वस्थापरिणामशून्यादित्यर्थः, तत्र सति धर्मिणि धर्माणां परस्परमन्यथाभाव धर्मपरिणामः, यथा सुवर्णे विद्यमाने कटककुण्डला25 नामाविर्भावतिरोभावो । परिणतस्य घटादेरतीतवर्तमानानागतकालसम्बन्धो लक्षणपरिणामः, यथाऽतीतो घट इत्यादि। अवस्था
परिणामो नाम नूतननूतनतमत्वादि स्थावरे, जङ्गमे बाल्ययौवनवृद्धत्वादि. व्यवहारत एष त्रिविधः परिणामः, वस्तुतस्तु धमाणां धय॑भिन्नतया धर्मिविक्रियैव सर्वा परिणतिः धर्मद्वारा व्यज्यत इति बोध्यम् , आपत्तिभवनयोग्यानां व्यक्तानां महदादीनां त्रिगुणत्वेनैकत्वेन परिणामित्वेन च रूपादिपृथिव्यादित्वं संभवतीत्याह-परिणामिन इति। खगतानेकात्मकैकत्वे दृष्टान्तमाह-व्रीहि:
मदिति । व्रीहिर्हि रूपरसाद्यात्मानेकपरमाणुसंघातरूपः, अङ्कुरादिरपि अनेकात्मकैकरूप एवेति खगतधर्मधर्म्यपेक्षत्वं बोध्यम् , 30 अधुनाऽनेकैकमपि वस्तु खकार्यनिर्वर्तने परापेक्षाव्यतिरेकेण नापत्तिभवनमनुभवतीत्याह-नाप्यद्वैत इति खव्यतिरिकद्वितीय
वस्त्वभाव इत्यर्थः, पूर्वपरिणामपरित्यागपूर्वकोत्तरपरिणामापत्तिरननुभूतपूर्वावयवानुप्रवेशादेव भवति नान्यथा, यथा व्रीह्यादेः भूम्यम्ब्वाद्यवयवानुप्रवेशादेवाङ्कराद्यापत्तिरतः परस्य भूम्यादेरभावे न भवत्यङ्कराद्यापत्तिरिति बोध्यम् । अत्रापत्तिभवनप्रस्तावात् परशब्देन सन्निधिभवनमेव ग्राह्यमिति तथैव द्वैतं साधयति-परविषयेति, महदादयोऽद्वितीयाः प्रयोजनव्यतिरेकेणाहकारादेर्जनने न ह्यपरानुप्रवेशमपेक्षन्ते किन्तु परप्रयोजनायैव संहता भवन्ति, अतस्ते परार्थ संहत्यैवाभिनिवर्तयन्ति
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org