________________
३३४ द्वादशारनयचक्रम्
[विध्युभयारे भोगार्थत्वात् तज्ज्ञेयमापत्तिभवनं तदन्तरेण न ज्ञातु तृत्वम् , कुतः ? ज्ञेयासत्त्वात् ज्ञेयस्यासत्त्वादिति । वैयधिकरण्याज्ज्ञस्याधर्मत्वादसिद्धो हेतुरिति चेन्न ज्ञातृज्ञेययोः सम्भिन्नत्वेन साध्ययोस्तदसत्त्वस्य धर्मत्वात् अथवाऽनुपपन्नं ज्ञातृत्वमसंज्ञेयत्वादिति प्रयोगकालेऽर्थव्याख्या, तच्च ज्ञेयस्यासत्त्वात् अगृहीतज्ञेयत्वादिति दृष्टान्तः खपुष्पज्ञत्ववत् , यथा खपुष्पविषयं ज्ञातृत्वमसंज्ञेयत्वादनुपपन्नमेवमसंज्ञेयं ज्ञातृत्वम् , 5 वैधयेण इतरकुसुमज्ञत्ववत् , यथा चूतादिखपुष्पेतरकुसुमज्ञत्वं संज्ञेयत्वादुपपद्यते तथा त्वभिमताद्वैतज्ञत्वं द्वैते सत्युपपद्येत तत्रैतस्य ज्ञातृज्ञेयव्यतिरेकाभावात्तदन्तःपातित्वादसत्त्वमिति । अथवा पृथक् साधनं ज्ञातृत्वमुपपद्यते, संज्ञेयत्वादितरकुसुमज्ञत्ववत्, वैधयेणानुपपन्नमसंज्ञेयत्वात् खपुष्पज्ञत्ववदिति, एवं हि ज्ञातुमा॑तृत्वं यो हि संज्ञेयं जानीते स तु मुख्यो ज्ञाता यथा सलिलं सलिलमिति विद्वान् , यः
पुनरसंज्ञेयं विजानीते स तु न ज्ञाता यथा मृगतृष्णिकां सलिलमिति विद्वान् , एवं तावत् ज्ञातैव न 10 ज्ञेयमित्येतद्दर्शनं निरस्तम् ।
अद्वैतमधुना ज्ञेयमेव न ज्ञातेत्येतन्निरस्यते
न ज्ञातारमुपद्रष्टारमन्तरेण ज्ञेयत्वं ज्ञातुरसत्त्वात् , एवमेव हि ज्ञेयस्य ज्ञेयता भवितुमर्हति यदि केनचिदनुपहतेन्द्रियज्ञानेन ज्ञायते, अनुपहतेन्द्रियबुद्धिपुरुषज्ञेयघटवत् , यथा
न भोग्यमन्तरेण भोक्तृत्वमसभोग्यत्वात् , खपुष्पमकरन्दभ्रमवत् , वैधयेणेतरकुसुममक15 रन्दभ्रमवत् , सद्भोग्यत्वाद्भोक्तृत्वमिति तत्साधर्म्यण वैधयेण वा खपुष्पभ्रमवत् , एवमेव हि भोक्तुर्भोक्तृत्वं भवितुमर्हति, यदि सद्भोग्यं भुनक्ति तथा न भोकारमन्तरेण भोग्यमसद्भोक्तत्वात् वन्ध्यासुतयौवनवार्धक्यवत्, सद्भोक्तृकं भोग्यत्वादितरसुतयौवनवार्धक्यवत्, एवमेव हि भोग्यस्य भोग्यत्वं भवितुमर्हति यदि सोक्त्रा भुज्यत इति ।
न ज्ञातारमित्यादि, ज्ञातारमन्तरेण तत्पर्याय दर्शयति उपद्रष्टारमिति, ज्ञात्रा विना न ज्ञेयत्वं
20 उपभोगो गुणपुरुषयोः पार्थक्यावधारणम् , यद्यप्येतौ भोगापवर्गों बुद्धिकृतौ बुद्धावेव वर्तमानौ न पुरुषार्थस्तथापि पुरुषे
सांसारिके व्यपदिश्यन्ते, व्यपदेशबीजञ्च स्वामित्वमिति बोध्यम् । ज्ञेयासत्त्वं ज्ञेयधर्मो न ज्ञातृधर्म इत्यसिद्धत्वमाशङ्कते-वैयधिकरण्यादिति । संसारी पुरुषो धर्मी स च ज्ञेयापृथग्भूत इति न वैयधिकरण्यमित्याशयेनोत्तरयति शातृशेययोरिति । अथ वाऽनुमानप्रयोगो नास्माभिः प्रदर्शितः किन्तु तात्पर्यमात्रमुक्तं प्रयोगस्त्वेवमित्याह-अथ वेति । ज्ञेयस्यासत्त्वादित्यस्या गृहीतज्ञेयत्वादित्यर्थत्वेनासंज्ञेयत्वं विवक्षितमित्याह-तञ्चेति तथार्थव्याख्यानञ्चेत्यर्थः। अनुपपन्नतां स्फुटयति-तत्रैतस्यति 25 अद्वैतज्ञत्वस्य ज्ञातृत्वान्तःपातित्वेन ज्ञातृत्वभिन्नत्वाभावादसत्त्वमिति भावः। कथं ज्ञातृत्वं संभवतीत्यादर्शकत्वपरत्वमाह
अथ वेति अथ दृशिरूपस्य पुरुषस्य यद्दर्शनं तद्विषयतां गतमेव वस्तु दृश्यं ज्ञेयं भोग्यं भवति, सर्ववस्तूनां दर्शनमेव हि प्रयोजनम् , एवश्च सुखदुःखात्मकं सर्व दृश्यं ज्ञेयं भोग्यमनुकूलप्रतिकूलवेदनीयम् , तस्मादनयोरनुकूलनीयेन प्रतिकूलनीयेन च केनचिदन्येन भवितव्यम् , न च बुद्ध्यादयोऽनुकूलनीयाः प्रतिकूलनीयाश्च भवितुमर्हन्ति, वात्मनि वृत्तिविरोधात् , तस्माद्योऽ
सुखाद्यात्मा सोऽनुकूलनीयः प्रतिकूलनीयश्च स एव च द्रष्टा ज्ञाता भोक्तेत्युच्यते, न ज्ञप्तिकर्मता ज्ञयाश्रयं विना सम्भवतीया30 शयेनाह-न ज्ञातारमिति, बुद्धिः सुखदुःखमोहात्मकार्थान् तदाकारपरिणता सत्यध्यवस्यति, तत एव सा गुणत्रयमयी, पुरु
षस्तु तत्प्रतिबिम्बितः पश्यति न तु तदाकारपरिणत इत्याशयेनाह-उपद्रारमिति । अनुपपन्नं ज्ञेयत्वमसंज्ञातृत्वादित्य
१ सि. क. त्वं सज्ज्ञेयः।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org