________________
भोभोग्याविनाभावः ]
न्यायागमानुसारिणीव्याख्यासमेतम्
ज्ञातुरसत्त्वात्, अत्रापि पूर्ववदसंज्ञातृत्वादिति वा हेतुः साधर्म्यदृष्टान्तो वन्ध्यासुतज्ञेयघटत्वम्, वैधर्म्येणेतरसुतज्ञेयघटत्वम्, विपर्ययेण वा पूर्ववत् साधनद्वयम्, परस्परापेक्षज्ञातृज्ञेयत्वसाध्यतया
वैयधिकरण्यपरिहारेण हेतुर्वाच्यः, एवमेव हि ज्ञेयस्य ज्ञेयता भवितुमर्हति यदि केनचिदनुपहतेन्द्रियज्ञानेन ज्ञायते, यथाऽनुपहतेन्द्रियबुद्धिपुरुषज्ञेयघटवत् मध्यस्थेन तर्कागमकुशलेन विपश्चिता प्रमात्रा वा ज्ञेयसाधनम्, यथेति, यथा न भोग्यमन्तरेण, भोक्तृत्वम्, असद्भोग्यत्वात् खपुष्पमकरन्दभ्रमवत् वैधर्म्येणेतरकुसुममकरन्दभ्रमवत्, सद्भाग्यत्वाद्भोक्तृत्वमिति तत्साधर्म्येण वैधर्म्येण वा खपुष्पभ्रमवत्, परस्परावधिकं वा पूर्ववद्भोक्तृभोग्यत्वसाधनम्, अत्रापि चैवमेव हि भोक्तुर्भोग्यत्वमिति ग्रन्थो द्रष्टव्यः, तथा न भोक्तारमन्तरेण भोग्यमसद्भोक्तृत्वाद्वन्ध्यासुतयौवन वार्धक्यवत् सद्भोक्तृकं भोग्यत्वादितरसुतयौवनवार्धक्यवत् पूर्ववदेवात्रापि व्याख्या यावदेवमेव हि भोग्यस्य भोग्यत्वमिति ।
३३५
10
युगपद्वा परस्परसम्बन्धिसत्ताको भोक्तृभोग्यौ, तत्सम्बन्धित्वात्, यथा सम्बन्धी भ्राता सम्बन्धिनेतरेण भ्रात्रा विना न भवति तथा भोक्तृभोग्याविति ।
5
wwwwww
( युगपद्वेति ) युगपद्वा परस्परसम्बन्धिसत्ताको भोक्तृभोग्यौ तत्सम्बन्धित्वात् तयोः सम्बन्धित्वादित्ययमर्थ प्रदर्शन हेतु:, प्रयोगहेतुस्तु सम्बन्धित्वादित्येव, यथा सम्बन्धी भ्राता सम्बन्धिनेतरेण भ्रात्रा विना न भवति कनीयान् ज्यायसा ज्यायान् वा कनीयसा तथा भोक्तभोग्यौ, यथा [स] दलङ्कारौ दम्पतीत्येवमादिदृष्टान्तैर्भोक्तृभोग्यसम्बन्धित्वसिद्धिरन्योन्याविनाभाविनीति प्रागुक्तं सन्निधिभवनं द्वैते 15
wwwww
Jain Education International 2010_04
सति सिद्ध्यतीति ।
नुमानाभिप्रायेणाह - अत्रापीति । असंज्ञातृत्वच्च योग्यज्ञात्रसत्त्वम्, योग्यस्य ज्ञातुरभावे हि वस्तु न ज्ञातमिति कथं ज्ञेयं स्यात्, यथा वन्ध्यासुतादिना घटो ज्ञेयो न भवति, अवन्ध्यासुतेन च ज्ञेयो भवतीति भावः । युगपद्वेति प्रकृतिपुरुषसंयोगो हि दर्शनार्थं कैवल्यार्थञ्च, प्रधानेन सुखाद्यात्मकखखरूपानुभवरूपभोगार्थं पुरुषोऽपेक्ष्यते, न च प्रकृतिः खमनुभवितुमलम्, स्वात्मनि क्रियाविरोधात् पुरुषेण च मोक्षकारण विवेकज्ञानरूपप्रकृतिपरिणामार्थं प्रधानमपेक्ष्यते, पुरुषो हि अनादितः प्रधा- 20 नादात्मनो विविश्कतामबुध्यमानः भोगाय संयुक्तोऽपि कैवल्याय संयुज्यतेऽतोऽत्र भोक्तृभोग्यौ परस्परापेक्षसत्ताको विज्ञेयौ, सामान्येन भोगाश्रयो भोक्ता, भोगविषयो भोग्यः, भोक्तुरभावे भोगाभावाद्भोगविषयताया असम्भवेन न भोग्यता सम्भवतीति भोग्यं स्वस्वरूपनिर्वाहाय भोक्त्रपेक्षसत्ताकम्, विषयाभावे विषयिणो भोगस्याप्यसम्भवान्न भोक्तृता पुरुषस्य निर्वहतीति स्वस्वरूपसम्पत्तये भोकापि भोग्यापेक्षसत्ताकः, भोग्यत्वभोक्तृत्वयोः परस्परांशे नित्यसाकांक्षत्वादिति भावः । तत्सम्बन्धित्वञ्च तन्निरूपितं सम्बन्धित्वम्, तत्र यदि भोक्तृनिरूपित सम्बन्धित्वमुच्यते तर्हि तस्य भोग्य एव सत्त्वादेकदेशासिद्धिः, यदि च भोग्य- 25 निरूपितसम्बन्धित्वमुच्यते तर्हि तस्य भोग्येऽभावात् स एव दोष इत्याशङ्कायामाह तयोरिति तदुभयनिरूपितसम्बन्धित्वन्तु न क्वापि भोक्तृभोग्यव्यतिरिक्ताभावादतः सम्बन्धित्वमात्रं प्रयोगहेतुस्तस्य प्रतियोगितानुयोगितान्यतरसम्बन्धेनोभयनिष्ठत्वाददोष इति भावः । भोक्तुः भोगापवर्गप्रयोजनकमेव दृश्यस्य स्वरूपमतो भोक्तृखरूपेण प्रतिलब्धसत्ताकम्, नहि परप्रयोजनकं वस्तु परप्रयोजनं विना क्षणमपि स्थातुं क्षमते, अतश्चैतन्याधीना सत्ता दृश्यस्य न स्वतः, शुद्धोऽपि द्रष्टा बुद्धिस्थं भोग्यमर्थं शब्दादिकमनुपश्यतीति प्रतिबिम्बयाऽऽरोपित क्रियया दर्शनकर्तृत्वमस्य द्रष्टृत्वमिति तयोः स्त्रीपुंसयोरिव परस्परं सम्बन्धित्वं विज्ञेयमिति 30 भावार्थमाह-यथा सदलङ्काराविति, प्रकृतिस्थानापन्ना स्त्री महदादिस्थानापन्नशोभनालङ्कारद्वारेण पुरुषभोग्या, भोक्ता च पुरुष इति तयोः परस्परसम्बन्धिसत्ताकत्वं बोध्यम्, तदेवं भोग्यद्वैतभूततायामेव सन्निधिभवनसिद्धिरादर्शितेत्याह-प्रागुक्त.
१-२ सि. क. वार्द्धतक० ।
For Private & Personal Use Only
www.jainelibrary.org